४६६ । अन्धकारे प्रविष्टस्यालोकः, वनगहनप्रविष्टस्य देशिकदर्शनम्, महार्णवपतितस्य यानपात्रोभ्या- गमनम् श्रियमाणस्योपर्यमृतवृष्टिरिति, तदेतेंदापतितं मयि | सर्वथा वैशम्पायनदर्शनमात्र- कान्तरिता वर्तते मे कादम्बरीप्राप्तिः, इत्येवं चिन्तयत्येव चन्द्रापीडे क्षितिपतिरुत्तस्थौ । उ त्थाय च तमेव विनयावनेतपूर्वकायं समवलम्व्यांसदेशे सकलमेदिनीभारोद्वहनगुरुणा दोर्द- ण्डेन शनैः शनैः संचरञ्शुकनासेनानुगम्यमानो विलासवतीभवनमगमत् । गत्वा च ससंभ्र- मक्कृताभ्युत्थानामिन्दूदयावलोकनविलोलामिव समुद्रवेलां विलासवतीमूर्ध्वस्थित एवावादीत् -'देविं', पश्यैषा त्वमपि वधूमुखावलोकनसुखस्य कृतेन ताम्यसीत्युपालभमानेवं देवीं व- सस्य यौवनारम्भसूत्रपातरेखा, आवयोस्तारुण्यदुर्विलैसित निवर्तनाज्ञा, विजृम्भमाणा मधु- शैगशोभा विवाहमङ्गलसंपादनायादिशति । त्वमपरं किमादिशसीति प्रष्टव्या | तदादिशतु देवी कथ्यमानेऽपि किमपरम् | अद्याप्यपहरसि वदनमन्यतो ब्रीडया | पृष्टा वा कर्तव्यं नाज्ञापयसि । वरमातासि संवृत्ता | जानामि चन्द्रापीडस्योपर्यप्रीतिरेषा, यदेवमेतत्का- र्येष्वनादरोऽवधीरणा च' इत्येवं विधैर्नर्मप्रायैराला पैः सुखायमानचेताश्चिरमिव स्थित्वा कादम्बरी , १ - त्पन्ना । तद्यदुच्यते प्रतिपाद्यते जनैस्तदेतन्मय्यापतितमागतम् । तत्किमित्याह - अन्धकार इति । अन्धकरे तिमिरे प्रविष्टस्य निविष्टस्यालोकः प्रकाशः । वनस्यारण्यस्य गहनं गहरं तत्र प्रविष्टस्य देशिकदर्शनं स्वदेशोत्पन्नज- नावलोकनम् | महार्णवः समुद्रस्तस्मिन्पतितस्य यानपात्रस्य पोतस्याभ्यागमनं प्राप्तिः | त्रियमाणस्य मरणं व्रजत उपर्यभृतवृष्टिः सुधासेक इति । सर्वथा सर्वप्रकारेण वैशम्पायनस्य दर्शनमात्रकमवलोकनमात्रकं तेनान्तरिता व्यवहिता मे मम कादम्बरीप्राप्तिर्वर्तते इत्येवं चिन्तयत्येव विचारयत्येव चन्द्रापीडे क्षितिपतिस्तारापीड उत्त- स्थाबुस्थितवान् । उत्थाय चोत्थानं कृत्वा । तमेवेति । सकला समग्रा या मेदिनी वसुधा तस्या भारो वीवधस्त- स्योद्ब्रहनेन धारणेन गुरुणा गरिष्टेन दोर्दण्डेन भुजादण्डेन विनयेनावगतो नम्रीभूतः पूर्वकायो देहादिभागो यस्यैवं- भूतं तमेव चन्द्रापीड मेवांसदेशे स्कन्ध प्रदेशे समवलब्यालम्वनीकृत्य शनैः शनैर्मन्दं मन्दं संचरन्द्रजञ्ञ्जुकनासेना- नुगम्यमानोऽनुयायमानो विलासवतीभवनं पट्टराज्ञीसदन मगमज्जगाम | गत्वा चेति । गत्वा च गमनं कृत्वा च ससंभ्रमेण सहसा कृतं विहितमभ्युत्थानमुत्थानं ययैवंविधाम् । अत एवोत्प्रेक्षते — इन्दूदयस्य चन्द्रोद्रयस्यावलो- कनं निरीक्षणं तेन विलोलां चञ्चलां समुद्रस्य जलवेर्वेलामिवाम्भसो वृद्धिमिव विलासवती मूर्ध्वस्थित एव शुक- नासोऽवादीदब्रवीत् । किमवादीदित्याह – देवीति । हे देवि हे स्वामिनि; पश्य विलोकय । एषा वि- लासवती त्वमपि भवत्यपि वधूमुखस्यावलोकनसुखं निरीक्षणसौख्यं तस्य कृते न ताम्यसि न खेदं करोपि । इति देवीं विलासवतीमुपालभमानेवोपालम्भं ददानेव वत्सस्य चन्द्रापीडस्य यौवनारम्भस्य सूत्रपातरेखेव रेखा । नवीनप्रारम्भे शिल्पिभिः सूत्रपातरेखा क्रियते इति सर्वसंमतम् । आवयोः शुकनासराज्ञोस्तारुण्यस्य यौवनस्य दुर्विलसितानि दुश्चेष्टितानि तेभ्यो निवर्तनस्य दूरीभवनभ्याज्ञेव आज्ञा । अत्र सर्वत्र रूपकम् । एवंविधा Page Aarum Aari gurYTIMI KITAIFitur fr=affar a Tu tar
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६३
दिखावट