पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ कादम्बरी । स्वेच्छया निमेपितुमपि न ददाति । समागमाशयैवावष्टव्धं हृदयम् । श्वसितमेव सुखे वहितम् । रोमाश्च एव क्षणमपि शरीरं न मुञ्चति । दिवानिशं बाप्प एव लोचनपथस्थायी । प्रजागर एव रात्रावपि दत्तदृष्टिः । अरतिरेव नैकाकिन्याः क्षाम्यत्यवस्थानम् | जीवितमेव कण्ठस्था- नान्नापसरति ' एवं वदन्तं तैमादिदेश विश्रान्तये केयूरकम् । आत्मनापि गमनचिन्तां प्रावि- शत् | यदि तावद्कथयित्वानमित्य चरणयोरनात्रातः शिरस्यगृहीताशीः सहसानुत्संकलित ईंव तातेनाम्चँयोक्तमपक्रम्य गच्छामि । ततो गतस्यापि मम कुतः सुखम्, कुतः श्रेयः, कुंतो वोच्चफलावाप्तिः, कीदृशी वा हृदयनिर्वृतिः । अथवा तिष्ठतु तावदियमुत्तरकालागामिनी चिन्ता । अपक्रम्य गंत एव कथमहं यत्तातेन दुस्तराहवार्णवोत्तरणमहासेतुबन्धादेवन्ध्यवा ञ्छित फलप्रदान कल्पमा दहितविक्रान्तियशो निष्क्रान्तिद्वारार्गलदण्डादशेषभुवनभवनोत्तम्भ- नस्तम्भात्स्वभुजादवारोप्य मय्येव राज्यभार औँरोपितः, तदनाख्याय पदमपि निर्याते मध्य- वा परिच्छदो वा तिष्ठतु | अत्रावस्थानं करोत्वित्यर्थः । तस्या हीति | हि निश्चितम् | तस्याः कादम्वर्यास्त्व- दालोकनेच्छैव त्वन्निरीक्षणवाञ्छेय स्वेच्छया स्वातन्त्र्येण निमेपितुमपि निमेषं कर्तुमपि न ददाति न दत्ते | सर्वदानिमेपरवतिष्ठतीति भावः । समागमो मेलापकस्तस्याशा वाञ्छा तयैवावटव्धं स्तव्धतां प्राप्तं हृदयं चेतः । अन्यथा स्फुटितं स्यादिति भावः । श्वसितमिति । मुख आनने श्वसितमुच्छ्वसितमेव वहितं प्रवाहरूपतया चलितम् | रोमाञ्चेति । रोमाञ्च एव रोमोद्गम एव क्षणमपि क्षणमात्रमपि शरीरं देहं न मुञ्चति न त्यजति । सर्वदा तस्या रोमाञ्चलक्षण: सात्त्विकभाव एव तिष्ठतीति भावः | दिवेति | दि- वानिशमहर्निश वाष्प एव लोचनपथस्थायी नेत्रमार्गस्थायी | अहोरात्रं रुदनमेव करोतीति भावः । प्रजागर इति । प्रजागर एव जागरणमेव रात्रावपि निशायामपि दत्तदृष्टिर्न्यस्त वर्तते | रात्रावपि निद्रां न गच्छ- तीति भावः । अरतिरिति । एकाकिन्या अद्वितीयाया अवस्थानमरतिरेवाधृतिरेव न क्षाम्यति न सहते । अरतिरेवैकाकिनीं न मुञ्चतीति भावः | जीवितमेवेति । कण्ठस्थानान्निगरणस्थलाजीवितमेव प्राणितमेव नापसरति न दूरीभवति । प्राणाः कण्ठगता एव वर्तन्त इति भावः । एवं वदन्तं जल्पन्तं तं केयूरकं विश्रा- न्तये विश्रामाया दिदेशादेशं दत्तवान् | आत्मनापि स्वेनापि गमनचिन्तां प्राविशत्प्रवेशं कृतवान् | तचिन्तां प्रदर्शयन्नाह -- यदीति चेदर्थे । तावदादावकथयित्वानापृच्छय चरणयोरनभिपत्यापतित्वा प्रणाममकृला शिरस्युत्तमाङ्गेऽनाघ्रातोऽचुम्वितोऽगृहीताशीरनात्ताशीर्वादः सहसंकप देऽनुत्संकलित इव स्वेच्छाप्रवृत्तपुरुष इ तातेन पित्रा, अम्वया जनन्या, उक्तं प्रतिपादितमपक्रम्योलङ्घय गच्छामि प्रजामि । ततो हेत्वर्थे । तस्माद्गतस्यापि मम कुतः सुखं सौख्यम्, कुतः श्रेयः कल्याणम्, कुतो वोच्चं महद्यत्फलं साव्यं तस्यावाप्तिः प्राप्तिः । कीदृशी हृदयस्य चित्तस्य निर्वृतिः संतुष्टिः । अथवेति पक्षान्तरे | उत्तरकाल आयतिस्तत्रागामिन्यागमनशीला येयं मानसिकी प्रत्यक्षा चिन्तार्तिखावत्सांप्रतं तिष्ठत्वास्ताम् | अपकस्येति । अपक्रम्य व्यावृत्यं गत एव कथमहं तातेन पित्रा दुःखेन तीर्यत इति दुस्तर एतादृशो य आहवार्णवः संग्रामसमुद्रस्तस्योत्तरण as a पालि निलं समविणे