पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४८३ हितम् । ताडितो वा । तत्रापि नैवासावेव स्नेहतः पिशुनस्वभावो वा, गुरुजनाभक्तो वा, गुणोपादानविमुखो वा, तरलचित्तो वा । यत्किंचनकारी यःकश्चिदिव क्षुद्रप्रकृतिराढ्यपुत्रता- गर्वितो दुःशिक्षितो दुर्विनीतो वा, पुत्रैकतादुर्ललितो वा । यो जन्मनः प्रभृति सर्वप्रकारो- पकारिणो गुरुजनस्योपरि खेदमेवं कुर्यादनुबन्धाद्विरमेद्वा | प्रशमस्यापीदृशस्य नैष काल: । अद्याप्यसौ विद्वज्जनोचिते गार्हस्थ्य एव न निवेशितः, देवपितृमनुष्यानामानृण्यमेव जोप- गतः, अगत्वा चानृण्यसृणत्रयेण बद्धः क्व गतः । न तेन पुत्रपौत्रसंतया वंशः प्रतिष्ठां नीतः । नानन्तदक्षिणैर्महाक्रतुभिरिष्टम् | न सत्रकूपप्रपाप्रासादतटाकारामादिभिः कीर्तनैरलंकृता मेदिनी | नाकल्पस्थायि दिशोयायि यशो विप्रकीर्णम् । न गुरवोऽनुवृत्त्या सुखं स्थापिताः | न स्निग्धवन्धूनामुपकृतम् । न प्रणयिनो निर्विशेष विभवतां नीताः । न साधवः परिवर्धिताः । नानुजीविनः संविभक्ताः । नँ दृष्टाः श्रुता वाङ्गनाः । न जातेन जीवलोकसुखान्यनुभूतानि । न तेन पुरुषार्थसाधनानां धर्मार्थकामानामेकोऽपि हि प्राप्तः । किमेतत्तेन कृतम्' इत्याक्षिप्त- चेताश्चिन्तयंचिरमिव तस्मिन्नेव तरुतले स्थित्वा शून्यहृदयोऽपि यथाक्रियमाणप्रसादसंमान- ताडितो वा प्रहतो वा । तत्रापि ताडनादिष्वप्यसौ वैशम्पायनो मद्विषये स्नेहतः स्नेहान्नैव पिशुनस्वभावः खल- प्रकृतिः । गुरुजनानां पित्रादीनां वाभक्तोऽनाराधकः । गुणानामुपादानं ग्रहणं तत्र विमुखः पराङ्मुखो वा तरलं चित्तं यस्य स तथा चञ्चलहृदयो वा । यत्किंचन यत्तत्करोतीत्येवंशीलः स तथा यः कश्चिदिव क्षुद्रप्रकृतिस्तुच्छ स्वभाव आढ्यपुत्रतया वा, गर्वितः स्मयं प्राप्तो दुःशिक्षितो दुरध्यापितो दुर्विनीतो वा प्रश्रयरहितः, पुत्रस्यै कतैक्यं तथा दुर्ललितो दुश्चेष्टितो वा । स जन्मनः प्रभृत्युत्पत्तिमारभ्य सर्वप्रकारेणोपकारिण उपक्कृतिविधायिनो गुरुजनस्य मातृप्रभृतिलोकस्योपर्येवं खेदं कुर्याद्विदध्यात् । अनुबन्धात्संबन्धाद्वा विरमेन्निवर्तयेत् | ईदृशस्यैतादृशस्य प्रशम स्यापि नैष कालो नायं समयः । अत्र सर्वत्र वाशब्दो विकल्पार्थः । अद्याप्यद्य यावत् स वैशम्पायनो विद्व ज्जनोचिते पण्डितलोकयोग्ये गार्हस्थ्ये गृहस्थाश्रम एव न निवेशितो न स्थापितः । देवाश्च पितरश्च मनु- प्याश्च तेपामानृण्यमनृणभावमेव नोपगतो न प्राप्तः । सुतोत्पादकत्वाभावादिति भावः | आनृण्यमगत्वाप्राप्य च ऋणत्रयेण पूर्वोक्तेन बद्धो निर्यन्त्रितः क्व गतः क्व प्राप्तः । तेन वैशम्पायनेन पुत्रपौत्रसंतल्या | वंशोऽन्चयो न प्रतिष्टां नीतो न प्रौढिमारोपितः । अनन्ता अपरिमिता दक्षिणा यज्ञसमाप्तेरनन्तरं दानं येण्वेवंविधैर्महाक- तुभिर्महायज्ञैर्नेष्टं न यज्ञाः कृताः । सत्रेति | सत्रा दानशालाः, कूपा अवटाः, प्रपाः पानीयशालाः, प्रासादा देवभूपानां सद्मानि, तटाकानि सरांसि, आरामाः कृत्रिमवनानि, एतत्प्रभृतिभिः कीर्तनैर्नामभिर्मेदिनी वसुधा नालंकृता न विभूषिता । आकल्पस्थाय्यायुगान्तस्थायि दिशोयायि दिग्गमनशीलं च यशः श्लोको न विप्रकीर्ण न विस्तारितम् | गुरवो हिताहितोपदेष्टारोऽनुवृत्त्यानुकूल्येन सुखं यथा स्यात्तथा न स्थापिता नैकत्र स्थितिं पकतमपतिर्न कृता प्रणयि सहदो निर्विशेष-