पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । १ केष्वपि सहचराावरह विधुरेषु, कादम्बरीसनीपगमनोपदेशदानायेव कलकरुणमुचैर्मुहुर्मुहु र्व्याहरत्सु, चन्द्रमस्यपि भगवति संकलभुवनैकातपत्रे सुधारजतकलशे पूर्वदिग्वधूवदनचन्द - नतिलके गगनतललक्ष्मीलावण्यमहाहदे सकललोकाहादकारिणि, सुप्तालिप्तैः करैरिव स्प्रष्टुम्, उच्छ्वासहेतुना तं ज्योत्स्नाजलेन च सेक्तुम्, उदयगिरिशिखरमारूढे प्रौढे प्रदोपसमये चन्द्रा- पीडस्तस्मिन्नेव वल्लभोद्याने, चन्द्रातपस्पर्शदर्शित विशदजललवोद्भेदहारिणि चन्द्रमणिशिला- तले विमुच्याङ्गानि चरणसंवाहनोपसृतं केयूरकमवादीत् ——'केयूरक, किमकलयसि । या- वद्वयं परापतामस्तावत्प्राणान्धारयिष्यति देवी कादम्बरी । पारयिष्यति वा तां विनोदयितुं मदलेखा । आगमिष्यति वा पुनस्तत्समाश्वासनाय महाश्वेता | मत्परिचयोद्वेजिता प्रतिपत्स्यते वा शरीरस्थितये तयोरभ्यर्थनाम् । द्रक्ष्यामि वा पुनस्तस्याः स्मेरसृक्कोपान्तमालोलतारकमुत्र- स्तहरिणशावकॉयतेक्षणं मुखम्' इति । स तु व्यज्ञपयत् – 'देव, धैर्यमवलम्व्य गमनाय यत्नः क्रियताम् । तिष्ठतु तावदासन्नवर्ती सखीजनः परिजनो वा । तस्या हि त्वदालोकनेच्छेव । ४५३ SEVİNƏT ATACT त्यन्तं जलसमुन्नेषु । अहं पूर्वमहं पूर्वमित्यहमहमिका तथा शयनसंपादनायेव तल्पकल्पनायेवोद्दलत्सून्मिपत्सु सत्सु | चक्रवाकेष्वपि सहचरेष्वपि सहचारिण्यश्चक्रवाक्यस्तासां विरहो वियोगस्तेन विधुरेषु पीडितेषु सत्सु | कादम्बर्याः समीपमभ्यर्णं गमनं यानं तस्योपदेशस्तस्य दानायेव कलं करुणं यथा स्यात्तथोच्चै रुच्च स्वरेण मुहुर्मुहुर्वारंवारं व्याहरत्सु ब्रुवत्सु सत्सु | चन्द्रमस्यपीति | भगवति माहात्म्यवति सकलभुवनस्य समस्त- लोकस्यैकमद्वितीयमातपत्रं छत्रं तस्मिन्सुधाया रजतकलशे रौप्यकुम्भे पूर्वदिशेव वधूः स्त्री तस्या वदनं मुखं तस्मिंश्चन्दनतिलके मलयजपुण्ड्रे गगनतलमाकाशतलं तस्य लक्ष्मीः शोभा तस्या लावण्यं चातुर्यं तस्य महाहदे सकललोकस्य समस्तभुवनस्याह्लादं प्रमोदं करोतीत्येवंशीलः स तथा तस्मिन् | सुधालितैरमृतस्निग्धैः करर्हस्तैः स्प्रष्टुं स्पर्श कर्तुमिव । तथोच्छ्वास हेतुनादरकारणेन तं चन्द्रापीडं ज्योत्स्ना कौमुदी सैव जलं पानीयं तेन च सेक्तुं सिञ्चनं कर्तुमिव । उदयगिरिरुदयाचलस्तस्य शिखरं सानुमारूढ आरोहिते सति प्रौढे महति प्रदोष- समये यामिनीमुखक्षणे चन्द्रापीडस्तस्मिन्नेव पूर्वोक्त एव वल्लभोद्याने वल्लभाभिधाने वने । चन्द्रातपेति । चन्द्रातपस्य चन्द्रालोकस्य यः स्पर्शः संवन्धस्तेन दर्शितः प्रकटीकृतो विशदं निर्मलं यज्जलं तस्य लवोंऽशस्तस्यो- द्भेदः प्राकट्यं तेन हारिणि मनोहर एवं विधे चन्द्रमणेश्चन्द्रकान्तरत्नस्य शिलातलेऽङ्गानि हस्तपादादीनि विमुच्य संस्थाप्य । एतेन गात्रस्यातिशैथिल्यं सूचितम् | चरणस्य संवाहनं मर्दनं तस्मिन्नुपसृतं समीपागतं केयूरकम- वादीदववीत् । हे केयूरक, किं समाकलयस्याकलनां करोषि । यावत् यावता कालेन वयं परापतामस्तत्र गच्छामस्तावत्कालं देवी कादम्बरी प्राणानसून्धारयिष्यति प्राणवारणां करिष्यति । अथवा तां कादम्बरी विनोद - यितुं मदलेखा पारयिष्यति समर्था भविष्यति । वेति विकल्पार्थे । महाश्वेता पुनद्वितीयवारं तस्याः कादम्बर्याः समाश्वासनायाश्वासनां कर्तुमागमिष्यति यास्यति न वा । भदिति । मया सार्ध यः परिचयः परिचितिस्तेनोद्वे- जिता उद्विग्ना तयोर्महाश्वेतामदलेखयोरभ्यर्थनां प्रार्थनां शरीरस्थितये देहधारणाय प्रतिपत्स्यते न वाङ्गीकरि- ETA I Tr पि T