पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । स्कन्धावारमाससाद | प्रविशंञ्च प्रत्यावासकं वहन्नेव 'कस्मिन्प्रदेशे वैशम्पायनावासः- पप्रच्छ । ततस्तत्संनिहिताभिः स्त्रीभिरितरत्वादप्रत्यभिज्ञाय यथारव्धकर्मव्यग्राभिरेवोद्र न्यवदनाभि: 'भद्र, किं पृच्छसि । कुतोऽत्र वैशम्पायनः' इत्यावेद्यमाने 'आ: पापा:' मसंबद्धं प्रैलपथ' इति शून्यहृदय एव ताः प्रतारयन्नन्तर्भिन्नहृदयत्वान्नापराः पृच्छन्नेव इव हरिणशावकः, यूथपरिभ्रंशविलोल इव करिकॅलभः, धेनुविरहादुत्कर्ण इव तर्णकः चिद्वदन् नै किंचिदाकर्णयन्, न किंचिन्निरूपयन्, न कचित्तिष्ठन्, न कंचिदाहृयन्, तोऽस्मि, किमर्थमागतोऽस्मि, क चलितोऽस्मि, क्व गच्छामि, किं पश्यामि, किमारब्धं किं वा करोमि, इति सर्वमेवाचेतयमानोऽन्ध इव, बधिर इव, मूक इव, जड इव, इव, कटकमध्यदेशं यावत्तादृशेनैव वेगेनावहत् । 19 १ ४७४ अथेन्द्रायुधप्रत्यभिज्ञानाद्वांर्तयैवानुप्रधावितराजं पुत्रदर्शनाच देवश्चन्द्रापीड इति स त्ससंभ्रमप्रधावितानामचेतितोत्तरीय स्खलनाना मुद्राष्पशून्यदृष्टीनां दूरादेव लज्जया प्रण यया च सममेवावनमतां राजन्यसहस्राणां मुखान्यवलोक्य 'क वैशम्पायनः' इत्या ततश्च ते सर्वे सममेव 'अस्मिंस्तरुतलेऽवतरतु तावद्देवः । ततो यथावस्थितं , नाश्वन नानाव्यापारेण व्यवहारेण व्यग्रो व्याकुलः सकललोको यस्मिन्नेवंभूतं स्कन्धावारं सैन्यनिवेशम एवाससाद प्राप्तवान् । प्रविशंश्च प्रवेशं कुर्वंश्च प्रत्यावासकं प्रत्यावासं वहन्नेव व्रजन्नेव कस्मिन्प्रदेशे यनावास इति पप्रच्छेति पृष्टवान् । ततस्तदनन्तरं यथारब्धं यत्कर्म किया तेन व्यग्राभिरेवोद्वाष्पेण शु यासां ताभिस्तस्य वैशम्पायनवासस्य संनिहिताभिः समीपवर्तिनीभिः स्त्रीभिरितरत्वाद्भिन्नत्वादप्रत्य नुपलक्ष्य हे भद्र हे शुभवन् किं पृच्छसि किं प्रश्नं करोषि । अत्र वैशम्पायनः कुतः । इत्या इति ज्ञाप्यमाने आः पापा: पापिष्ठाः, किमसंबद्धमसमञ्जसं प्रलपथेति शून्यहृदय एव विमनस्कचित्त स्त्रियः प्रतारयन्चञ्चयन्नन्तर्मध्ये भिन्नं हृदयं यस्य तस्य भावस्तत्त्वं तस्मादपरा अन्या न पृच्छन्न पृच्च न्नेवोत्रस्तश्चकितो हरिणशावक इव मृगवाल इव | यूथात्स्वजातिसमुदायाद्यः परिभ्रंशो भिन्नीभावस्ते लश्चञ्चलः करिकलभ इव हस्तिनस्त्रिंशदव्दकरिपोत इव | 'कलभस्त्रिंशदव्दकः' इति हैमः | धेनुविरहा वियोगादुत्कर्ण उच्चश्रवणस्तर्णक इव वत्सक इव | न किंचिदब्रुवन्, न किंचिदाकर्णयञ्ण्वन्, न न्निरूपयन्कथयन्, न क्वचित्तिष्ठतिनिवृत्तिं कुर्वन्, न कंचिदाह्वयन्नाहानं कुर्वन्, कागतोऽ तोऽस्मि, किमर्थं किंप्रयोजनमागतोऽस्मि, क्व कुत्र चलितोऽस्मि, क्व गच्छामि प्रजामि, किं पश्यामि लोकयामि, किं मयारब्धं प्रारब्धम् किं वा करोमि सृजामीति पूर्वोक्तं सर्वमेवाचेतयमानोऽज्ञा अन्ध इव गताक्ष इव, बधिर इवाकर्ण इब, मूक इवावागिव, जड इव चेतनारहित इव, आ भूतग्रस्त इव, कटकमध्यदेशं यावत्, तादृशेनैव वेगेन जवेनावहद्वश्राम । अथेति । सैन्यान्तःप्रवेशानन्तरमिन्द्रायुधस्य प्रत्यभिज्ञानाञ्चिह्नाद्वार्तयैव किंवदन्त्यैवानुप्रधाविताः