पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी 9 संभावनासंभावित विससर्ज सकलमेव राजकम् | उत्थाय तत्क्षणकृतमुत्तम्भिततुङ्गतरतोर- णाबद्धचन्दनमालमुभयपार्श्वस्थापितोत्पल्लवमुखपूर्णहेमकलशम् द्वारात्प्रभृति सित्तैमृष्टभूमि - भागम्, अन्तर्बहिश्च प्रकीर्ण सुरभिक्कुसुमप्रकरम्, इतस्ततः संचरता कर्मान्तिक लोकेन गृहीत वि विधभृङ्गारम्, मणिचामरतालवृन्तरत्नपादुकाद्युपकरणपाणिभिर्वारवनिताभिश्चाकीर्णम्, वि. तानतलवर्तिना मदामोदाधिवासित दिगाननेन राजहस्तिना गन्धमादनेन सनाथीकृतैक पार्श्वम्, अपरपार्श्वेऽपि कल्पितेन्द्रायुधावस्थानमुपवाह्य करेणुकाक्रान्तबाह्याङ्गणम्, अशेषद्वारावहितहु- वेत्तलोकम्, महत्त्वाद्गम्भीरतयाने कसत्त्वशरणतया च महाजलनिधिमनुकुर्वाणम् । तथा हि सवेलावनमिव यामावस्थितानेककरिघटापरिकरेण, अन्तःप्रविष्टमहाशैलमिव गन्धमादनेन, सकल्लोलमिव संचरत्संभ्रान्तकर्मान्तिकलोकोर्मिपरम्पराभिः, सावर्तमिव ग्राहरिकजनमण्ड • लावस्थानः, सलक्ष्मीकमिव वराङ्गनाभिः सरत्नमिव महापुरुषैः सहसमालमित्र सितपता- काभिः, सफेनपटलमिव कुसुमप्रकरैः, हरिमिवानन्तभोगपरिकरं कायमानमविशत् । प्रविश्य ४८४ १ 9 विधीयमाना प्रसादो वस्त्रादिप्रदानम्, संमानमत्यादरः, तयोः संभावना चिन्तना तथा संभावित संस्कृतं सकलमेव समग्रमेव राजकं राजसमूहं विससर्ज गृहगमनाय विदेशं दत्तवान् | उत्थायोत्थानं कृत्वा तत्क्षणं त कालं कृतं विहितमुत्तम्भितं नियन्त्रितं तुङ्गतरमुच्चैस्तरं यत्तोरणं तत्रायद्धा चन्दनमाला यस्मिन् । उभये- ति । उभयपाश्र्वयोर्वामदक्षिणयोः स्थापितो विन्यस्त उदूर्ध्व पलवो मुखे यस्यैवंभूतः पूर्णहेमकलशो यस्मिन् । द्वारात्प्रभृति प्रतोल्या आरभ्य सिक्तः सिञ्चितो मृष्टः शोधितो भूमिभागो यस्मिन् । अन्तर्बहिश्च प्रकीर्णोडव- ध्वस्तः सुरभिकुसुमानां सुगन्धपुष्पाणां प्रकरः समूहो यस्मिन् | इतस्ततः संचरता भ्रमता कर्मान्ति कलोकेन सेवकजनेन गृहीतो विविवोऽनेकविधो भृङ्गारः कनकालुका यस्मिन् । मणीति | मणिखचितानि चामराणि वालव्यजनानि, तालवृन्तानि व्यजनानि, रत्नानां मणीनां पादुका 'पावडी' इति प्रसिद्धा । एता आदौ यस्मिन्ने- तादृशमुपकरणमुपस्करः पाणा हस्ते यासामेवंविधाभिर्वार वनिताभिर्वैश्याभिराकीर्णं भृतम् । वितानेति । विता- नमुल्लोचस्तस्य तलमधोभागस्तत्र वर्तिना मदस्य दानस्य य आमोदः परिमलस्तेन अविवासितं सुरभीकृतं दिश आननं येनैवंभूतेन राजहस्तिना नृपकरिणा गन्धमादनेन सनाथीकृतं सहित मेकपार्श्व यस्मिन् | अपरपार्श्व- sपि तदितरपार्श्वेऽपि कल्पितं विरचितमिन्द्रायुवस्याश्वस्यावस्थानमुपवेशनस्थलं यस्मिन् । उपवाहयितुं योग्या उपवाह्या याः करेणुका हस्तिन्यस्ताभिराक्रान्तं व्याप्तं बाह्याङ्गणं यस्मिन् । अशेषेति । अशेषाणि स- ममाणि यानि द्वाराणि तेष्ववहितः स्थापितो बहुवेतृलोको यस्मिन् | महत्त्वादायतत्वाद्गम्भीरतयालब्धमध्य- तयानेके ये सत्त्वाः प्राणिनस्तेषां शरणतयाश्रयतया च महाजलनिधिं महासमुद्रमनुकुर्वाणं विडम्बमानम् | तत्सादृश्यादिति भावः । तदेव दर्शयन्नाह–तथा हीति | सह वेलावनेन वर्तमान मित्र | केन । यामावस्थिता- चतुष्किकास्थिता या अनेककरिघटास्तासां परिकरेणोपस्करेण । उच्चैस्त्वसाम्यात्करिघटानां वनसाम्यम्,