पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मा प्रसिद्धिरत्रायश से यशसे वा दोषगुणाश्रया वाफलवती । परन्त्र फलदायी कुत्रोपयुज्यते परमार्थः । तदस्या दोषसंभावनाया: प्रायश्चित्तमार्यो दापयतु मे वैशम्पायनानयनाय गमनाभ्यनुज्ञां ता- तेन | नान्यथा मे दोषशुद्धिर्भवति । किं कारणम् । अनागते वैशम्पायने तातस्यानया सं- भावनया नापगन्तव्यम् । अपगते च मयि वैशम्पायनेनागन्तव्यम् । यद्यसावन्येनानेतुमेव पार्येत तदा तातस्याप्यनुल्लङ्घनीयवचनैरव निपतिसहस्रैरानीत एव स्यात् । तदार्य: कारयतु मे गमनानुज्ञया प्रसादम् । न च तुरंगमैर्गच्छतो मे दृष्टायां भूमौ स्वल्पोऽपि गमनपरिक्लेशः । वैशम्पायनमादायागत मेव मामवधारयत्वार्यः । अपि च वाह्यखेदादसह्योऽन्तः खेद एवैतद्वि- योगजन्मा | अनुपदमेव स्कन्धावारमादायागच्छतीत्यमुना हेतुना विना तेनागतोऽहम् । अ- न्यथा जन्मना प्रभृति कदा मया गतं स्थितं क्रीडितं हसितं पीतमशितं सुप्तं प्रबुद्धमुच्छ्रसितं वा विना वैशम्पायनेन । यच्च श्रुत्वा तस्मादेव प्रदेशान्न गतोऽस्मि, तन्मा तेनैव तुल्योऽभूव - । , गुरुणा पित्रादिना निर्णतेरर्वाक्तत्तथैव स्यात् । परमार्थतस्तदसत्यं जनप्रसिद्ध्या किं स्यादित्याशयेनाह~-प्रसि द्विरिति । दोषो वैगुण्यम्, गुणा औदार्यादयः, त एवाश्रय आधारो यस्या एवंविधा प्रसिद्धिः प्रवादोऽफलवती निःप्रयोजनात्रा स्मिल्लो केऽयश सेऽकीर्तये स्यात् । न तु दोषाश्रयप्रसिद्धेरयशोजनकत्वं प्रसिद्धं परं गुणाश्रय प्रसिद्धेः कथं तजनकत्वमिति चेन्न । अयं गुणवान्प्रसिद्धः, परमनेनेत्थं विहितम् तर्हि महान्पापिष्टः, इत्यायकीर्तिसद्भा- वात् । परत्र परलोके फलदायी फलप्रदः परमार्थस्तत्त्वं कुत्रोपयुज्यते कुत्रोपयोगी स्यात् । न कुत्रापीत्यर्थः । दोषसंभावनाया नैर्मल्योपायं प्रदर्शयन्नाह – तदस्या इति । तदिति तत्तस्माद्धेतोरस्याः पूर्वोक्ताया दोषसंभा- वनाया वैशम्पायनस्यानयनं तस्मै गमनं यानं तस्याभ्यनुज्ञाज्ञा तां प्रायश्चित्तं प्रायः पापं तस्य चित्तं विशोधनम् । ● प्रायः पापं विनिर्दिष्टं चित्तं तस्य विशोधनम्' इति कृष्णभट्टयां प्रक्रियाटीकायाम् । तातेनार्यो दापयतु । प्रे- रणे द्वे कर्तृकृता प्रसिद्धौ वेलदोषः । एतव्यतिरेकेण न शुद्धिरित्याशयेनाह -- नान्यथेति । मे मम दोषशुद्धि- र्न अन्यथा नान्यप्रकारेण भवति । तत्र किं निदानमित्याह -- किमिति । तत्र किं कारणं किं निमित्तम् । तदेव स्पष्टयन्नाह – अनागत इति । तु पुनस्र्थे । अनागतेऽनायाते वैशम्पायने तातस्य पितुरनया संभावनया नोपगन्तव्यं न दूरीभवितव्यम् । अपगते च याते च मयि सति वैशम्पायनेनागन्तव्यम् । आयातव्यमित्यर्थः । अन्यः कश्चित्तदानयनं करिष्यतीयारेकां दूरीकुर्वनाह - यदीति । यद्यसौ वैशम्पायनोऽन्येन मदितरेणानेतु- मेव पार्येत शक्येत, तदा तातस्यानि तारापी डम्याप्यनुल्लङ्घनीयमनाक्रमणीयं वचनं वचो यैरेवंभूतैरव निपतिस- हस्रैरानीत एव स्यात् । तत्तस्मादार्यो गमनस्यानुज्ञयाज्ञया प्रसादं प्रसन्नतां कारयतु । तातेनेनि शेषः । तव गच्छतो भूयान्क्लेशो भावीत्याशयेनाह- ह - न चेति । दृष्टायां निरीक्षितायां भूमौ तुरंगभैरवैर्गच्छतो व्रजतो मे मम स्वल्पोऽपि तुच्छोऽपि गमनपरिक्लेशः ग्रयाणखेदो न च स्यात् । आर्यो भवान्वैशम्पायनमा- दाय गृहीत्वागत मेवायातमेव मानवधारयत्वाकलयतु । वाह्यखेदापेक्षयाभ्यन्तरखेदाधिक्यं प्रदर्शयन्नाह -- अपि चेति । बाह्यखेदादेतद्वियोगजन्मा वैशम्पायन विरहोत्पन्नोऽन्तः खेद एवासह्योऽसहनीयः । तर्हि तं मुक्त्वा त्वमेकाकी कथमत्रागत इत्याशङ्कां निरस्य नाह - अनुपद मिति । अनुपदमनुचरणन्यासं स्कन्धा-