पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ कादम्बरी । तरद्भिरिव जलतरङ्गेषु, पिण्डीभूय वहद्भिरिव, रथ्यामुखेषु प्रसारितैरिव सैकतस्थलेषु, हंस- साथैः सहकीभूतैरिव, संविभक्तैरिव चन्द्राशयप्रसुप्तकामिनीकपोललावण्येन, क्षालितैरिव च न्द्रकान्तच्युत जलधारासहस्रैः । तथा च गर्भगृहेष्वप्यविहतप्रवेशैः, दन्तवलभीभ्योऽपि लब्ध- परभागः, पद्मिनीपत्रखण्डेष्वप्य खण्डितधवलिमभिः, आरामेष्वपि दिवसबुद्धिमुत्पादयद्भिः, परस्परोद्भिन्नक्रमेणोद्भिरद्भिरिव, आवर्जयद्भिरिव, विक्षिपद्भिरिव, विस्तारयद्भिरिव, वैषद्भिरिव सर्वतो ज्योत्स्नाप्रवाहम्, कादम्बरीसमागमत्वरादानाय स्मरसर्वात्र मोक्षमिव कुर्वद्भिश्चन्द्रपा द्विगुणीकृतमन्मथोत्साहो गर्मनसंज्ञाशङ्खनादाया दिदेश | १ अथ गगनतललब्धविस्तारः, विजृम्भमाण इव दिक्कुञ्जेषु आवर्तमान इवाभ्रंलिहनगरी- प्राकारमण्डलौभ्यन्तरे, समारोहन्निवोत्तुङ्गगोपुराट्टालकशिखराणि, चलन्निव हर्म्यान्तरालेषु, विकसन्निव चतुष्कचत्वरेषु, प्रसरन्निव राजमार्गेषु, परिभ्रमन्निव भवनसंकटेषु, प्रविशन्निवो- द्याननंगवनगहरेषु, संमूर्च्छन्निव प्रासादकुक्षिषु, तरक्षणप्रतिबोधितानां गृहसरोजिनीसारसा- नामनुवर्त्यमान इव तारतरदीर्घेण रणितेन विच्छिद्यमान इव मुहुर्मुहुः स्वभावगद्गदेन , । रितैरिव । 'हर्म्यादिर्धनिनां वासः प्रासादो देवभूभुजाम्' इत्यमरः | जलतरङ्गेष्वम्भः कल्लोलेषु तरद्भिरिव । पिण्डीभूय पिण्डतां प्राप्य वहद्भिरिव प्रवहद्भिरिव । रथ्यामुखेषु सैकतस्थलेषु पुलिनस्थलेषु प्रसारितैरित्र प्रस रणं प्राप्तैरिव । हंसानां सितच्छदानां साथैः संघातैः सहकीभूतैरिवैकभावतां गतैरिव | चन्द्राश्रये शिरोग हे प्रसुप्ता या कामिनी कंदर्पवती स्त्री तस्याः कपोलो गात्परप्रदेशस्तस्य लावण्यं मुक्ताफलस्य छायेव तरलत्वं तेन संविभक्तैरिव संविभागीकृतैरिव । 'कुट्टिमोऽस्त्री निवद्धा भूश्चन्द्रशाला शिरोगृहम्' इत्यमरः । चन्द्र- कान्तेभ्यश्चयुताः पतिता या जलधाराखासां सहस्रैः क्षालितैरिव धौतैरिव । तथा च गर्भगृहेष्वपत्रर्गेष्वप्यवि- हतोऽप्रतिषिद्धः प्रवेशो येषां तैः दन्तवलभीभ्योऽपि रदनच्छदिराधारेभ्योऽपि लव्धः प्राप्तः परभागो गुणोत्कर्षो यैः | पद्मिन्या नलिन्याः पत्रखण्डेष्वपि दलसमूहेष्वप्य खण्डितात्रुटिता धवलिमा श्वेतता येषां तैः । 7 किं कुर्वद्भिः । आरामेष्वपि कृत्रिमवनेष्वपि दिवसवुद्धिं वासरधियमुत्पादयद्भिर्निष्पादयद्भिः | परस्परमन्यो- न्यमुत्प्राबल्येन भिन्नो विद्धोऽयमनेन भिन्नोऽनेनाय मित्यादिक्रमेणोद्भिरद्भिरिव क्षरद्भिरिव आवर्जय द्भिरिव मुञ्चद्भिरिव, विक्षिपद्भिरिचॆतस्ततो विक्षेपं कुर्वद्भिरिव, विस्तारयद्भिरिव प्रसारयद्भिरिव वर्षद्भिरिव वृष्टिं कुर्वद्भि- रिव सर्वतः समन्ततो ज्योत्स्नाभरप्रवाहम्, कादम्वर्याः समागमो मेलापस्तस्य त्वरादानाय स्मरस्य कंदर्प सर्वास्त्राणि तेषां मोक्षं कुर्वद्भिरिव सृजद्भिरिव । । अधेति । शङ्खनादादेशानन्तरं शङ्खध्वनिर्जलजनिनाद उदतिष्ठदुत्थितो बभूव । इतः शङ्खनिनादं विशेष- यन्नाह – गगनतलेति । गगनतले व्योमतले लब्धः प्राप्तो विस्तारो येन सः । दिकुञ्जेषु ककुम्निकुञ्जेषु विजृम्भमाण इव कोशं प्राप्यमाण इव अभ्रंलिहो व्योमव्यापी यो नगर्याः प्राकारमण्डलो वप्रपरिधिस्तस्या भ्यन्तरे मध्य आवर्तमान इव भ्रममाण इव उत्तुङ्गान्यत्युच्चानि यानि गोपुराणां प्रतोलीनामहालकानि तदुप.