पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९५ । नापतितम् । पिण्डप्रदो वंशसंतानार्थमहमुत्पादितः पित्रां कथमननुज्ञातस्तन सर्वपरित्यागं करोमीत्येतदपि यथाजातस्य न बुद्धौ संजातम् । तदेवमसत्पथप्रवृत्तेन नष्टात्मना सुदूरभु द्धान्तेन दुर्दर्शमदृष्टं तावन्न नाम कुदृष्टिना दृष्टम् । दृष्टमपि येन न दृष्टुं तस्याज्ञानतिमिरान्धस्य किं क्रियताम् | अपरमसौ तिर्यमहता यत्लेन शुक इव पाठितः पुष्टश्च देवेन । अथवा विनोददा- नात्तिरश्चामपि सफल एव शिक्षणायासो भवति । तेऽपि पोषिता: पोषितरि स्नेहमाबघ्नन्ति | तेऽपि कृतं जानन्ति । तेऽपि परिचय मनुवर्तन्ते । तेषामपि सहजस्नेहो मातापित्रोरुपरि दृश्यत एव । न पुनरस्य नष्ट्रोभयलोकस्य पापकारिणो दुर्जातस्य यस्य सर्वमेवाधस्ताद्गतम् | अपि चेह- शाचरितेन तेनाप्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यं येन तावद्दुरात्मना जातेन केवलं सुखं न स्थापिताः सर्व एव वयम् | अपरमेवं दुःखार्णवे निपातिताः । सर्व एव ह्यानक्षिप्तचेताः प्रवर्तते स्वहिताय परहिताय च | तस्य तु पुनरस्मानेवं दुःखं स्थापयतो न स्वहितं नाँपि च पर- हितम् । किमनेनैवमात्मद्रुहाकृतमिति मतिरेतावन्न बोधपदवीमवतरति । सर्वथा दु:खायै वास्माकं उत्तरभागः । । करिष्यति विधास्यतीत्येवमपि मनसा हृदयेन नाशङ्कितं नारेकितम् । मातुर्मनोरमाया जीवितनिवन्धनं प्राणि- तदानमहमेक एव । कथं तर्हि मया विना मध्यतिरेकेण वर्तिप्यते वर्तनं करिष्यतीत्येतस्य वैशंपायनस्य नृशंसस्य निर्दयस्य हृदये चेतसि नापतितं नागतम् । वंशसंतानार्थमन्वयपरम्परायै अहं वैशम्पायनः पिण्ड- प्रदः पित्रा जनकेनोत्पादितो निष्पादितस्तेन पित्राननुज्ञातोऽदत्ताज्ञः सर्वपरित्यागं करोमि प्रणयामीत्येतदपि यथाजातस्य मूर्खस्य बुद्धौ ज्ञप्तो न संजातं नोत्पन्नम् । 'अज्ञे मूढयथाजातमूर्खवैधेयवालिशाः' इत्यमरः । तत्त स्माद्धेतोरेबममुना प्रकारेणासत्पथः कुमार्गस्तत्र प्रवृत्तेन नष्ट आत्मा यस्यैवंभूतेन सुदूरमतिदूरमुद्रान्तेन प्राप्तभ्र- मेण दुर्दैवं तावदादौ । नामेति कोमलामन्त्रणे | कुदृष्टिना कुत्सितज्ञानेन दुर्दुष्टा दशावस्था यस्मिन्नेतादृशमदृष्टं न दृष्टं नावलोकितम् । येन दृष्टमप्यवलोकितमपि न दृष्टं न निरीक्षितम् । 'दशावर्ताववस्थायां वस्त्रान्ते स्युर्दशा अपि' इति विश्वः । यदिवा 'अदृष्टं वहितोयादि दृष्टं स्वपरचक्रजम्' इत्यभिधानात्तदुभयमपि भयं न दृष्टमित्य- र्थः । अथवादृष्टं तु न दृश्यत एव । तदपि विपश्चिद्भयते । अयं तु सुतरां मूर्खो येन तपस्विन्यगम्या भवतीति दृष्टमपि न दृष्टमित्यर्थः । तस्य वैशम्पायनस्याज्ञानमेव तिमिरं तमिस्रं तेनान्धस्य गताक्षस्य किं क्रियतां किं विधी- यताम् । अपरमन्यदसौ तिर्यग्विवेकविकलत्वात्पशुरूपो महता यत्नेन महोद्यमेन शुक इव कीर इव पाठितोऽव्या- पितो देवन तारापीडेन पुष्टश्च पुष्टीकृतश्च । अथवेति पक्षान्तरे | विनोददानात्क्रीडावितरणात्तिरश्चामपि सफल एव सार्थक एवं शिक्षणायासः शिक्षाप्रयासो भवति । तेऽपि तिर्यञ्चोऽपि पोषिताः सन्तः पोषितरि पोषके हं प्रीतिमावघ्नन्ति । कुर्वन्तीत्यर्थः । तेऽपि तिर्यच्चोऽपि कृतं जानन्ति । कृतज्ञा भवन्तीत्यर्थः । तेऽपि तिर्यञ्चो- ऽपि परिचयं संस्तवमनुवर्तन्तेऽनुगच्छन्ति । तेषामपि तिरश्चामपि मातापित्रोरुपरि सहज स्नेहः स्वाभाविकप्रेमा दृश्यत एव ईक्ष्यत एव । नष्टो गत उभयलोक इहलोकपरलोको यस्यैवंभूतस्य पापकारिणोऽपकर्तुजतस्य दुष्टो- क पा