पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ५११ १ वहंश्च तस्मादेव वासरादारभ्यैवमचेतित एव परापत्य कृतापक्रान्तेस्त्रपया पृष्ठतोऽनुगम्य बला- द्दत्तकण्ठग्रहः क्व पैरं पलाय्यत इति वैशंपायनस्य वैलक्ष्यमपनयामि, एवं तत्समागमसुखम- नुभूय निष्कारणप्रसन्नामनघाम तर्कितोपनतमदचलोकनोपजातहर्षविशेषां पुरस्ताद्गमनसिद्धये पुनर्महाश्वेतां पश्यामि एवं महाश्वेताश्रमसमीपे पुनःस्थापिताशेषतुरग सैन्यस्तया सहैव हेमकूट गच्छामि, एवं तत्र मत्प्रत्यभिज्ञानसंभ्रमप्रधावितेनेतस्ततः कादम्बरीपरिजनेन प्रणम्यमानः प्र- विश्य मदागमननिवेदनोत्फुल्लनयनेन सखीजनेनापह्रियमाणपूर्णपात्राम् 'कासौ, केन कथितम्, कियद्दूरे वर्तते' इति तत्प्रनोन्मुखीम् तत्क्षणोत्पन्नया तापोपशान्त्या त्रपया च युगपदुरसि निहितं पद्मिनीपत्रमपनीयोत्तरीयांशुकाञ्चलं कुचावरणतामुपनयन्तीम् आभरणतां नीतीनि कॅमलिनीमृणालान्यपास्य भूषणेभ्योऽधिकां स्वशरीरशोभामेव सर्वाभरणस्थानेषु धारयन्तीम् तापोपशमार्पितहारमात्राभरणाम् अत्युल्बणहरिचन्दन चर्चान्त रितलावण्यशोभान्यङ्गानि कर तस्मादेवाप्तगमनोपलक्षितादेव वासराद्दिनादारभ्यारम्भं कृत्वैवैतान्यमे वक्ष्यमाणान्यन्यानि तदितराणि च चिन्तयन्विमर्शयन्नचेतिता अज्ञाताः क्षुत्क्षुधा, पिपासा तृद, आतपो धर्मः, श्रम आयासः, उज्जागरो जा गरः एतेषां व्यथा पीडा येनैवंभूतो दिवारात्रावहर्निशेवावहदगच्छदिति दूरेणान्वयः । एतानि कानीत्यपेक्षा- यामाह - अचेतित इति । अचेतित एवाज्ञात एव परापत्य गत्ला त्रपया लज्जया कृता विहितापक्रान्तिर- पक्रमणं येनैवंभूतस्य वैशम्पायनस्य पृष्ठतोऽनुगम्यानुगमनं कृत्वा वलाद्दत्तो विहितः कण्ठग्रहः कण्ठालिङ्गनं ये- नैवंभूतोऽहं परं केवलं क पलाग्यते कुत्र पलायनं क्रियत इति वैलक्ष्यं वैगुण्यमपनयामि दूरीकरोमि । एवं तस्य वैशम्पायनस्य समागमः संगमस्तस्मात्सुखं सौख्यमनुभूयाखाद्य निष्कारणमनिदानं प्रसन्नं विकसितं म- नश्चेतो यस्याः सा तामनवां निष्पापामतर्कितमविचारितमुपनतं प्राप्तं यन्मदवलोकनं मद्रीक्षणं तेनोपजात उ त्पन्नो हर्षविशेषोऽतिशायिप्रमोदो यस्याः सा तां पुरस्ताद यद्गमनं तस्य सिद्धये । निर्विघ्नगमनायेत्यर्थः । पुनः पूर्वविशेषयोरित्युक्तेः पूर्व प्रथमं महाश्वेतां पश्याम्यवलोकयामि । एवंप्रकारेण महाश्वेताया आश्रम- समीपे मुनिस्थानाभ्यर्णे पुनः स्थापितं न्यस्तमशेषं समग्रं तुरगसैन्यमश्वानीकं येनैवंभूतोऽहं तया महावे- तया सहैव सार्वमेव हेमकूटं हिमकूटाभिधानं नगं गच्छामि ब्रजामि । एवंप्रकारेण तत्र नगे सोऽयं चन्द्रा- पीड इति मम प्रत्यभिज्ञानं तस्माद्यः संभ्रम आदरः । 'संभ्रमस्वादरे भये' इति कोशः । तेन प्रभावितेनोचे- चलितेनेतस्ततः कादम्वर्याः परिजनेन परिच्छदेन प्रणम्यमानो नमस्क्रियमाणः प्रविश्य प्रवेशं कृत्वा । इतः कादम्बरी विशेषयन्नाह — मदेति । ममागमनं तस्य निवेदनं कथनं तेनोत्फुल्ले विकसिते नयने यस्यैवंभूतेन सखीजनेनालिसमुदायेनापहियमाणं गृह्यमाणं पूर्णपात्रं पूर्णानकं यस्याः सा ताम् । ‘उत्सवेषु सुहद्भिर्यद्वलादा- कृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत्' इति हैमः । क्कासौ चन्द्रापीड:, केन जनेनेदं चन्द्रापीडसमागमनं कथितम्, कियद्दूरे वर्तत इति यत्तस्य जनस्य प्रश्ना नियोजनानि तत्रोन्मुखीमूर्ध्वाननाम् ।