पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नित्रिंशशतसहस्रसंपातदुष्प्रेक्ष्योऽक्षिणी प्रतिघ्नन्निवाशुगमनविघ्न- रुद्ध इवान्धकारितमुखो कारी बभूव जलदकालः । तंत्र च प्रथममस्य चेतनहारिभिर्मूर्च्छावे गैरैन्धकारतामनीयन्त दश दिशः, ततो जलधरैः । अग्रतः समुत्तेन चेतसा काव्यगम्यत, पृष्ठतो हंसैः । पुरस्तात्परिम- लिनोऽस्य निःश्वासमैरुतः प्रावर्तन्त, पश्चात्कदम्ववाताः । पूर्वं तुलित नीलोत्पलवनकान्तिनयन- युगलमस्य सलिलं समुत्ससर्ज, चरममम्भोमुचां वृन्दम् । ॐदावापूर्यमाणमुद्वेगेनोत्कलिका- सहस्रपर्याकुलं मनोऽस्याभवत्, अवसाने स्रोतस्विनीनां पात्रम् | अपि च दुस्तरैर्नदीपूरैरेव सहावर्धन्त मन्मनोन्माथा: । वर्षाजलविलुलितैः कमलाकरैरेव सह मंमज्ज कादम्बरीसमा- गमप्रत्याशा | धौरारयास है: कन्दलैरेव सहाभिद्यत हृदयम् । अम्भोदवाताहतैर्धाराकदम्ब - कुडालैरेव सहाकम्पतोत्कण्टकिता तनुः । अनवरतजलपत नजैर्जरित पक्ष्मभिः शिलन्यैरेव सह ताम्रतामधत्त नयनयुगलम् | उत्कूल सलिलोत्सन्यमानमूलैः सरित्तटैरेव सहापतन्द्राणा: । कुर्वन्विरुद्ध इव शत्रुरिवान्धकारितं संजातान्धकारं मुखमाननं यस्य स तथा । निस्त्रिशानां खज्ञानां यच्छतसहस्रं लक्षं तस्य संपातः पतनं तद्वद्दुष्प्रेक्ष्यो दुःखेन प्रेक्षितुं शक्यः । अक्षिणी चक्षुषी प्रतिघ्नन्निव । प्रतिहन्तीति प्रति- नन् । शत्रन्तः । प्रतिघातं कुर्वन्निव | आशुगमनस्य शीघ्रग तेर्विघ्नकारी प्रतिबन्धजनको वर्षासमयो बभूवेत्य- न्वयस्तु प्रागेवोक्तः । तत्र च जलदकाले प्रथममादावस्य चन्द्रापीडस्य चेतोहारिभिश्चित्तग्राहिभिर्मूर्च्छावे गेम- हसंवेगैर्दश दिशो दश ककुभोऽन्धकारं तिमिरं तस्य भावस्तत्ता तामनीयन्त प्रापितवन्तः । दश दिशोऽन्ध- कारतां प्रापिता इत्यर्थः । ततस्तदनन्तरं जलधरै घैः । अतः प्रथमतः समुत्तेन सम्यगुत्पतितेन चेतसा हृदयेन क्वाप्यनिर्दिष्टस्थलेऽगम्यत गमनमकार्यत | पृष्ठतः पृष्ठभागे हंसैश्चकाङ्गैर्गतम् । पुरस्तात्पूर्वमस्य चन्द्रापीड परिमलिनः परिमलयुक्ता निःश्वासमरुतः प्राणवायवः प्रावर्तन्त | पश्चात्कदम्बवाताः प्रवर्तितवन्तः । पूर्व तुलिता सदृशीकृता नीलोत्पलानां नीलकमलानां वनं काननं तस्य कान्तिर्द्युतिर्येनैवंभूतं नयनयुगलं नेत्रयुग्ममस्य च न्द्रापीडस्य सलिलं जलं समुत्ससर्जोन्मुमोच । चरमं पश्चादम्भोमुचां मेधानां वृन्दं समूहम् | आदौ च प्रथमं चास्य चन्द्रापीडस्योद्वेगेनारत्यापूर्यमाणं श्रियमाणमुत्कलिका हल्लेखास्तासां सहस्रं तेन पर्याकुलं व्याप्तमेतादृशं मनश्चित्तमभवत् । अवसाने प्रान्ते । पश्चादित्यर्थः । स्रोतस्विनीनां नदीनां पात्रं तीरद्वयान्तरम् । 'पात्रं च भाजने योग्ये पात्रं तीरद्वयान्तरे' इति विश्वः । उद्वेगेनोद्वाहुलकेनापूर्यमाणम् | जलैरिति शेषः । 'उद्वेगः ऋमुकीफले । उद्वेगोऽप्युद्वाहुलकोद्वेजनोगमनेषु च ' इति विश्वः । उत्कलिका वीचयस्तासां सहस्रं तेन पर्या- फुलं चाभवत् । अपि चेति प्रकारान्तरे । दुःखेन तर्तु शक्यन्त इति दुस्तरास्तै रे ता दृशैर्न दी पूरै स्तटिनीलवैरेव सह मन्मथस्य कंदर्पस्योन्माथा उन्मथनान्यवर्धन्तैधिषन्त । वर्षाजलानि दृष्टिपानीयानि तैर्विडुलितै रितस्तता पर्यस्तैः कमलाकरैरेव पद्मसमूहैरेव सह कादम्बर्या गन्धर्वपुत्र्याः समागमो मेलापस्तस्य प्रत्याशा वाञ्छः ममज्जात्रुडत् । धारा वेगेन जलपातास्तासां रयो वेगस्तमसहन्त इति धारारयासहास्तैः कन्दलैरेव सह हृदयं चेतोऽभिद्यत भेदमापादितवान् । अम्भोदवातेन जलदवायुनाहतास्ताडिता ये धाराकदम्बा धारया ये विकसन्ति ते धाराकदम्बास्तेषां कुङ्मलैर्मुकुलैरेव सहोत्कण्टकिता सरोमान्चा तनुः शरीरमकम्पत कम्पयुक्ता वभूव । अनवरतं निरन्तरं यजलपतनमम्भोनिपतनं तेन जर्जरितं शिथिलीकृतं पक्ष्मोपरि- वर्ति रोम येषामेवंभूतैः शिलीन्यैर्भूमिस्फोटः सह नयनयुगलं नेत्रयुग्मं ताम्रतामीषद्रक्ततामधत्त वभार | । ।