४७० कादम्बरी चारः कथंकथमपि निर्जगाम नगर्याः । निर्गत्य चादूरत एव निर्भरत्वाज्योत्स्नापूरस्यांच्छ- तया च दुर्विभाव्यपानीयामुपरि कलकूजितानुमीयमानोत्रस्त हंससार्थोत्पतनव्यतिकराकुलिना नीयमानामिव सर्वतो जडतरतरङ्गानिलस्पर्शमात्रोपलक्ष्यसलिलसंनिधिमुत्तीर्य शिप्रामैतिग्रह- तत्वादसंकटत्वाच्च वर्धयतेव गैमनोत्साहमति विस्तीर्णेनापि पुरोविस्तारितेनेव चन्द्रपादेर्दशपुर- गामिना मार्गेण प्रावर्तत गन्तुम् | अथोमानैरिव रयवाहिना सकलदिङ्मुखप्रसृतेन ज्योत्स्नाजलस्रोतसा वैशम्पायनालोक- नत्वरितस्य चन्द्रापीडमनस इव तुल्यं बहतो जङ्घानि लेनेन्द्रायुधस्याकृष्यमाणैरिव वाजिभि- स्तावत्येवांपररात्रवेलया योजनत्रितयमेवालङ्घयत् । अथाध्वश्रमापहरणायेव प्रवृत्ते वातुमाहाद- कारिणि निर्भरज्योत्स्नाजलावगाहादार्द्रार्द्र स्पर्शेऽवश्यायशी करावर्षिणि रंजोलुलित विविधवन- पवानिलवीजिते विनिद्रकुमुदिनी परिमलन लैग्नेपरिमले परिमलाहितजडिनि रंजनीविरामपि- ११ पुरजनस्तस्य भावस्तत्ता तयासंबाधेनाप्यसंकटेनापि राजवर्त्मना राजमार्गेण तुरङ्गमबलस्याश्वसाधनस्य बहुवा- कथंकथमपि कृच्छ्रेण कष्टेन लव्धः प्राप्तः संचारः संचरणं येनैवंभूतो नगर्या अवन्त्या निर्जगाम निर्ययो । नि- र्गय च निर्गमनं कृत्वा चादूरत एवादविष्ठ एव ज्योत्स्नायाश्चन्द्रिकायाः पूरस्य प्रवाहस्य निर्भरत्वाद्बहुलत्वाद- च्छतया स्वच्छतया च दुर्विभाव्यं दुःखेन ज्ञातुं शक्यं पानीयं जलं यस्याः सा तामुपर्युपरिष्टात्कालकूजितेन मनो- हरध्वनितेनानुमीयमानोऽनुमानविषयीक्रियमाण उत्रस्तश्चकितो यो हंससार्थः सितच्छदसमुदायस्तस्योत्पतनमु ड्डयनं तस्य व्यतिकरो वृत्तान्तस्तेन । पङ्किसायादुत्प्रेक्षते - अङ्गुलिना करशाखया नीयमानामिव प्रा. प्यमाणामिव सर्वतः सर्वत्र जडतरोऽतिशीतलो यस्तरङ्गस्तस्य कल्लोलस्यानिलः पवनस्तस्य स्पर्शमात्रेण संयो- गमात्रेणोपलक्ष्यो ज्ञातुं शक्यः सलिलसंनिधिः पानीयसमीपं यस्याः सा ताम् । एवंविधां शिप्रां नदीमुत्तीय- शरणं कृत्वातिप्रहतत्वादतिक्षुण्णत्वादसंकटत्वादसंवाधत्वाच गमनस्य यात्राया उत्साहमुद्योगं वर्धयता वृद्धिं प्रापयतेव अतिविस्तीर्णेनाप्यति विस्तृतेनापि पुरोऽमे चन्द्रपादैः शशिकिरणैर्विस्तारितेनेव विस्तीर्णकृतेनैवं- विधेन दशपुरगामिना दशपुरानुयायिना मार्गेणाध्वना गन्तुं प्रावर्तत प्रवृत्तोऽभूत् । अथ रयवाहिना रयसा वेगेन वहति स तथा तेन सकलदिङ्मुखप्रसृतेन सकलदिङ्मुखानि समग्रककुबा. ननानि तेषु प्रसृतेन विस्तृतेन ज्योत्स्नैव जलं पानीयं तस्य स्रोत: प्रवाहस्तेनोमानैरिव वहनं प्राप्यमाणै- रिव वैशम्पायनस्यालोकनं निरीक्षणं तत्र त्वरितस्योत्सुकस्य चन्द्रापीडमनस इवेन्द्रायुवस्य तुल्यं सदृशं वहत- श्चलतोऽस्य जङ्घानिलेनाकृष्यमाणैरिवाकृष्टैरिव वाजिभिरश्वैः । योऽत्युत्कृष्टगामी भवति स मन्दचारिणमा- कर्पत्येव । तावत्या एवापररात्रवेलयापररात्र उच्चन्द्रस्तस्या वेलावसरस्तया योजनत्रितयमेव द्वादशक्रोशानेवा- लयनुवित्तवान् । अथेति | योजनत्रितयोङ्घनानन्तरमध्वश्रमो मार्गक्लमस्तस्यापहरणायेव दूरीकरणायेच मातरिश्वनि वायौं वातुमितस्ततञ्चलितुं प्रवृत्ते सति । इतो वायुं विशेषयन्नाह — आह्लादेति । आह्वादः प्रमोदस्तं करोतीत्येवंशीलः स तथा तस्मिन् । निर्भरं यो ज्योत्स्नाजल विगाहोऽवगाहनं नार्द्रार्द्राऽतिशये. ---
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६७
दिखावट