तस्य पापकर्मणो ग्रहोपसृष्टस्य जन्म ।' इत्युक्त्वा हेमन्तकालोत्पलिनीमिवो पां दृष्टिमुद्वहन, उद्वेषिताधरश्च वहिरलब्धनिर्गमेण स्फुटन्निवान्तर्मन्युपूरेण निःश्वसन्चेबावतस्थौ | तदवस्थं च तं तारापीड : प्रत्युवाच – 'एतत्खलु प्रदीपेनानेः प्रकाशनम्, वासरालोकेन भास्वतः समुद्भा- सनम्, अवश्यायलेशैराह्लादनममृतांशोः, मेघाम्बुविन्दुभिरापूरणं पयोधेः, व्यजना निलैरैति- वर्धनं प्रभञ्जनस्य, यदस्मद्विधैः परिबोधनमार्यस्य । तथापि प्राज्ञस्यापि वहुश्रुतस्यापि विवेक- नोऽपि धीरस्यापि सत्त्ववतोऽप्यवश्यं दुःखातिपातेन विशुद्धमपि वर्पसलिलेन सर इव मानसं कलुषीक्रियते सर्वस्य । कलुपीकृते च मानसे किमिद मिति सर्वमेव दर्शनं नश्यति । न चित्तमा - लोचयति । न बुद्धिर्बुध्यते । न विवेकोऽपि विविनक्ति । येन वीत्यदः | मैत्तो लोकवृत्तमार्य एव सुतरां वेत्ति | किमस्ति कश्चिदसावियति लोके, यस्य निर्विकारं यौवनमतिक्रान्तम् । यौवना- वतारे हि शैशवेनैव सह गलति गुरुजनस्नेहः । वयसैव सहारोह त्यभिनवा प्रीतिः । वक्षसैव सह विस्तीर्यते वाञ्छा । बलेनैव सहोपचीयते मदः । दोर्द्वयेनैव सह स्थूलतामापद्यते धीः । मध्येनैव सह कार्यमुपयाति श्रुतम् । ऊरुयुगलेनैव सहोपचीयतेऽविनयः । श्मश्रुभिरेव सहोज्जृम्भते मलिनताहेतुर्मोहः | आकारेणैव सहाविर्भवन्ति हृदयाद्विकाराः । तद्यथा धवल- । । 4 चैव दुःखहेतोरेव तस्य पापकर्मणो दुष्कृतकारिणो ग्रहोपसृष्टस्य ग्रह महिलस्य जन्मोत्पत्तिः । इत्युक्त्वा हेमन्त कालस्य प्रसूनसमयस्योत्पलिनी कमलिनीमिवोद्वाप्पां दृष्टिं दृशमुद्वहन् । हेमन्तक मलिन्य्प्युद्वाप्पा स्यादतो छ- क्साम्यम् । उद्वेषित उत्कम्पितोऽवर ओष्टो यस्यैवंभूतश्च वहिरलव्धो निर्गमो निर्गमनं यस्यैवंभूतेनान्तर्मध्यव र्तिमन्युपूरेण क्रोधसमूहेन स्फुटन्निव द्वैधीभवन्निव निःश्रसन्नेव निःश्रासं मुञ्चन्नेवावतस्थौ स्थितवान् | सैवावस्थ दशा यस्यैतादृशं च तं शुकनासं तारापीड: प्रत्युवाच प्रत्यब्रवीत् | खल्विति निश्चयेन । एतत्प्रदीपेन गृहमणि- नाग्नेर्वहेः प्रकाशनं प्रज्वालनम्, वासरालोकेन दिवसप्रकाशेन भास्वतः सूर्यस्य समुद्भासनमुत्तेजनम्, अमृतां- शोश्चन्द्रस्यावश्यायलेशैस्तुहिनकणैराह्लादनं प्रमोदोत्पादनम्, पयोधेः समुद्रस्य मेघाम्वु जीमूतजलं तस्य बि- न्दुभिः पृषद्भिरापूरणं भरणम्, प्रभञ्जनस्य वायोर्व्यजनानिलैस्तालवृन्तपवनैरतिवर्धन म तिवृद्धिप्रापणम्, यास्माद्धे- तोरस्मद्विधरस्मत्सदृशै रार्य॑स्य भवतः शुकनासस्य परिबोधनं प्रतिबोधदानम् । तथापीति । एवं सत्यपि प्राज्ञस्या- पि बहुश्रुतस्याप्यनेकशास्त्रज्ञस्यापि विवेकिनोऽपि पृथगात्मवतोऽपि धीरस्यापि स्थिरप्रकृतेरपि सत्त्ववतोऽपि साह- सवतोऽयवश्यं निश्चितं दुःखातिपातेन कृच्छ्रातिपातेन विशुद्धमपि निर्मलमपि सर्वस्य मानसं वर्षसलिलेन दृष्टि- पानीथेन सर इव तटाक इव कलुषीक्रियते मलिनीक्रियते । कलुषीकृते च मानसे चित्तं किमिदमिति सर्वमेव स- मग्रमेव दर्शनं सामान्यज्ञानं नश्यति । न चित्तं मन आलोचयति विचारयति । न वुद्धिर्धिपणा बुध्यते । वोधं प्रयातीत्यर्थंः । न विवेकोऽपि पृथगात्मभावोऽपि विविनक्ति पृथक्करोति । येन कारणेन । अदोऽव्यक्ते नपुंस- कम् । ब्रवीति वक्ति । मत्तस्तारापीडाल्लोक वृत्तं जनचरितमार्थ एव पूज्य एव भवान्सुतरामतिशयेन वेत्ति जा नाति । किमिति प्रश्ने । कश्चित्कोपीयति लोक एतावति भुवनेऽस्ति विद्यते, यस्य निर्विकारं विकृतिरहितं यौवनं तारुण्यमतिक्रान्तं व्यतीतम् | यौवनावतारे हि तारुण्यप्रादुर्भावे हि शैशवेन वाल्येन सह गुरुजनेषु मा-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९३
दिखावट