४९८ कादम्बरी । रुपहन्ता । किं वा दृश्यतामसति बहुदर्शित्वे । बहुदर्शित्वं च तावतः कालस्यैवासंभवात्कृतो भवतु, प्रथमे वयसि येनान्वयव्यतिरेकाभ्यां निश्चित्य वर्जयति मलिनताम् । अपि च परि- णामेऽपि पुण्यवतां केषांचिदेव हि केशैः सह धवलिमानमापद्यन्ते चरितानि । तन्मोहेविष- यमहाहौ मदविकारगन्धमातङ्गे दुर्विलसितैकराज्ये रतिनिद्रावेश्मनि नवरागपल्लवोद्गमलीला- न्तविशेष दुश्चरित चक्रवर्तिनि तारुण्यावतारे सर्वस्यैव विषमतरविषयमार्गपतितस्य स्खलितमा- पतति । किमेवमार्येण लॉलनीयस्य पालनीयस्य शिशुजनस्योपर्यावेशो गरीयान्गृहीतः, यदनु- चितमपत्यस्नेहस्याक्रोशगर्भमेवमुक्तम् । स्वप्नायमानानामपि यद्गुरूणां मुखेभ्यो निष्कामति शु- भमशुभं वा शिशुषु तवश्यं फलति । गुरवो हि दैवतं बालानाम् | यथैवाशिषो गुरुजनवि- । तीर्णा वरतामापद्यन्ते, तत्रैवाक्रोशाः शापताम् । तद्वैशम्पायनमुद्दिश्य कोपावेशादेव सति प. - दोषाणां व्यसनादीनां रात्रेश्चाभिपङ्गः संबन्ध उत्सारितो दूरीकृतः । कीदृशो दोषाभिषङ्गः । तमोऽज्ञानं तमिस्रं 'च तयोरभिवृद्धिस्तस्य हेतुः कारणम् । पुनः कीदृक् । दृष्टेर्दशो ज्ञानस्य चोपहन्ता उपघातकः । असति बहुदर्शित्वे किं वा दृश्यतां किमवलोक्यताम् । तावतः कालस्यैवेयतः समयस्यैवासंभव द्वहुदर्शित्वम नेकपदार्थावलोकित्वम् । तच प्रथम आद्ये वयस्यवस्थायां कुतो भवतु कुतो जायताम् । येन सति सद्भावोऽन्वयः, असत्यसद्भावो व्यति- रेकः, ताभ्यां निश्चित्य निर्णयं कृत्वा मलिनतां वाच्यतां वर्जयति दूरीकरोति । अपि चेति । अपि च युक्त्य न्तरे । प्रदर्शने परिणामेऽपि वार्धकेऽपि । हीति निश्चये । पुण्यवतां सुकृतवतां केषांचिदेव, न तु सर्वेषाम्, केशैः कचैः सह चरितानि चरित्राणि धवलिमानं श्वेतिमानमापद्यन्ते प्राप्नुवन्ति । 'सुकृती पुण्यवान्धन्यः' इति हैमः । सर्वस्य स्खलितं स्यादिति प्रदर्शयन्नाह - तन्मोहेति । तदिति हेत्वर्थे । मोहो मूर्च्छा, विषया शब्दस्पर्शरूपरसगन्धाख्याः, त एव महाहयो महासर्पा यस्मिन् । मदो मुद् मोहसंभेदस्तस्य विकारा विकृतयस्त एव गन्धमातङ्गा गन्धेभा यस्मिन् । दुर्विलसितं दुश्चेष्टितं तदेवैकमद्वितीयं राज्यमाधिपत्यं यस्मिन् । रतिः कामाभिलाषः, निद्रा प्रमीला तयोर्वेश्मनि गृहे नवरागो नवीनानुरागः स एव पत्रवः किसलयं तस्योद्गमलीलान्ते पर्यवसाने येषामेताहशानि विशेषदुश्चरितानि विशेषदुश्चेष्टितानि तेषां चक्रवर्तिनि सार्वभौम एवंविधे तारुण्यस्य यौवनस्यावतारे प्रादुर्भावे विषमतरः कठिनतरो यो विषयमार्गः कामपन्था- स्तत्र पतितस्य त्रस्तस्य सर्वस्यैव समग्रस्येव, अर्थाजनस्य, स्खलितमापतति । स्खलना स्यादित्यर्थः । तथार्येण पूज्येन भवता शुकनासेन लालनीयस्य लालनां कर्तुं योग्यस्य पालनीयस्य रक्षां कर्तुं योग्यस्यैव विध शिशुजनस्य बालजनस्योपरि किमेवं किंनिमित्तं गरीयान्गरिष्ठ आवेशो गृहीत आत्तः, यद्यस्माद्धेतोरपयस्नेहस्य प्रसूतिप्रेम्णोऽनुचितमयोग्यमाक्रोशोऽभिषङ्गः स एव गर्ने मध्ये यस्यैतादृशमेवमुक्तं कथितम् । एतादृशं वाक्यं सर्वथा न वाक्यमित्याशयेनाह– स्वप्नायेति | स्वप्नायमानानामपि निद्रायमाणानामपि गुरूणां हिताहितप्रा- प्तिपरिहारोपदेष्टृणां मुखेभ्यो वदनेभ्यः शिशुषु वालेषु यच्छुभमशुभं वा निष्कामति निःसरति तदवश्यं नि- i faaz fair a ज 1 वीडि
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९५
दिखावट