४९२ कादम्बरी । यासमुत्पद्यते । तथैव हि न किंचिन्न क्रियते | तज्जन्मनः स्नेहस्य वयसः शीलस्य श्रुतस्य गु- रुजनानुशासनस्य विनयाधानस्य च सर्वस्यैवानुचितमिमं भ्रातुः सुहृदश्च ते वृत्तान्तमाकर्ण्य त्वद्दोषमाशङ्कते मे हृदयम् ।' इत्येवंवादिनो नरपतेर्वचनमाक्षिप्य युगपच्छोकामर्पाभ्यामन्ध- कारिताननः प्रावृडारम्भ व तडिल्लतादुष्प्रेक्ष्यो बिस्फूर्जितेनैव स्फुरिताधरेण शुकनासोऽब्रवी- त्— 'देव, यदि चन्द्र मस्यूष्मा, दहने चातिशीतलत्वम्, अंशुमालिनि वा तमः, तमस्विन्यां वा दिवसः, महोदधौ वा शोषः, क्षितेरधारणं वा शेषे, परार्थानुद्यमो वा साधोः, अप्रियवचननि- र्गमो वा वजनमुखात्संभाव्यते, ततो युवराजेऽपि दोषः । तत्किमेवमेवानिरूप्य तस्यानात्म- जस्य मूढप्रकृते र्दुर्जातस्य गंजापथ्यकारिणो मातृपितृघातिनो मित्रद्रुहः कृतघ्नस्य कर्मचैण्डा • लस्य महापातकिनः कृते कृतयुगावतारयोग्यमात्मनोऽपि गुणवन्तमत्युदारचरितं चन्द्रापीड- मेवं संभावयति देवः। न ह्यतः परमपरं कैटतमं किंचिदपि पीडाकारणम्, यद्गुणेषु वर्तमानो दोषेषु संभाव्यत इतरजनेनापि । किं पुनर्गुरुजनेन । यो गुणी गुणैरवाराधनीयः | कस्यापर- स्यात्मा गुणवाननेन ज्ञापनीयः | अपि च जन्मनः प्रभृति देवस्य देव्या विलासवत्याश्चाङ्क- । तप्रयासं यथा स्यात्तथोत्पद्यते संजायते । तथैव तेन प्रकारेणैव । हीति निश्चितम् । किंचिन्न क्रियते । अपि तु सर्वं क्रियत एव । यथैव प्रीतिस्तथैव दुःखमपि वल्लभजनादेवातर्कितं जायत इति भावः । तत्तस्माद्धेतोस्ते तव भ्रातुर्बान्धवस्य सुहृदो मित्रस्य च वृत्तान्तमुदन्तमाकर्ण्य श्रुत्वा लद्दोषं त्वद्वैगुण्यं मे मम हृदयं चेत आशङ्कत आरेकते । कीदृशं त्वद्दोषम् | जन्मन उत्पत्तेः स्नेहस्य प्रेम्णः वयसोऽवस्थायाः, शीलस्य स्वभावस्य, श्रुतस्य ज्ञानस्य, गुरुजनानुशासनस्य गुरुशिक्षायाः, विनयाधानस्य प्रश्रयस्थापनस्य सर्वस्यैव समग्रस्यैवेममनुचितमयो. ग्यम् । इत्येवंवादिनो ब्रुवतो नरपते राज्ञो वचनं वाक्यमाक्षिप्य निराकृल युगपत्समकालं शोकः शुक्, अमर्ष ईर्ष्या, ताभ्यामन्धकारितमन्धकारवदाचरितमाननं मुखं यस्यैवंभूतो विस्फूर्जितेन दीप्तिमता स्फुरितः कम्पितो योऽधर ओष्ठस्तेन शुकनासोऽब्रवीदवोचत् । स्फुरित साधर्म्यादाह -- तडिल्लता विद्युता तया दुष्प्रेक्ष्यो दुरालो - कनीयः प्रावृडारम्भ इव वर्षाप्रारम्भ इव | किमुवाचेत्याह- देवेति । हे देव, यदि चन्द्रमसि चन्द्र ऊष्मा तापः, दहनेऽनावतिशीतलत्वमतिशिशिरत्वम्, अंशुमालिनि सूर्ये वा तमोऽन्धकारम्, तमस्विन्यां त्रियामायां वा दिवसः, महोदधौ समुद्रे वा शोपो जलनाशः, शेषेऽनन्ते क्षितेः पृथिव्या अधारणमवहनम्, साधोः सज्जा- नाद्वा परस्यान्यस्यार्थः कृत्यं तत्रानुद्यमोऽनुद्योगः, स्वजनमुखादात्मीयलोकवदनादप्रियवचनस्यानिष्टवाक्यस्य नि. र्गमो निःसरणम् । एतेभ्यो यद्येतानि संभाव्यन्ते संभावनाविषयीक्रियन्ते, ततो युवराजेऽपि चन्द्रापीडेऽपि दोषः संभाव्यते । तत्किमेवमेवानिरूप्याज्ञात्वा नात्मानं जानातीत्यनात्मज्ञस्तस्य मूढा प्रकृतिः स्वभावो यस्य स तस्य दुर्जातस्य दुर्भवस्य राज्ञो नृपस्यापथ्यकारिणो हितविघातिनो मातृपितृघातिनो जननीजनक विध्वंसिनो मित्र- द्रुहः सुहृद्धातिनः कृतं हन्तीति कृतघ्नस्तस्य कर्मणैव चण्डालः श्वपचस्तस्य महापातकिनो महापापकारिण एवंभूतस्य वैशम्पायनस्य कृते कृतयुगे योऽवतारोऽवतरणं तस्य योग्यमुचितमात्मनोऽपि भवन्तोऽपि गुण-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८९
दिखावट