पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादस्वरा | AUG- म्पायनवृत्तान्तमेव समन्ताच्छुश्राव | शृण्वंश्च चकार चेतसि - 'बाह्यस्य तावज्जनस्येयमीदृशी समवस्था किं पुनर्येनासावङ्केन लालितः संवर्धितो वा बालचाटवोऽस्यानुभूताः । तदतिकष्टं मे वैशम्पायनेन विना तातस्य शुकनासस्याम्बाया मनोरमाया वा दर्शनम्' इत्येवं चिन्तयन्नौ- सानिहितोद्वाष्पदृष्टिरदृष्टसर्ववृत्तान्त एव विवेशोज्जयिनीम् | अवतीर्य च स राजकुलद्वारि प्र विशन्नेवार्यशुकनास भवनं सह देव्या विलासवत्या गतो राजेति शुश्राव | श्रुत्वा च निर्व तैव जगाम | गच्छंश्च समीपवर्ती ' हा बत्स वैशम्पायन, अद्यापि मदकलालनोचितो बाल एवासि । कथं त्वमेकाकी व्यालशतसहस्रभीषणे निर्मानुपे तस्मिञ्न्यारण्ये स्थितः । केन तत्रापि सर्वसन्त्वव्याघातकारिणी शरीररक्षा कृता । केनँ वैषम्यप्रतिपन्थिनी शरीरस्थितिः संपादिता । केन निद्रासुखदायि शयनीयमुपकल्पितम् | कस्त्वयि बुभुक्षिते तृषिते सुपुप्सति वा दुःखितो ममोत्सङ्गसुत्सृज्य | समानसुखदुःखा वधूरपि न पुत्रक, त्वयोपात्ता । आगत- मात्रस्यैव ते पितरमनुज्ञाप्यात्यर्थं वधूमुखमालोकयिष्यामीति यन्मया चिन्तितं केवलं तन्मे मन्दपुण्याया न संपन्नम् । अपरं तवापि दर्शनं दुर्लभं भूतम् । वत्स, यत्र तेऽवस्थातुमभिरु- चितं नयस्व 'तँत्रैव मामपि पितरं विज्ञप्य | त्वामपश्यन्ती न जीवामि । तात, त्वयाहं शैश- । । । ४९० 4 समन्तात्सर्वत्र शुश्रावाकर्णयामास । शृण्वंश्चेति चेतसि चित्ते चकार | वाह्यस्य वहिःस्थस्य तावज्जनस्य लोकस्ये- दृशी समवस्था दशा, येनासौ वैशम्पायनोऽङ्केन कोडेन लालितः पालितः संवर्धितो वृद्धि प्रापितः । अस्य वैश- म्पायनस्य बालचाटवः शिशुचाटवः । 'चटु चाटु प्रियप्रायम्' इति हैमः | अनुभूता अनुभव विषयीकृतास्तेषां किं पुनर्भण्यते । तत्तस्माद्धेतोर्मे मम वैशम्पायनेन विना तातस्य शुकनासस्य अम्बाया मनोरमाया वा दर्शनम- वलोकनमतिकाष्टमतिकृच्छ्रम् । इत्येवं पूर्वोक्तप्रकारेण चिन्तयन्ध्यायन्नासायां गन्धज्ञायां निहिता स्थापितोद्वाप्पा दृष्टिर्येन अदृष्टोऽनिरीक्षितः सर्ववृत्तान्तो येनैवंभूत एवोजयिनीं विशालां विवेश प्रविष्टवान् | अवतीर्यावरोहणं कृत्वा च स चन्द्रापीडो राजकुलझारे नृपकुलप्रतोल्यां प्रविशन्नेव प्रवेशं कुर्वन्नेवार्यशुकनासभवनं विलास- वया सह राजा तारापीडो गत इति शुश्रावाकर्णयामास | श्रुत्वाकर्ण्य च निर्वर्य व्यावृत्य तत्रैवार्य शुकनारा- भवन एव जगाम गतवान् । गच्छन्त्रजंश्च समीपवर्ती निकटस्थो विलासवत्या देव्या स्वयं संस्थाप्यमानां निवार्यमाणामपि मनोरमामेतान्यन्यानि च वचनानि विप्रलपन्ती ब्रुवन्तीमश्रौपीदिति दूरेणान्वयः । इति - द्योत्यमाह - हा वत्सेति | हा इति खेदे | हे वत्स वैशम्पायन, अद्यापि सांप्रतमपि मदके कोडे लालनं तत्रोचितो योग्यो बाल एवासि । कथं त्वमेकाक्यसहायो व्यालानां सर्पाणां शतसहस्रं लक्षं तेन भीषणे भैरवे निर्मानुषे मनुष्यवर्जिते तस्मिन्पूर्वोक्त शून्यारण्ये ग्रामादिरहितकान्तारे स्थितः । केन तत्रापि शून्यारण्येऽपि सर्वसत्त्वानां समग्रमाणिनां व्याघातं प्रतिवन्धं करोतीत्येवंशीला शरीररक्षा कृता विहिता | केन विषमस्य भावो वैषम्यं तस्य प्रतिपन्थिनी शत्रुभूता शरीरस्थितिः संपादिता निष्पादिता । केन निद्रायाः मुखं सौख्यं ददातीत्ये- वंशीलं यच्छयनीयं शयनस्थलमुपकल्पितम् | त्वयि वैशम्पायने वुभुक्षिते क्षुधिते, तृषिते पिपासिते, सुषुप्सति De Ju IT TITI क