सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४७३ णम्, अपरिमाणरजोनिरोधाशङ्कितेन गीर्वाणवर्त्म नेवावकीर्यमाणम्, अर्कावलोकेनेव सह वि- स्तीर्यमाणम्, आयासितायततरदृष्टिभिरण्यदृष्टपर्यन्तम्, अनुजीविभूभृच्छतसहस्रर्केल्पिताव- ष्टम्भम्, संचारिणं द्वितीयमिव मेदिनीसंनिवेशम्, अंजलवाहिनीप्रवेशगम्भीरं प्राणिमयमैपर- पारमष्टममिव महासमुद्रम्, उद्रितरजःसंततिदूरतया चापरिस्फुटविभाव्यसर्ववृत्तान्तमपीत- स्ततोवलितधवलकदलिको द्भासिता नेककरिघटासहस्रसंकुलम्, अविरलवलाकावलीबिभ्राजि - ताम्भोदसंघातं मूर्तिमन्तमिव मेघसमयारम्भम्, आवासभूमिग्रहण संभ्रमोभिप्रभावितासंख्य- करितुरगनरपरम्परोर्मिसंवाघतया मैंन्दमन्दरास्फालनलुलितकल्लोलजालाकुलस्य महाजलधे- र्लीलया निविशमानं स्कन्धावारमद्राक्षीत् । दृष्ट्वा चाकरोच्चेतसि – 'अहो भद्रकं भवति, यद्य- चिन्तितागमन एवं प्रविश्य वैशम्पायनं पश्यामि' इति । एवं चिन्तयित्वा छत्रचामरादिभिः स्वचिहैः सह निवारिताशेषराजपुत्रलोको जवविशेषग्राहिभित्रि चतुरैस्तुरङ्गमैरनुगम्यमानो मूर्धानमावृत्योत्तरीयेण रयविशेषप्राहिणेन्द्रायुधेन नानाव्यापारव्यग्रसकललोकमचिन्तित एव धया विक्षिप्यमाणमिवेतस्ततः क्रियमाणमिव । यदि वासोढुं संघातभरया मेदिन्येवं संक्षिप्यमाणं समासीक्रिय- माणम् | अपर्याप्तप्रमाणाभिरप्राप्तेयत्ताभिर्दिग्भिः ककुभिः संहियमाणमिव संगृह्यमाणमिव । अपरिमाणमसं- ख्यं यद्रजस्तेन निरोधोऽवकाशरोधस्तेनाशङ्कितेना रेकितेन गीर्वाणवम नेवाकाशेनेवावकीर्यमाणं विक्षिप्यमाणम् | अर्कावलोकेनेव सूर्यावलोकेनेव सह विस्तीर्यमाणं विस्तारं प्राप्यमाणम् । आयासिता आयासं प्रापिता आयततर दीर्घतरा या दृष्टयस्ताभिरण्यदृष्टोऽनवलोकितः पर्यन्तः प्रान्तो यस्य तत्तथा । अनुजीविनां सपर्याकारिणां भू- गृतां राज्ञां पर्वतानां च यच्छतसहस्रं लक्षं तेन कल्पितोऽवष्टम्भ आश्रयो यस्य तत्तथा । संचारिणं संचरण- शीलं द्वितीयमपरं मेदिन्या वसुधायाः संनिवेशमिव रचना विशेषमिव । न विद्यते जलं यस्यामेवंविधा वाहिनी सेना तस्याः प्रवेशेनागमनेन गम्भीरं गभीरं प्राणिमयं प्राणिभिर्निष्पन्नं न विद्यते परः पारो यस्य तत्तथा । अता एवोत्प्रेक्षते --- अष्टमं महासमुद्रमिव महाजलधिमिव । उद्रेकाद्रजःसंततेदूरस्य भावो दूरता तया चापरिस्फुटोऽप्र- कटो विभाव्यो ज्ञेयः सर्ववृत्तान्तोऽखिलोदन्तो यस्मितत्तथा । एवंविधमपीतस्ततो वलिता वायुना पश्चाद्वलि- ता या धवलकदलिकाः श्वेतवैजयन्त्यः । 'कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति विश्वः । ताभिरु- द्भासिताः शोभिता एतादृशा अनेके ये करिणो हस्तिनस्तेषां घटाः समुदायास्तासां सहस्रं तेन संकुलं संकी- र्णम् । श्वेतकदलिकासाम्यादुत्प्रेक्षते - अविरला निबिडा या वलाकावली बिसकण्ठिका श्रेणिरतया विभ्राजितः शोभितोऽम्भोदसंघातो जलदसमूहो यस्मिन्नेवंभूतं मूर्तिमन्तं मेघसमयारम्भमिव जलदकालप्रारम्भमिव । आ- वासार्थ यद्भूमिग्रहणं तत्र संभ्रमेणाभिप्रधावितास्त्वरितगत्या चलिता असंख्याः संख्यातुमयोग्या ये करितुरगनरा हस्त्यश्वमनुष्यास्तेषां परस्परं मिथ ऊर्मिवत्कोलकवत्संवाध आघातो यस्मिंस्तस्य भावस्तत्ता तथा मन्दं शनैर्य- न्मन्दरस्य मेरोरास्फालनमासमन्ताङ्क्रमणं तेन लुलितमेकीभूतं कोलजालं तरंगपटलं तेनाकुलस्य व्याकुलीभूतस्य AT ARATT ला .