५१४ कादम्बरी । रम्येंषूद्देशेषु रममाणः स्वभावरम्यमपि रमणीयतरतां यौवनमुपनयामि, एवमुत्पन्नविश्रम्भा देवीमेवाभ्यर्थ्य वैशम्पायनस्यापि मदलेखया सह घटनां कारयामि' इत्येतानि चान्यानि च चिन्तयन्नचे तितक्षुत्पिपासातपश्रमोजागरव्यथो दिवारात्रौ चावहत् । १ एवं च वहतोऽप्यस्य दवीय स्तयाध्वनोऽर्धपथ एव कालसर्पो वर्त्मनः, प्रबलपको ग्रीष्मस्य निशागमो गभस्तिमतः, स्वर्भानुरमृतदीवितेः, धूमोद्गमो वज्रानलस्फुरितानाम्, मदागमो म करध्वजकुञ्जरस्य, मरणान्धतम सप्रवेशो विरहातुराणाम्, अमोवकालपीशवागुरोत्कण्ठितका- मिहरिणानाम्, अभेद्यलोहार्गलदण्डो दिग्वारणानाम्, अच्छेद्यहि जीरशङ्खला वाहानाम्, अनु- न्मोच्य निगलबन्धोऽध्वगानाम्, अलङ्घयकान्तारलेखा प्रोषितानाम्, कालायसपञ्जरोपरोधो जी- वलोकस्य, उदर्जनैलिकुलगवलमलिनघनघटाभोगभीषणो विषम विस्फूजितध्वनिर्विषमतरतडि- गुणाकर्षी मण्डलितविकटशऋकार्मुकोऽनवरतधाराशरासारवर्षप्रहारी पुरोमार्गमुपरुन्धन्वि- → रम्येषु मनोहरेषूद्देशेषु प्रदेशेषु रममाणः क्रीडां कुर्वाणः स्वभावेन निसर्गेण रम्यं रमणीयमपि यौवनं तारुण्य- मतिशयेन रमणीयं रमणीयतरं तस्य भावस्तत्ता तां उपनयामि प्रापयामि । एवमिति । पूर्वोक्तरीत्योत्पन्नः संजातो विनम्भो विश्वासो यस्याः सैवंविधां देवीं कादम्बरीमभ्यर्थ्य प्रार्थनां कृत्वैव वैशम्पायनस्यापि मदलेखया सह घटनां संवन्धं कारयामि विरचयामि । अवहदित्यन्वयस्तु पूर्वमुक्तः । एवमिति । पूर्वोक्तप्रकारेण वहतोऽपि गच्छतोऽप्यध्वनो मार्गस्य दवीयस्तयातिदूरतया | 'दवीयश्च दविष्ठं च सुदूरे दीर्घमायतम्' इत्यमरः । अर्धपथ एवार्धमार्ग एव जलदकालो वर्षासमयो बभूवाजनिष्ट | तमेव विशे- षयन्नाह ~~कालेत्यादि । वर्त्मनो मार्गस्य कालसर्पः कृष्णाहिः । गमनविघ्नकारित्वादुपमानम् | ग्रीष्मस्य निदा- घस्य प्रवलपङ्को बहुलकर्दमः । पङ्कः कर्दमः । गभस्तिमतः श्रीसूर्यस्य निशागमो रजन्या उद्भवः । रविकरप्रसरप्र- तिरोधकारित्वात् । अमृतदीघितेश्चन्द्रस्य स्वर्भानू राहुः । सर्वतस्तत्प्रकाशप्रतिरोधकत्वात् । वज्रं पविस्तस्यानलो चह्निस्तस्य स्फुरितानां विस्फूर्जितानां धूमोमो धूमप्रादुर्भावः । यदि वा धूसोद्दमो धूमकेतोरुदयः । यथा धूमकेतोरुदयॆन सर्वसस्थानां विनाशस्तथैवानेन वज्रानलस्येति भावः । मकरध्वजकुञ्जरस्य कंदर्पगजस्य मदागमो दर्पागमः कामोद्दीपकत्वात्तस्येति भावः | विरहातुराणां वियोगपीडितानां मरणमेवान्धतमसं निबिडं तमस्तस्य प्रवेशः । विरहिजनस्य प्राणापहारित्वात् । उत्कण्ठोत्कलिका जाता येषां त उत्कण्ठिताः । इतो जातार्थे । एतादृशाः कामिन एव हरिणाः कुरङ्गास्तेषाममोघः सफलः कालः श्यामवर्णः पाशवागुरा बन्धनरज्जुः | दिग्वारणानां दिग्ग- जानामभेद्यो भेत्तुमशक्यो लोहस्यायसोऽर्गलदण्डः परिघयष्टिः । तत्कराघातैर्दुर्भेद्यत्वात् । वाहानामश्वाना मच्छेद्य- इछेत्तु मशक्यो यो हिञ्जीरः पादपाशस्तस्य शृङ्खला । अध्वगानां पथिकानामनुन्मोच्यरत्यक्तुमशक्यो निगलबन्धो नि- गडबन्धः। विघ्नकारित्वात् । प्रोषितानां गतभर्तृकाणामलङ्घया लङ्घितुमशक्या कान्तारलेखा वनराजिः | जीवलोकस्य जीवाजीवाधारक्षेत्रस्य कालायसस्य लोहविशेषस्य पञ्जरं लोकप्रसिद्धं तेनोपरोधो गमन प्रतिबन्धः । जीवलोकमभितो
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५११
दिखावट