उत्तरभागः । ऽवतरत्येव तृतीयें यामे तुरगकरिणीप्रायवाहनेनानतिबहुना राजलोकेन सह विरलकटकसं- मदन वर्मनावद्दत् । अथाध्वनैव सह क्षीणायां यामवयां रसातलादिवोन्मजत्सु सर्वभावेपु उन्मीलन्तीविव दृष्टिषु, पुनरिवान्यथा सृज्यमाने जीवलोके विभज्यमानेषु निम्नोन्नतेपु, विरलायमानेष्विव वनगहनेषु, संकुचत्स्खिव तरुलतागुल्मेषु गगनतलमारोहन्त्याः पढ़े इव बेहुललाक्षारसालोहिते दिवसश्रियः, अवश्यायसेकान्नवपल्लव इवोद्भिद्यमाने पूर्वाशालतायाः, केमलिनी रागदायिनि दिवसकरबिम्बे विस्पष्टे, प्रभातसमये कटकलोकेनैव सह परापतितवा- नुज्जयिनीम् । १ ४८९ अथ दूरत एव मैसृतिद्वन्द्वसंस्थितैश्च पुज्यमानैश्च पुञ्जितैश्चाबद्धमण्डलैश्वोपविष्टैः बैंलि- तैश्च दत्तकतिपयशून्यपदैश्च निर्वर्यमानैश्चागच्छद्भिश्योन्मुखैश्चाधोमुखैश्चोद्वाप्पदृष्टिभिश्च विव र्णदीनवदनैश्च महाकष्टशब्दमुखरैश्च दुःखाधिक्याहित मौनैश्च मुनिभिरपि मुमुक्षुभिरपि वीत- रागैरपि नि:स्पृहैरप्युदासीनैरपि दुर्जनैरपि स्नेहपरवशैः पितृभिरिव सुद्भिरिव स्निग्धवन्धु - भिरिव च नगरी निर्गतैरायपृच्छयमानं कथ्यमानं च विचार्यमाणं चानुभाव्यमानं ये वैश- ५ त तृतीये तातयीके यामे प्रहरेऽवतरत्येवावतारं प्राप्नुवत्येव, तुरगा अश्वाः, करिण्यो हस्तिन्यः, ता एव प्रायो चाहुल्येन वाहनं युग्यं यस्यैवंभूतेनान तिबहुना स्वल्पेन राजलोकेनोपजनेन सह विरलस्तुच्छः कटकस्य सैन्यस्य संमर्दः संबाधो यस्मिन्नेतादृशेन वर्मना मार्गेणावहदगमत् । अथेति प्रकारान्तरे । अध्वनैव मार्गेणैव सह यामवयां त्रियामायां क्षीणायां सत्यां सर्वभावेषु समग्रपदार्थेषु रसातलादिव पातालादिवोन्मज्जत्सूपर्यागच्छत्सु, दृष्टिषु दृक्षून्मीलन्तीविव, विकसन्तीष्विव पुनरिव द्वितीयवारमिव जीवलोकेऽन्यथान्येन प्रकारेण सृज्यमाने निष्पाद्यमाने निम्नानि चोन्नतानि च निम्नोन्नतानि तेषु भावेषु विभज्यमानेषु पृथक्रियमाणेषु सत्सु, वनगहने- ध्वरण्यगह्वरेषु विरलायमानेष्विवानिविडायमानेण्विव सत्सु, तरवो वृक्षाः, लता वल्लयः, गुल्मा गुच्छाः, तेषु संकुचत्विव संकोचं प्रामुवत्स्विव, दिवसथियो वासरलक्ष्म्या गगनतलं व्योमतलमारोहन्त्या आरोहणं कुर्वन्या बहुलो निविडो यो लाक्षारसो जतुद्रवस्तेनालोहित ईषद्रक्त पदे इव चरणन्यासे इव, पूर्वाशालतायाः प्राचीवल्लया अवश्यायो हिमं तस्य सेकासिञ्चनानवपल्लवे इव नवीन किसलये इवोद्भिद्यमान उद्भेदं प्राप्यमाणे, कमलिन्या मृणालिन्या रागदायिनि नीतिप्रदे दिवसकरबिम्बे सूर्यमण्डले सति विस्पष्टे, प्रभातसमये प्रत्यूपक्षणे कटकलोकेनैव सैन्यजनेनेव सहोजयनीं विशालां परापतितवान्प्राप्तवान् । अथेति । उज्जयनीगमनानन्तरं दूरत एव दविष्टादेव प्रसृतः पाणिः प्रसृतिस्तस्या द्वन्द्वेन संस्थित रूर्ध्व- दमैर्नियोजिताञ्जलिभिरित्यर्थः । पुज्यमानैः संघीक्रियमाणैश्च पुजितैः संघीकृतेश्चाद्धं कृतं मण्डलं येरेवंविधे- श्चोपविष्टैर्निषण्णैश्च वलितैर्गतंश्च दत्तानि कतिपयानि कियन्ति शून्यपदानि यँरेवंभूतैश्च निर्वर्त्यमानैः पश्चादा- गच्छद्भिश्चागच्छद्भिः समागच्छद्भिश्चोन्मुखैरुर्ध्वाननैश्च, अलोमुखन चैर्मुखैश्च, उदूर्ध्वं वाष्पो यास्वेवंविधा दृष्टयो
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८६
दिखावट