पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माम् । गतश्च वैशम्पायनसहितस्तेनैव पार्श्वेने पुरस्ताद्वमिष्यामि ।। इति निश्चित्य तत्कालकृतं वैशम्पायन वियोगदुःखं परिणापसुखमौषधमिव बहु मन्यमानो मुहूर्तमिव स्थित्वों विश्रान्तः सुखितैरङ्गैरापूरिते तृतीयार्धयामशङ्खे शरीरस्थितिकरणायोदतिष्ठत् । उत्थाय च यत्रैव काद- म्बरी तत्रैव वैशम्पायन इति स्वधैर्यावष्टम्भेनैव संस्तभ्य हृदयं शून्यान्तरात्मा पुनरेव संव- गिताशेपराजलोकः शरीरस्थितिमकरोत् । कृताहारश्चान्तर्ज्वलतो मदनानलस्य वैशम्पायनविर- हशोकानेच बहिरपि संतापदानाय साहायकमिव कर्तुमुपरिस्थितश्चातिकष्टमष्टास्वपि दिक्षु युगपत् प्रसारितकरः करोम्ययत्नेनैव संतापमित्याकलय्येव गगनतलमध्यमारूडे सवितरि आत- पव्याजेन रजतद्रवमिवोत्तप्तमुद्गिरति रश्मिजाले, निर्मिद्य विशन्तीष्विव शरीरमातपकणिका, पुँजमानप्राणिसंघातासु तलप्रवेशात्संकटायमानासु पादपच्छायासु बहिरालोकयितुं चाव्य- पारयन्तीषु दृष्टिपु, ज्वलत्स्विव दिखेषु, दुःस्पर्शासुभूमिपु, निःसंचारेषु पथिपु, पाकुटीरोदरोदपीतिपुञ्जितेष्वध्वन्येषु, नाडिंधश्वासातुरेपु स्वनीडावस्थायिषु पलवलान्तर्जलप्रवेशितेषु महिषवृन्देषु, अरविन्ददलशकलकिंजल्क विच्छुरितमिच्छाविलोडि- संर्केटप्र- पत्ररथेषु, निवारयितुं प्रतिषेधयितुं शक्नोति समर्थो भवति । गतश्चेति । तत्र प्राप्तश्च वैशम्पायनसहितस्तेनैव पूर्व - रिशीलितेन पार्श्वन वामदक्षिणयोरन्यतरेण पुरस्तादग्रे गमिष्यामि त्रजिष्यामि इति निश्चित्य निश्चयं कृत्वा, तत्कालकृतं तदात्वविहितं वैशम्पायनस्य वियोगदुःखं विरह्कृच्छ्रमोषधभिव, अर्थात् कटुक भैपज्यमिव, परिणामे प्रान्ते सुखं सौख्यकृद्वहु यथा स्यात्तथा मन्यमानो जानानो मुहूर्तमिव घटिकाद्वय सदृशमिव स्थित्वा विश्रान्तो विश्रामं गतः सुखितैः सुखं प्राप्त स्तृतीयोऽध यस्मिन्नेवंविधो यो यामः प्रहरस्तस्य शङ्खे जलज आपूरिते वादिते सति शरीरस्थितिकरणायोदतिष्ठदुत्थितो बभूव । उत्थाय चोत्थानं कृत्वैव यत्रैव यस्मिन्नेव स्थले का- दम्वरी तत्रैव तस्मिन्नेव प्रदेशे वैशम्पायन इति स्वधैर्यावष्टम्भेनैव स्वकीय सत्त्वावलम्वनेनैव हृदयं चेतः सं- रतभ्य संस्तम्भनं कृत्वा शून्योऽन्तरात्मा चेतो यस्य स तथा पुनरेव द्वितीयवारमेव संवर्गित एकीभूतोऽशेषः समग्रो राजलोको यस्यैवंभूतः शरीर स्थिति देहपालनामकरोदकल्पकयत् । कृतो विहित आहारो भोजनं येनैवं- विधश्च सन्मदनानलस्य कामवहेरन्तर्मध्ये ज्वलतः प्रज्वलतः सतो वैशम्पायनस्य विरहो वियोगस्तस्माद्यः शोकः शुक्स एवाग्निर्वह्निस्तस्य च बहिरपि ज्वलतः सतः संतापदानाय तप्तिवितरणाय साहायकमिव साहाय्यमिव कर्तुं विधातुमुपरिस्थितश्चातिकष्टमतिकृच्छ्रमष्टास्वपि दिक्षु युगपदेकवारं प्रसारितकरी विस्तारितकिरणोऽय- लेनैवाप्रया सेनैवाहं संतापं करोमीत्याकलय्येवाकलनां कृत्वेव गगनतलमध्यं सवितरि सूर्य आरूढे प्राप्ते सति, आतपव्याजेनालोकमिषेणोत्तप्तमुष्णीकृतं रजतद्रवमिव रूप्यरसमिव रश्मिजाले किरणसमूह उद्गिरत्युद्वमति सति, शरीरं देहं निर्भिद्य द्विधा कृत्वा विशन्तीष्विव प्रवेशं कुर्वन्तीविवातपकणिकासु सत्सु, पुज्यमानः सं- घातीक्रियमाणः प्राणसंघातो जीवसमूहो याखेवंविधासु पादपच्छायामु तलप्रवेशादधोगमनात् । किरणाना- मिति शेषः । संकटायमानासु संकीर्णायमानासु सत्सु, बहिरप्यालोकयितुं वीक्षितुं दृष्टिषु नेत्रेष्वपारयन्ती वश- क्लवतीषु सत्सु, ज्वलत्स्खिव दह्यमानेष्विव दिखेष्वाशाननेषु सत्सु, दुर्दुःखेन स्पर्शो यासामेवंविधासु भूमिपु