सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । मङ्काच हृदयं देवीं कादम्बरीमारोपयामि, एवमुद्रटनीवी प्रन्थिदृढतरार्पितपाणिद्वयायास्त्रपा- निमीलितलोचने चुम्बन्नवश्चितात्मा चिराद्भवामि एवं सुरैरपि दुर्लभं तदधरामृतमा तृप्ते- निपीय सुजीवितमात्मानं करोमि, एवमतिकोमलतयान्तर्विलीय विशन्त्या ईवाङ्ग गाढालिङ्गन- सुखरसभरेण मकरध्वजानलदग्धशेषं निर्वापयामि शरीरम्, एवं परवत्यापि स्वेच्छाप्रवृत्तयेव निष्प्रयत्नयाप्य भियुजानयेवापसर्पन्त्यापि कृतात्मार्पणयेव संगोपितसवयाप्युपदर्शितभावयेव देव्या कादम्बर्या सह न किमपि सर्वजनसुलभमपि योगैकगम्यम्, स्पर्शविषयमपि हृदयग्राहि, मोहनमपि प्रसादनमिन्द्रियाणाम् उद्दीपनमपि मदनहुतभुजो 'निर्वृतिकरम् उपाहितसर्वा- झस्वेदमध्याह्लादकरम्, उपजनितविषमोच्छ्वासश्रममस्वेदमपि ससीत्कारपुलकजननम्, अनु- भूयमानमप्युत्पादितानुभूयमानस्पृहम् सहस्रवारानुभूतमप्यपुनरुक्तम्, अतिस्पष्टमप्येनिर्दे- श्यस्वरूपम्, अचिन्त्यमसमासङ्गमतुलस्पर्शमनुपमरसमनाख्येयप्रीतिकरं परमध्यानसहस्राधि- गतं निर्वाणमिवापरप्रकारं सुरताख्यं सुखान्तरमनुभूय निमेषमण्यकृतविरहस्तैया सह तेषु तेषु १ , १ १ ५१३ १ - evd अङ्काच्च हृदयं रतनान्तरं देवीं कादम्बरीमारोपयाभ्युपरि स्थापयामि । एवमिति । उद्भटा या नीव्युच्चयस्तस्या ग्रन्थिस्तस्यां दृढतरमतिनिबिडमर्पितं स्थापितं पाणिद्वयं करयुगलं यथा सा तथा तस्यास्त्रपया लजया निमीलिते मु द्विते लोचने नेत्रे चुम्बंश्चुम्बनं कुर्वन् । चिराहुकालम वञ्चितात्मा कृतार्थीकृतात्मा भवामि । एवमिति । तदन- न्तरं सुरैरपि देवैरपि दुर्लभं दुष्प्रापं तस्या अधरामृतं दन्तवस्त्रपीयूषमातृप्तेः पानेच्छानिवृत्तिपर्यन्तं निपीय पानं कृत्वा सुष्टु जीवितं प्राणितं यस्यैवंभूतमात्मानं करोमि सृजामि । एवमतिकोमलतया तिमृदुत यान्तर्मध्ये विलीय द्रवीभूयानं शरीरं विशन्त्येव प्रवेशं कुर्वन्त्येव गाढं निविडं यदालिङ्गनमुपगूहनं तस्य सुसं सौख्यं तस्य रसस्तस्य भर आधिक्यं तेन मकरध्वज एवानलो वह्नितेन दग्धशेषं प्रज्वलनादुर्वरितं शरीरं देहं निर्वापयामि शीतलीकरोमि । एवमिति पूर्वोक्तमिव परवत्यापि पराधीनयापि स्वेच्छाप्रवृत्तयेव यदृच्छासंचारिण्येव निष्प्रयत्नयापि कृतिरहितयाभियुञ्जानयेवाभिनोदयन्त्येवापसर्पन्त्याप्य पसरणं कुर्वन्त्यापि कृतो विहित आत्म- नोऽर्पणं ययैवंभूतयेव संगोपितानि गुप्तानि सर्वाङ्गानि ययैवंभूतग्राप्युत्प्राबल्येनोपदर्शितो भावोऽभिप्रायो ययै- वंभूतयेव देव्या कादम्वर्या सह तत्किमप्यनिर्वचनीयं सर्वजनानां समग्रनृणां सुलभमपि सुप्रापमपि योगेन चित्तैकाम्यलक्षणेनैकं केवलं गम्यं ज्ञेयम् । 'एके मुख्यान्यकेवलाः' इति कोशः । स्पर्शस्य विषयमपि हृदयग्राहि- स्तनान्तरग्रहणशीलम्, मोहनमपि वैचित्त्यजनकमपि प्रसादनं प्रसन्नकृ दिन्द्रियाणां करणानाम्, उद्दीपनमध्य- तिप्रकाशकमपि मदनहुतभुजः कामवहेर्निर्वृतिकरमुपशमकरम् उपाहितः स्थापितः सर्वाङ्गेषु स्वेदो घर्मजलं येनैवंभूतमप्याह्लादकरं प्रमोदजनकम्, उपजनित उत्पादितो विषमो दुःसह उच्छ्वासश्रमस्वेदो येन तत्तत्रो- च्छ्वास आहरः, श्रमः खेदः, स्वेदो घर्मजलम्, एतादृशमपि ससीत्कारं ससीत्कृतं यथा स्यात्तथा पुलकजननं रोमाञ्चोत्पादकम्, अनुभूयमानमपि साक्षात्क्रियमाणमप्युत्पादिता जनितानुभूयमानस्य साक्षात्क्रयमाणस्य स्पृहा वाञ्छा येन तत् । सहस्रवारमनेकवारमनुभूतमपि सेवितमप्यपुनरुक्तमनाम्रेडितम्, अतिस्पष्टमप्यतिप्रकटमप्य-