पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४८५ चागृहीतप्रतिकर्मतया मलिनवेशाभिरुद्विग्नदीनमुखीभिरितस्ततो वैराङ्गनाभिर्यामिक लोकेन कर्मान्तिकैश्च प्रणम्यमानस्तूष्णीमिवालोककारकेणेवै मदामोदेनावेदिते निसृष्टशून्यदृष्टिर्गन्ध- मादने शनैः शनैर्वा सभवनमयासीत् । तत्र चावनीतसमायोगो विमुच्यानि शयनीये तैरु- तालवृन्तानिलेन संवीयमानोऽङ्गसंवाहकारिभिश्च शनैः शनैरपनीयमानागमनखेदः सकल- रजनीप्रजागर खिन्नोऽपि चाप्राप्त निद्रासुखो दुःखासिकया पुनरपि दुःखान्तरहेतुं चिन्तामेवा - विशत् – 'यदि तावदप्रतिमुक्तस्त तेनाम्बया वा महति शोकार्णवे निक्षिप्य तौ तनयविरह- शोकविक्लवं तातं शुकनासमम्बां च मनोरमामनाश्वास्यास्मादेव प्रदेशाद्गच्छामि, तदा मयापि वैशम्पायनस्यानुकृतं भवति । निवृत्य पुनर्गमने चामुक्तिपक्षमाशङ्कते मे हृयम् । तत्कि करोमि । अथवस्थाय एवाप्रतिमुक्तिशङ्का मे प्रियसुहृदात्मानं मां च परित्यजताध्यपरेण प्रकारेण गॅमनमुत्पादयता कादम्बरीसमीपगमनोपायचिन्ता पर्याकुलमतेरुपकृतमेव । तदधुना वैशम्पायनप्रत्यानयनाय यान्तं न तातो नाम्बापि नार्यशुकनासोऽपि निवारयितुं शक्नोति मानमिव । कैः कुसुमानां पुष्पाणां प्रकरैः समूहैः | हरिमिव कृष्णमिव | अनन्तः संख्यातुमयोग्यो यो भोगस्तस्य परिकरः परिवारो यस्मिन् | हरिपक्षेऽनन्तस्य शेषनागस्य भोगः शरीरं तदेव परिकरो यस्येत्यर्थः । एवंविधं का- • यमानमविशत् । प्रवेशं चकारेत्यर्थः । प्रविश्य च प्रवेशं कृत्वा चागृहीतमनात्तं प्रतिकर्माङ्गसंस्कृतं याभि- रतासां भावस्तत्ता तथा मलिनः श्यामो वेषो नेपथ्यं यासां ताभिः | उद्विग्नमुद्वेगं प्राप्तमत एव दीनं स्वल्पतया दृश्यमानं मुखं यासामेवंविधाभिः । इतस्ततः संचरद्भिरिति शेषः । वराङ्गनाभिर्वरयोषिद्भिर्यामिक लोकेन चतुष्किकास्थितजनेन कर्मान्तिकैश्च दासादिभिश्च प्रणम्यमानो नमस्किय माणस्तूष्णीमित्र जोपमिवालोककार- केण जनोत्सारकवेत्रिणा मदो दानं तस्यामोदेन परिमलेन चावेदिते ज्ञापिते गन्धमादने गजविशेपे निसृष्टा दत्ता- शून्योपयोगरहिता दृष्टिदृश्येनैवंभूतः शनैः शनैर्मन्दं मन्दं वासभवनं वासगृहमयासीदगमत् । तत्रेति । तस्मि- न्वासभवनेऽपनीतो दूरीकृतः समायोगः संबन्धः । अन्येषामिति शेषः । येनैवंभूतोऽङ्गानि हस्तपादादीनि विमु च्य | तत्प्रयोजक प्रयत्नाभावादिति भावः । शयनीये शव्यायां तरूणां वृक्षाणां तालवृन्तानि व्यजनानि तेषामनि- लेन वायुना संवीज्यमान उद्धूयमानोऽङ्गस्य शरीरस्य संवाहः संमर्दस्तत्कारिभिस्तत्करणशीलैश्च । शनैः शनैर्मन्दं सन्दमपनीयमानो दूरीक्रियमाण आगमनखेदो यस्यैवंभूतः सकला समग्रा या रजनी तस्यां प्रजागरो जागरणं तेन खिन्नोऽपि खेदं प्राप्तोऽपि दुःखेन कृच्छ्रेणासिकावस्थानं तया प्राप्तं निद्रासुखं येनैवंविधः पुनरपि द्वितीय वा रमप्येकस्माद्दुःखादन्यानि दुःखानि दुःखान्तराणि तेषां हेतुं निदानभूतां चिन्तां मानसीव्यथामविशत्प्रविष्टो- ऽभूत् । यदीति | तावदादौ तातेन तारापीडेनाम्बया विलासवत्या वाप्रतिमुक्तोऽविसृष्टस्तौ मातृपितरौ महति गरिष्ठे शोकार्णवे शुक्समुद्रे निक्षिप्य पातयित्वा | तनयेति । तनयस्य वैशम्पायनस्य विरहो वियोगस्तस्माद्यः शोकस्तेन विक्लवं विधुरं तातं शुकनासमम्बां च मनोरमामनाश्वास्याश्वासनामकृत्वा स्मादेव प्रदेशात्स्थानाद्य दि a utta aad Had सायं कहें । वि