पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७१ शुने मातरिश्वनि, क्रमेण चापरदिग्वधूवदनचुम्बिनि तदाकल्पकाले च दुर्विषहशर्वरी विरहचि म्तये वासन्नदिनकरोदय विषादेनेवाप्रदोषादुत्ता नितमुखैः कुमुदराशिभिः पीयैमानस्य धाम्नः प रिक्षयेणेव सर्वाम्बरसरःपयःपायिपयोद विभ्रमाश्वरजःसंघातोपवा तेनेव पाण्डुतां गतवति च न्द्रबिम्बे, प्रत्यप्रगगनलक्ष्मी वियोग संतापोज्झिते धवलोत्तरीयांशुक इव शशाङ्कलग्ने गलति च- न्द्रिकालोके, अपरजलधिपातिना ज्योत्स्ना जलप्रवाहेणेव सहसा फेनबुद्बुदावलीविव नैश्य- न्तीषु तारकापङ्किषु, गलदवश्यायक्षालनादिव शनैः शनैर्दलितमुक्तागौरज्योत्स्नानुभावमुत्सृ जन्तीवाशासु, पुनर्विभाव्यमानसहजश्यामकान्तिपु सलिलादिवोन्मज्जत्सु तरुलता विटपेषु, समुल्लसति पूर्व दिग्वधूकर्णपूररक्ताशोकपल्लवेऽम्बर सरस्तामरसे दिवसमुखकरिकुम्भसिन्दूररेणौ तरणिरथरक्तध्वजांशु के संध्यारागे, संध्यात पचैरितान्तेष्वालग्नदावानलेष्विव वयःसंघातर्जनि- तौशिवमुत्सृज्यमानेषु, निवासपादपेषु, सशेषनिद्रालसैश्चिरप्रसारणाविशदजङ्घाङ्गिभिर्हठाँकृष्ट- उत्तरभागः | - जडिमा यस्मिन्स तस्मिन् | रजन्या विरामोऽवसानं तस्य पिशुने सूचके । क्रमेण चेति । क्रमेण परि- पाट्या तदा तस्मिन्कल्पकाले प्रभाते सति च पाण्डतां शुकृतां चन्द्रविम्वे शशिमण्डले गतवति प्राप्तवति सति । कथंभूते । अपरदिगेव वधूः पश्चिमदिगेव वनिता तस्या वदनं मुखं चुम्बतीत्येवंशीलः स तस्मिन् । पाण्डुतानिदानं प्रदर्शयन्नाह - दुर्विषति | दुर्विषहा दुःखेन सोढुं शक्या या शर्वरी रात्रिस्तस्या विरहो वियोगस्तस्य चिन्तयेवार्त्यैवासन्नः समीपवर्ती यो दिनकरोदयः सूर्योदमस्तस्माद्यो विषादः खेदस्तेनेवाप्रदो- पात्प्रदोषाभावादुत्तानि तमु खैरूर्ध्वं कृतान नैरेता दृशैः कुमुदराशिभिः कैरव श्रेणिभिः पीयमानस्यास्वाद्यमानस्य धाम्न आलोकस्य परिक्षयेणेव विनाशेनेव सर्व यदम्बरमेव सरस्तटाकं तस्य पयःपायिनो ये पयोदा मेघास्तेषां विभ्रमो यस्मिन्नेतादृशो योऽश्वरजःसंघातस्तेन य उपघातस्तेनेव । पुनश्चन्द्रं विशेषयन्नाह – प्रत्यप्रेति । प्रत्यग्रा नवीना या गगनलक्ष्मीर्व्योमश्रीस्तस्या वियोगसंतापो विरहज्वरस्तेनोज्झिते विमुक्ते । धवलोत्तरीयांशु- कस्येदं विशेषणम् । शशाङ्कलने चन्द्रसंबद्धे चन्द्रिकालोके चन्द्रकलिकाप्रकाशे गलति क्षरतिसति । अङ्गलग्न शुक्लत्वसाम्यादुत्प्रेक्षते -- धवलं शुक्लं यदुत्तरीयांशुकमुपरिवत्रं तदिवेत्युत्प्रेक्षा । अपरेति | अपरजल- धिपातिना पश्चिमसमुद्रावगाहिना ज्योत्स्नाजलप्रवाहेणेव सहसा तारकापतिषु नक्षत्रश्रेणिषु नश्यन्तीषु विलयं गच्छन्तीषु सत्सु । वर्तुलत्वश्वेतत्व सादृश्यादुत्प्रेक्षते – फेनबुद्रुदावलीविव कफयुक्तस्थासक श्रेणिष्विव | गल- दिति । गलन्क्षरन्योऽवश्यायो हिमं तेन क्षालनादिव धावनादिव शनैः शनैर्मन्दं मन्दं दलितमुक्तवद्द्वौरा या ज्योत्स्ना चन्द्रकलिका तस्या अनुभावो माहात्म्यं तमुत्सृजन्तीषु त्यजन्तीष्वासु दिक्षु । 'ज्योत्स्नावितानम्' इति पाठो दृश्यते । तत्र ज्योत्स्ना लक्षणं वितानमुल्लोच इत्यर्थो ज्ञेयः | पुनरिति । पुनर्विभाव्यमाना पुनर्ज्ञा- यमाना सहजा स्वभावजा श्यामा कान्तिर्येषामेवंभूतेषु तरुलताविटपेषून्मजत्सूपर्यागच्छत्सु । अत उत्प्रे - क्षते - सलिलादिव जलादिव | पुनः कस्मिन्सति । संध्यारागे समुल्लसम्युल्लासं प्राप्ते सति | संध्यारागं विशे- पनाह – पूर्वेति । पूर्वदिक्शकदिवसैव वधूः स्त्रीस्तस्याः कर्णपूराय रक्ताशोकपलवेऽरुणकेलिकिसलये अ