सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ कादम्बरी । ु .9 रिचन्दन चन्द्रकान्तमणिदर्पणाचुपकरणपाणिभिर्बहीभिर्वाराङ्गनाभिरुपेतम्, परिभवस्थानमिव निदाघसमयस्य, निदानमिव शीतकालस्य, निवेशमिव वारिवाहानाम्, तिरस्कारमिव रैवि- किरणानाम्, हृदयमिव सरसः, सहायमिव हिमगिरेः, स्वरूपमिव जडिन:, आवास मित्र विभावरीणाम् प्रत्याघातमिव दिवसस्य जलमण्डपमयासीत् । तत्र चातिरम्यतया क्षुभितम- करध्वजोत्कलिकासहस्रविषमं जलासारशिशिरतया संघुक्षितसुहृद्वियोगानलं महासमुद्रमिव गम्भीरं तं दिवसमेकाकी कथंकथमपि स्वधैर्ययानपात्रेणालङ्घयत् । लोहितायमानातपेच सायाहे निर्गत्य बहुलगोमयोपलेपहरिते मन्दमन्दमारुताहतोत्तरलायमान धवल कुसुमप्रकरशोभिनि वासुभवनाङ्गणे क्षणमिवास्थाने समासन्नपार्थिवै: सह वैशम्पायनालापेनैव 'स्थित्वा द्वितीय एव यामे चलितव्यम् | सज्जीकुरुत साधनम्' इत्यादिश्य बलाध्यक्षमृक्षोदय एवं विसर्जिता- शेषराजलोको वासभवनमध्यवसत् । अथातिचिरान्तरितोज्जयिनी दर्शनोत्सुको विनापि प्रया- पनान्द्या सकल एवं कटकलोकः संवृत्य प्रावर्तत गन्तुम् | आत्मनाप्यलव्धनिद्रार्विनोदो- याभिः । मृणालेति । मृणालानि बिसानि, तालवृन्तानि व्यजनानि । कर्पूरी हिमवालुका, पटवासः पिष्टातः, हरिचन्दनं चन्दनम्, चन्द्रकान्तमणयश्चन्द्रमणयः, दर्पणो मुकुरः एत आदौ येषामेतादृशमुपकरणमुप स्करः पाणौ हस्ते यासां ताभिः । परीति | निदाघसमयस्योष्णकालस्य परिभवस्थानमिव पराभवस्थलमिव । शीतकालस्य शिशिरसमयस्य निदानमिव कारणजीव । वारिवाहानां मेघानां निवेशमिवाश्रममिव । रविक- राणां सूर्यकिरणानां तिरस्कार मिव न्यक्कारमिव । हृदयमिति | सरसस्तटाकस्य हृदयमिव मध्यमिव । सहायमिव सखायमिव हिमगिरेस्तुहिनाचलस्य । कचित् 'सहोदरमिव' इति पाठः । तत्र भ्रातरमिवेत्यर्थः । जडिनो जडतायाः स्वरूपमिव स्वलक्षणमिव । विभावरीणां रजनीनामावासमिव गृहमिव । दिवसस्य वारसस्य प्रत्याघातमिव ग्रहारमिव जलमण्डपमयासी दिव्यन्वयस्तु प्रागेवोक्तः । तत्र चेति । तस्मिन्स्थलेऽतिरम्यतया- तिमनोहरतयैकाक्यसहायस्तं दिवसं कथंकथमपि महता कष्टेन स्वं स्वकीयं यद्धैर्यं तदेव यानपात्रं वाहनं तेना- लङ्घयदुलङ्घितवान् । दिवसं विशेषयन्नाह - क्षुभितेति । क्षुभितं क्षुब्धं यन्मकरध्वजस्य कंदर्पस्योस्कलिकास- हसमुत्कण्ठासहस्रं तेन विषमं विकटं जलस्याम्भस आसारो वेगवदृष्टिस्तेन शिशिरतया शीतलतया संधुक्षितः प्रकटीकर्तुमारब्धः सुहृद्वियोगानलो मित्रविरहानलो येन स तम् । महासमुद्रमिव महाजलधिमिव गम्भीरं गभीरम् | विरहाकुलित चेतस्कवाद प्राप्तप्रान्त मित्यर्थः । लोहितायमानो रक्तायमान आतप आलोको यस्मि- नेतादृशे च साया संध्यायां निर्गत्य गृहाद्वहिरागत्य बहुलं दृढं यद्गोमयं छगणं तेनोपलेप उपलिम्पनं तेन हरिते नीले नीलवर्णे, मन्दं मन्दं यथा स्यात्तथा मारुतेन वायुनाहतस्ताडितोऽत एवोत्तरलायमान उत्कम्पा- यमानो यो धवलकुसुमप्रकरः श्वेतपुष्पनिकरस्तेन शोभिनि शोभायमाने वासभवनाङ्गणे निवासगृहाजिर आ स्थान आस्थानसभायां समासन्नाः पार्श्ववर्तिनो ये पार्थिवा राजानस्तैः सह वैशम्पायनस्यालापेन किंवदन्या ·