पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४६९ अवनहंसानां कलरवेण, निर्धार्यमाण ईवच श्रोत्र प्रवेशिना गमनवेला प्रणामसंभ्रान्तस्य वाराङ्गना- जनस्य चैलवलयनूपुररसनाकर्लेकलेन तारदीर्घतरः शङ्खध्वनिरुदतिष्ठत् | अनन्तरं चोत्थाप्य- मानैचोत्थितैश्चाकृष्यमाणैश्चाकृष्टैश्चारोग्यमाणपर्याणैश्च पर्याणितैश्च नीयमानैश्चानीयमानैश्च विलेभ्यमानैचाच्छियमानैश्चागच्छद्भिश्चागतैश्च पूज्यमानैश्च पूजितेश्च पङ्किस्थितैश्च वाह्यमानैश्च तिष्ठद्भिश्च गँतिपालयद्भिश्च पर्याप्त राजद्वाराङ्गणैरप्रभूतचत्वरैर्निरंतुषितसकलरध्यान्तरतयान्त- बेहिश्च संकटायमाननगरीविस्तारैस्तुरङ्गमसहस्रैस्तरक्षणं कुन्तवनमयमिवान्तरिक्षम्, खुररव- मयीव मेदिनी, हेषारवमयानीव श्रोत्रविवराणि, फेनपिण्डस्तवकमयमिव युवराजभवनद्वारा- ङ्गणम्, खलीनरवमय्य इव दशदिशः, अश्वालंकाररत्नप्रभामया इवाभवञ्शशाङ्करश्मयः । अ- चिराच गृहीत समायोगोऽङ्गेणात्तमिन्द्रायुधमारुह्य पुरस्ताञ्चलितेनालो कहेतोद्वितीयचन्द्रमण्डले- नेव हंसधाम्ना मङ्गलातपत्रेणावेद्यमाननिर्गमो यथादर्शनमितस्ततः तुरङ्गमगतैरेव प्रणम्यमानो राजपुत्रसहस्रैः प्रसुप्तपुरजनतयासंबाधेनापि राजवर्त्मना बहुत्वात्तुरङ्गमवलस्य कृच्छ्रलब्धसं- शब्दितेनानुवर्त्यमान इवानुगम्यमान इव | स्वभावेन प्रकृत्या गद्गदेन गद्गदरूपेण भवनहंसानां गृहसितच्छदानां कलरवेण मनोज्ञशब्देन मुहुर्मुहुवरंवारं विच्छिद्यमान इव विच्छेदं प्राप्यमाण इव | श्रोत्रप्रवेशिनां कर्णचा- रिणां गमनवेला यात्रावसरस्तस्यां प्रणामो नमस्कारस्तन संभ्रान्तस्य सादरस्य वाराङ्गनाजनस्य वेश्याजनस्य चलानि चञ्चलानि वलयानि कटकानि, नूपुराणि पादकटकानि, रसनाः काव्यः, तासां कलकलेन कोलाह- लेन निर्धार्यमाण इव निश्चीयमान इव । तारोऽत्युच्चध्वनिस्तेन दीर्घतरोऽत्यायतः । अनन्तरं चेति । ध्वनेरुत्थानानन्तरमुत्थाप्यमानैश्चोत्थानं क्रियमाणैः, उत्थितेरुव भूतैः आकृष्यमाणैराकर्पर्ण क्रियमाणैः, आ कृष्टैराकर्षितैश्च, आरोग्यमाणं प्रियमाणं पर्याणं पल्ययनं येषु तैः पर्याणितैघृतपल्ययनैश्च नीयमानैः प्राप्य माणैः, आनीयमानैरानयनं क्रियमाणैश्च, विलम्यमानैर्विलम्भनं क्रियमाणैः, आच्छिद्यमानैश्च, आगच्छद्भिराग- मनं कुर्वद्भिः, आगतैः समायातैश्च, पुज्यमानैरभ्यर्च्यमानैः, पूजितैरर्चितैश्च, पङ्क्तिस्थितैश्च पकया श्रेण्या स्थितैः, बाह्यमानैर्भारोद्वहनं कार्यमाणैर्वहद्भिश्च तिष्ठद्भिरवस्थानं कुर्वद्भिः प्रतिपालयद्भिः प्रतिपालनां कुर्वद्भिश्च पर्याप्तं परिपूर्ण राजद्वाराङ्गणं नृपतोल्या अजिरं यैः । 'गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे' इत्यमरः । अप्रभूत- मसमर्थ चत्वरं बहुमार्ग येषां तैः । निस्तुषितानि निःशेषं भृतानि सकलरथ्यान्तराणि समग्रवीथीविवराणि यैस्तेषां भावस्तत्ता तयान्तर्मध्ये बहिश्च संकटायमानः संकीर्णायमानो नगर्या अवन्त्या विस्तारो यैरेवंविधै- स्तुरङ्गमसहस्रैस्तत्क्षणं तत्कालं कुन्तवनमयमिव भलकान ननिर्मितमिवान्तरिक्षमाकाशम् | खुराः शफास्तेषां रवः शब्दस्तन्मयीव मेदिनी पृथ्वी, हेषा हेषाः तासां रवस्तन्मयानीव श्रोत्रविवराणि कर्णच्छि- द्वाणि । 'हेषा हेषा तुराणाम्' इति हैमः | फेनपिण्ड: कफपुअस्तस्य स्तव कैर्गुच्छैर्निर्मितमिव युव राजभवनद्वाराङ्गणम् । खलीनानां कविकानां रवाः शब्दास्तन्मय्य इव दशदिशो दशककुभः । अश्वालं-