सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६७ उत्तरभागः | शरीरस्थितिसंपादनाय निरंगमत् । चन्द्रापीडोऽपि शुकनासमुखेनैव वैशम्पायनप्रत्युद्गमनाया- त्मानं मोचयित्वा जननीभवन एव निर्वर्तितशरीर स्थितिर्वैशम्पायन प्रत्युद्गमनसंविधान विनोदे- नैव तं दिवसमनयत् । अवतीर्णायां च तस्यां यामिन्यां सुहृद्दर्शनौत्सुक्येन शयनगतोऽपि जाग्रदेव समधिकमिव यामद्वयं स्थित्वा परिवर्तयद्भिरिव स्वकान्त्या नीलिमानमम्बर तलस्य, अपहरद्भिरिव हरिततां तरुगहनानाम्, अधस्तादपि छिद्रयित्वेव प्रविशद्भिर्निर्वासयद्भिरिव त- रुतलच्छायाम् देरीकुहरकु जोदरेष्वपि निलीनं तिमिरमक्षान्त्येव प्रविश्योत्पाटयद्भिः, विवर- प्रवेशव्याजेन च रसातलमिव प्रवेष्टुमार, अन्यथा पुनर्धवलयद्भिरिव धवळतां सौधानाम्, उद्धूलयद्भिरिव कर्पूररेणुना दिङ्मुखानि, लिम्पद्धिरिष सान्द्रचन्दनद्रवेण यामिनीम्, उन्नामय- द्भिरिव मेदिनीम्, उपनयद्भिरिव द्याम्, संक्षिपद्भिरिव तारकाग्रहनक्षत्रमण्डलानि, विस्तारय- द्भिरिव सरित्पुलिनानि, पृथक्पृथक्कमलवनान्युत्पीड्येवँ धारयद्भिः, उद्दलितदल विकासाने की- कुर्वद्भिरिव कुमुदाकरान, अपि च पर्यस्तैरिव शिखरिशर्खेरेषु, अवर्जितैरिव प्रासादमूर्धसु, । पशुनर्मणोः' इति हैमानेकार्थः । आलापैः संभापणैः सुखायमानं सुखकृचेतो यस्यैवंविधश्चिरमिव चिरसदृशं स्थिला शरीरस्थितेर्देह स्थितेः संपादनं करणं तस्यै निरगमन्निर्ययौ । चन्द्रापीडोऽपि शुकनासमुखेनैव, न तु. खमुखेन, वैशम्पायनस्य प्रत्युद्गमनमभिमुखयानं तस्मा आत्मानं स्वं मोचयित्वा मोक्षणं कारयित्वा जननी.. भवन एवं मातृगृह एव निर्वर्तिता निष्पादिता शरीरस्थितिदेहधारणात्मिका येन स वैशम्पायनप्रत्युद्गमनस्य संविधानं करणं तदेव विनोदः क्रीडा तेनैव तं दिवसमनयत्प्रापयत् । अवतीर्णायामागतायां तस्यां यामिन्यां रात्रौ सुहृदो मित्रस्य । ‘सुहृदुर्ह दो मित्रामित्रयोः' इति निपातः । तस्य दर्शनमवलोकनं तत्रौत्सुक्यमुत्सुकत्वं तेन शयनगतोऽपि शय्याप्राप्तोऽपि जाग्रदेव जागरूक एवं समधिकमिव समधिकसदृशं यामद्वयं प्रहरयुग्मं स्थिवावस्थानं कृत्वा चन्द्रपादै: शशिकिरणैर्द्विगुणीकृतो द्विगुणतां नीतो मन्मथस्य कन्दर्पस्योत्साहः प्रगल्भता यस्यैवंविधश्चन्द्रापीडो गमनस्य संज्ञा ज्ञापनं तदर्थं यः शङ्खनादो जलजध्वनिस्तस्मा आदिदेशानुज्ञां दत्तवान् | इतश्चन्द्रपादान्विशेषयन्नाह - परिवर्तयद्भिरित्यादि । खकान्त्या स्वकीय दीधित्याम्बरतलस्याकाशतलस्य नीलिमानं नीलतां परिवर्तयद्भिरिव परावर्त कुर्वद्भिरिव, नीलिमानं गृहीत्वा वेतिमानं ददद्भिरिवेत्यर्थः । तरुगहनानां तरुगहराणां हरिततां पीतनीलतामपहरद्भिरिव गृहद्भिरिव । दूरीकुर्वद्भिरिवेत्यर्थः । अधरता- दप्यधोभागमपि प्रविशद्भिः प्रवेशं कुर्वद्भिः । अत एवोत्प्रेक्षते - छिद्रयित्वेव छिद्राणि कृत्वेव तरुतलानां. छायातपाभावस्तां निर्वासयद्भिरिव वहिःकुर्वद्भिरिव | निर्विषयी कुर्वद्भिरिवेत्यर्थः । दरी गुहाकुहराणि सुषिराणि कुजोदराणि वृक्षैर्वृत्तान्तरस्थानमध्यभागास्तेष्वपि प्रविश्य निलीनं गुप्ततया स्थितं तिमिरं तमोऽक्षान्त्येव क्रुधेवोत्पाटयद्भिरिवोत्पाटनं कुर्वद्भिरिव । विवराणि सुषिराणि तेषु प्रवेशोऽन्तर्गमनं तस्य व्याजो मिषं तेन च रसातलं पृथ्वीतलं प्रवेष्टुं प्रवेशं कर्तुमारब्धैः कृतप्रारम्भैः । अन्यथान्यप्रकारेण सौधानां गृहाणां धव- लतां शुभ्रतां पुनर्द्वितीयवारं धवलयद्भिरिव धवलीकुद्भिरिव । कर्पूररेणुना हिमवालुकाक्षोदेन दिसुखानि fi Arumi