पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ कादम्बरी । कछवृत्तयः सलिलाशया इव गाढावगाहनेनैव कालुप्यमुपयान्ति । ये च स्त्रिग्वेष्वपि रुक्षाः, ऋ जुष्वपि वकाः, साधुष्वप्यसाधवः, गुणवत्स्वपि दुष्टप्रकृतयः, भर्तर्यव्यभृत्यात्मानः, रागिष्वपि क्रुद्धाः, निरीहादप्यादित्सवः, मिवेष्वपि द्रोहिणः, विश्वस्तानामपि घातकाः, भीतेष्वपि प्रहा- 'रिणः, श्रीतिपरेष्वपि द्वेषिणः, विनीते वयुद्धताः, दयापरेष्वपि निर्दयाः, स्त्रीष्वपि शूराः, भृत्ये - स्वपि क्रूराः, दीनेष्वपि दारुणाः । येषां च विपरीतानां गुरव एव लघवः, नीचा एवोचैः, अगम्या एव गम्याः, कुदृष्टिरेव सदर्शनम्, अकार्यमेव कार्यम्, अन्याय एव न्याय:, अस्थितिरेव स्थिति:, अनाचार एवाचारः, अयुक्तमेव युक्तम्, अविद्यैव विद्या, अविनय एव विनयः, दौ:- शील्यमेव सुशीलता, अधर्म एव धर्मः, अनृतमेव सत्यम् । येषीं च क्षुद्राणां प्रैज्ञा पराभिसं- धानाय न ज्ञानाय श्रुतमूँ, पराक्रम: प्राणिनामुपघाताय नोपकाराय, उत्साहो धनार्जनाय न यशसे, स्थैर्य व्यसनासङ्गाय न चिरसंगताय, धनपरित्यागः कामाय न धर्माय । किंबहुना सर्वमेव येषां दोषाय न गुणाय | तदसावपीदृश एव कोऽयैपुण्यवानुत्पन्नो यस्यैवं कुर्वतो मित्रमहं चन्द्रापीडस्य कथं तस्य द्रोहमाचरामीति नोत्पन्नं चेतसि । एवं कृते चॅलितवृत्तानां शासितावश्यं तारापीडो देवः पीडितान्तरात्मा मयि कोपं करिष्यतीत्येवमपि नाशङ्कितं म- नसा । मातुरहमेवैको जीवित निवन्धनम् कथं मया विना वर्तिप्यत इत्येतस्य नृशंसस्य हृदये 9 तङ्गशृङ्गारे जातौ भस्मनि संपदि' इति विश्वः । ‘वामं प्रसव्यं प्रतीपं प्रतिलोममपष्टु च' इति हैमः | अन्तरे विचाले स्वच्छा निर्मला वृत्तिर्येषामेवंविधा सलिलाशया इव पानीयाश्रया इव गाढमत्यर्थमवगाहनेनैवावलो- डनेनैवातिपरिचयेनैव च कालुष्यं कलुषतामुपयान्ति गच्छन्ति । ये च स्निग्धेष्वपि स्नेहलेष्वपि रुक्षा अस्निग्धाः, ऋजुष्वपि सरलेष्वपि वका वामाः, साधुष्वपि सजनेष्वप्यसाववो दुष्टाः, गुणवत्स्वपि गुणोपयुक्तेष्वपि दुष्ट- प्रकृतयोऽशुभस्वभावाः, भर्तर्यपि स्वामिन्यप्यग्रत्यात्मानोऽसेवकाः रागिष्वपि रक्तेष्वपि क्रुद्धाः कोपवन्तः, निरीहादपि निःस्पृहादप्यादित्सवो ग्रहणेच्छवः, मित्रेष्वपि सुहृत्स्वपि द्रोहिणो द्रोहकर्तारः, विश्वस्तानामपि विश्वास प्रतिपन्नानामपि घातका हिंसकाः, भीतेष्वपि त्रस्तेष्वपि प्रहारिणः प्रहारकारिणः, प्रीतिपरेष्वपि स्नेहप रेष्वपि द्वेषिणो द्वेषवन्तः, विनीतेष्वपि विनयवत्स्वप्युद्धता दुर्विनीताः, दयाप रेष्वपि कृपातत्परेष्वपि निर्दया निःकृपाः स्त्रीष्वपि प्रमदास्वपि शूराः, सुभटाः, भृत्येष्वपि सेवकेष्वपि क्रूरावण्डाः, दीनेष्वपि दुःखितेष्वपि दारुणा भीपणाः । येषां चेति । येषां विपरीतानां वासवृत्तीनां गुरव एव शास्तार एव लघवो लघिष्ठाः, नीचा एवाधोवर्तिन एवोच्चैरुच्चाः, अगम्या एवासेव्या एव गम्याः सेव्याः, कुदृष्टिरेव कुदर्शनमेव सद्दर्शनं शोभनतमम्, अकार्यमेवाकृ- व्यमेव कार्य कृत्यम्, अन्याय एवानीतिरेव न्यायो नीतिः, अस्थितिरेवामर्यादैव स्थितिर्मर्यादा, अनाचार ए- वानाचरणमेवाचार आचरणम्, अयुक्तमेवान्याय्य मेव युक्तं न्याग्यम्, अविद्यैवाज्ञानमेव विद्या ज्ञानम्, अविनय एवाप्रश्रय एव विनयः, दौः शील्यमेव दुःस्वभाव एव सुशीलता सुखभावता, अधर्म एवापुण्यमेव धर्मो वृषः, अनृत- वयं स येषां च द्राणां तच्छबद्ध न श्रुतं ज्ञ नं प्रज्ञा तिभा स्यां पर उ कृष्ट इत्यभिसंधा-