पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः | ४९३ लालनया यो न गृहीतस्तस्य मरुत इव दुर्ग्रहप्रकृतेश्चन्द्रापीडोऽपि किं करोतु । स्वयमेवो- त्पद्यन्त एवंविधा: शैरीरसंभवा महाकृमयः सर्वदोषाश्रया महाव्याधयः, अन्तर्विषा महा- व्याला:, विनाशहेत्तवो महोत्पाता:, भुजङ्गवृत्तयो महावातिकाः, वऋचारिणो महाग्रहाः, त- मोमया: प्रदोषाः, मलिनात्मका: कुलपांसवः, निःस्नेहा: खला:, निर्लज्जः कृपणकाः, नि:- संज्ञाः पशवोऽपि च, अकाष्ठा दहनाः, निर्गुणा जालिन:, अतीर्था जलाशयाः, निगौरवाः स्व- रप्रकृतयः, अशिवमूर्तयो महाविनायकाधिष्ठिताः, ये सकलङ्काः कृपाणा इव स्नेहेनैव पारुष्यं ये लभन्ते । मलिनस्वभावाः करिकपोला इव दानेनैव मलिनतरतामापद्यन्ते । निर्वर्तयो मणि- प्रदीपा इव प्रसादेनैव ज्वलन्ति । अङ्गलन्ना भुजङ्गा इव दाक्षिण्यपरिग्रहेणैवेत्तरे वामाः संजा- यन्ते । गुणमुक्ताः सायका इव सपक्षाश्रयेण फलेनैव दूरं विक्षिप्यन्ते । सारगाः पलवा इव दि - वसारूढ्यैवापरज्यन्ते । भूतिपरामृष्टा दर्पणा इवाभिमुख्येन सर्वं प्रतीपं गृह्णन्ति । अन्तरस्व- नया क्रोडपरिपालनया यो न गृहीतो न स्वायत्तीकृतस्तस्य वैशम्पायनस्य मरुत इव वायोरिव दुर्भहा प्रकृतिः स्वरूपं यस्यैवंभूतस्य चन्द्रापीडोऽपि किं करोतु । किं कुर्यादित्यर्थः । अथ वैशम्पायनोत्पत्तिवैगुण्य माविष्कुर्व- नाह- स्वयमेवेति । एवंविधा एतादृशाः शरीरसंभवा देहोत्पन्ना महाकृमयः क्षुद्रजन्तवः, सर्वदोपाणा- माधारभूता महाव्याघयो महारोगाः, अन्तर्मध्ये विपं येषामेवंविधा व्यालाः सर्पाः, विनाशस्य विध्वंसस्य हेतवः कारणानि महोत्पाताः क्षितिकम्पनादिरूपाः, भुजङ्गवत्स र्पवद्वृत्तिर्वर्तनं येपामेवंविधा महाबाता एव महावातिकाः स्वार्थे कः । वक्रगामित्वेन भुजङ्गसादृश्यम् | वक्रचारिणः कुटिलगामिनो महाग्रहा राहुप्रभृतयः, तमोमया अ न्धकारप्रचुराः प्रदोषा यामिनीमुखानि, मलिना कश्मला आत्मानो येषां ते कुलस्यान्वयस्य पांसवो रेणवो दोषजनकाः, निःस्नेहाः प्रीतिवर्जिताः खलाः निर्लज्जा नित्रपाः कृपणका निःकृपाः निःसंज्ञा हेयोपादेयादि- ज्ञानविकलाः पशवोऽपि च तिर्यश्चोऽपि च अकाष्टा दहना वह्नयः, निर्गुणा औदार्यादिगुणरहिता जालिनो चागु- रिकाः, अतीर्था उत्तरणमार्गविकला जलाशयाः पानीयस्थानानि, निगरवा महत्त्ववर्जिताः स्वरप्रकृतयः कठि- नस्वभावाः, अशिवमूर्तयोऽकल्याणमूर्तयो महाविनाय कैर्महा विघ्नैरधिष्ठिताः । इयं विरोधोक्तिः । येऽशिवमूर्तयो अवन्ति ते महाविनायकाधिष्टिता न भवन्तीति महाविरोधः । एते सर्वेऽपि स्वयमेवात्मनैवोत्पद्यन्ते जायन्ते । तथा वैशम्पायनोऽपि नतु मददृष्टय कारणतेत्यर्थः । ये जनाः कृपाणा इव खनाइव सकलङ्काः । जनपक्षे जनाप- वादाश्रयाः खजपक्षे सचिह्नाः । स्नेहेनैव प्रेम्णा तैलादिना च पारुण्यं कठिनतां भजन्त आश्रयन्ति । 'स्नेह- स्तैलादिकरसद्रव्ये स्यात्सौहृदेऽपि च इति विश्वः । करिकपोला इव हस्तिगात्परप्रदेशा इव मलिनस्वभावाः कश्मलप्रकृतयः । दानेनैव मदेव | पक्षे वितरणेनैव | मलिनतरतामतिकृष्णतामापद्यन्ते प्राप्नुवन्ति । 'दानं गजमदे त्यागे' इति विश्वः । निर्वर्तयो वर्तिरहिता मणिप्रदीपा इव रत्नसदृशेन्धना इव प्रसादेनैव प्रसन्नतथैव ज्वलन्ति दीप्यन्ते । ‘प्रसादोऽनुग्रहे काव्यप्राणस्वास्थ्य प्रसत्तिषु' इति विश्वः | अङ्गलमाः शरीरसंसृष्टा भुजङ्गा इव सर्पा व । इतरे पामरजना वामाः प्रतिकूला: संजायन्ते । केन । दाक्षिण्यं लज्जा तेन परिग्रहः स्वीका-