सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४९९ रुपमभिदधत्यार्ये महति मे चेतसः पीडा समुत्पन्ना । स्वयमारोपितेषु तरुपु यावदुत्पद्यते स्नेहः, किं पुनरङ्गसंभवेष्वपत्येषु । तदुत्सृज्यतामयममर्षवेगो वैशम्पायनस्योपरि । विरूपकं तु तेन न किंचिदण्याचरितम् | सर्वपरित्यागं कृत्वा स्थित इत्येतदपि कारणमविज्ञाय किमेवं दो- षपक्षे निक्षिपामः। कदाचिद्गुणी भवत्येवमयमविनयनिष्पन्नो दोष एव । आनीयतां तावदसौ । बुध्यामहे किमर्थमयमेवं विधस्तस्य वयसोऽनुचितोऽपि संवेग उत्पन्नः । ततो यथायुक्तं विधा- स्याम: ।' इत्युक्तवति तारापीडे पुनः शुकनासोऽभ्यधात्- 'अत्युदारतया वत्सलत्वाचैवमा- दिशति देवः । अन्ये॑दतः परं किमिवास्य विरूपकं भवेत् येँयुवराजमुत्सृज्य क्षणमप्यन्यत्रा- वस्थानमात्मेच्छया चेष्टितम् ।' इत्युक्तवति शुकनासे कशयेवान्तस्ताडितो दोपसंभावनयानया पितुरुद्वाष्पदृष्टिरुपविष्ट एवोपसृत्य चन्द्रापीडः शनैः शनैः शुकनासमवादीत् –'आर्य, यद्यपि निरुँक्तितो वेद्मि न मदीयेन दोषेण नागतो वैशम्पायन इति, तथापि तातेन संभावितमेव कस्य वापरस्य संभावना नोत्पन्ना | मिथ्यापि तत्तथा यथा गृहीतं लोकेन, विशेषतो गुरुणा । 1 १ 9 Gandian भिनिवेशादेवार्य परुषं कठिनमभिदधति कथयति सति मे मम चेतसो हृदयस्य महती गुर्वी पीडा समुत्पन्ना प्रा. दुर्भूता । तन्निदानमाविष्कुर्वन्नाह - स्वयमिति । स्वयमात्मना रोपितेपूत्तमेषु तरुषु वृक्षेषु यावत्स्नेह उत्पद्यते प्रादुर्भवति । अङ्गसंभवेषु शरीरसमुत्पन्नेष्वपत्येषु प्रजासु किं पुनर्भण्यते किं कथ्यते । तत्तस्माद्धेतोर्वैशम्पाय- नस्योपर्यंयं प्रत्यक्षोपलभ्यमानोऽमर्षवेगः क्रोधसंभव उत्सृज्यतां त्यज्यताम् । वैशम्पायनस्य निर्दोषतां प्रकट• यन्नाह - विरूपकमिति | तु पुनरर्थे । तेन वैशम्पायनेन न किंचिदपि विरूपकं विरुद्धमाचरितं सेवितम् । सर्वपरित्यागस्तु दूषणं न भवतीत्याशयेनाह – सर्वपरित्याग इति । सर्वपरित्यागं कृत्वा स्थित इत्येत- दपि कारणं निदानमविज्ञायाज्ञात्वा क्रिमेवमेव दोषपक्षे वैगुण्यकक्षायां वयं निक्षिपामो निक्षेपं कुर्मः | तस्या अपि गुणे निक्षेपमाशङ्कयन्नाह – कदाचिदिति । एवं तादृक्कारणमपेक्ष्यायम विनय निष्पन्नोऽप्रश्रयजनितो दोप एव कदाचिगुणीभवति । गुणः स्यादित्यर्थः । अथ कर्तव्यमाह - आनीयतामिति । तावदादावसौ वैशम्पायन आनीयतामानयनविषयीक्रियतामिति बुद्ध्यामहे जानीमहे । वयमिति शेषः । अयमेवंविध ईदृश- स्तस्य वैशम्पायनस्य वयसोऽवस्थाया अनुचितोऽययोग्योऽपि किमर्थं किंप्रयोजनाय संवेगः सर्वपरित्यागलक्षण उत्पन्नः प्रादुर्भूतः । ततस्तत्प्रयोजनं ज्ञात्वैव यथायुक्तं यथोचितं तद्विधास्यामः करिष्यामः । इति पूर्वप्रतिपादित प्रकारेण तारापीड उक्तवति सति पुनर्द्वितीयवारं शुकनासोऽभ्यधादब्रवीत् । किमभ्यधादित्याशयेनाह–अती- ति । अत्युदारस्य भावोऽत्युदारता तथातिस्फारतया वत्सललाच हितकारित्वाच देवस्तारापीड एवं पूर्वप्रतिपा- दितमादिशति कथयति । अनेन विरुद्धं न कृतमिति नृपोक्तं प्रतिक्षिपनाह - अतः परमिति । अतः परम न्यद्भवदपि किमिव विरूपकं विरुद्धं भवेत् । एतदेव विशदीकुर्वन्नाह - यदिति । यद्यस्माद्धेतोर्युवराजं --