सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । । पयामः' इति न्यवेदयन् | चन्द्रापीडस्य तेन तेषां स्फुटाख्यानादपि कष्टतरेण वचसान्तःशल्य- गर्भ स्फुटितमिव हृदयमासीत् । केवलं तत्कालप्रणयिनी मूर्च्छा सा धारणमकरोत् | तुरगा- दवतारितं च कुथोपविष्टं च पितुः समवयोभिरनतिक्रमणीयैर्मूर्धाभिषिक्तपार्थिवैधृतमात्मानं न वेदितवान् | उपलब्धसंज्ञोऽपि च वैशम्पायनस्यादर्शनात् 'किमेतत् | काहं वर्ते । किंवा मयैतञ्चरितम्' इति भ्रमारूढ इव मुह्यद्भिरिवेन्द्रियैः सर्वमेवानुत्प्रेक्षमाणः केवलं स्कन्धावारा- गमनेनैव तस्याभावादन्यदसंभावयन, दुर्विपहपीडार्मिंहतेनेव चेतसा 'किमारटामि, किं हृदयमवष्टभ्य तूष्णीमासे, किमात्मानमाहत्य हृदयात्प्राणैर्वियोजयामि, किमेकाकी कांचि- द्दिशं गृहीत्वा प्रव्रजामि' इति कर्तव्यमेव नोध्यगच्छत् । अन्तद्र्वन्निव दह्यमान इव स्फुट- न्निव सहस्रधा दुःखेन चकार चेतसि -'अहो मे रम्योऽप्यरमणीयः संवृत्तो जीवलोकः | वैसन्त्यपि शून्यीभूता पृथिवी | सचक्षुषोऽप्यन्धाः ककुभो जाताः । सुनिष्पन्नमपि हृतं जन्म | सुरक्षितमपि मुषितं जीवितफलम् | कं” परं पश्यामि । कमालपामि | कस्मै विश्रम्मं कथयामि । केन सह सुखमासे । किमद्यापि मे जीवितेन कादम्बर्यापि च । वैश- ४७५ , स्थितं यथाभूतं विज्ञापयामो निवेदयाम इति न्यवेदयन्कथयामासुः । चन्द्रापस्य तेषां जनानां स्फुटं प्रकट- माख्यानं कथनं तस्मादपि तेन कष्टतरेणातिकृच्छ्रेण वचसा वाक्येनान्तःशल्यं गर्भ यस्यैतादृशं हृदयं स्फुटित मिव विघटितमिवासीदभवत् । तत्काले तदात्वे प्रणयः स्नेहो विद्यते यस्या एवंविधा सा मूर्च्छा केवलं धारण- मकरोत् । तुरगादश्वादवतारितमुत्तारितं च कुथोपविष्टं परिस्तोमोपविष्टम् | 'प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः’ इत्यमरः । पितुः समं सदृशं वयोऽवस्था येषां तैरनतिक्रमणीयैरनुल्लङ्घनीयैर्मूर्धाभिषिक्तपार्थिवैः कृतराज्याभिषेकनृपैर्वृतमात्मानं स्वं न वेदितवान ज्ञातवान् | उपलब्धा प्राप्ता संज्ञा संज्ञानं चेतना येनैवंभूतोऽपि वैशम्पायनस्यादर्शनादनवलोकनादात्मतत्त्वं स्वस्वरूपं तस्य दर्शनानिरीक्षणात्किमेतत्, काहं वर्त कुन स्थलेऽहम स्मि, किं वा मयैतन्चरितमेतञ्चेष्टितमिति भ्रमारूढ इव संशयापन्न इव मुह्यद्भिरिव मोहं प्राप्नुवद्भिरिवेन्द्रियैः करणैः सर्वमेव समग्रमेवानुत्प्रेक्षमाणोऽनालोकमानः केवलं. स्कन्धावारागमनेनैव केवल- सैन्यस्यैवागमनेन तस्य वैशम्पायनस्याभावादन्यत्तद्भिन्नमसंभावयन्नसंभावनाविषयी कुर्वन्दुर्विषहा दुःसहा या पीडा तयाभिहतेनेव ताडितेनेव चेतसा मनसा किमारटामि पूत्करोमि, किं हृदयं चेतोऽवष्टभ्यावष्टम्भनं कृत्वा तूष्णीमासे मौनेन तिष्ठामि, किमात्मानं स्वमाहत्याहननं कृत्वा हृदयात्प्राणैरसुभिर्वियोजयामि विभिन्नो भवामि । किमहमेकाक्यसहायः कांचिद्दिशं ककुभं गृहीत्वा समादाय प्रव्रजामि गच्छामीति कर्तव्यमेव कृत्य- मेव नाभ्यगच्छन्न प्राप्तवान् । अन्तर्मध्ये द्रवन्निव द्रवीभवन्निव, दह्यमान इव प्रज्वाल्यमान इव, सहस्रधा सहस्रप्रकारेण दुःखेन स्फुटन्निव द्विधाभवन्निव, चेतसि चित्ते चकार कृतवान् । अहो इत्याश्चर्ये । मे मम रम्योऽपि रुचिरोऽपि जीवलोको जीवाधारक्षेत्रमरमणीयोऽमनोहरः संवृत्तो निष्पन्नः | वसन्त्यपि लोकसमा- ,