उत्तरभागः । ४५१ सहस्रेणानिर्वाप्यश्मशानाग्निना सर्वदोपाश्रयेणाशरीरव्याधिना रूपापहारिणा काण्डव्यान मर्मभेदिनाली कधनुर्धरेण सद्य:प्राणापहारक्षमेणाकालमृत्युनानिरूपित्तस्थानास्थानप्रवर्तिना परापकारकृतार्थेन हृदयवासिनापरप्रत्ययेन स्वयोनिना कामेन दुरात्मनायास्यमानं देवीशरी- रमुपेक्षितम् । किमिति तन्त्रस्थस्यैव मे कर्णे नावेदितम् । अधुना श्रुत्वापि दिवसक्रमगम्येऽध्वनि किं करोमि । मलयानिलाहतलताकुसुमपातस्याव्यसहं देवीशरीरम् | वज्रसारकठिनहँदयैर- स्मद्विधैरपि दुर्विषहाः स्मरेषवः । न ज्ञायते निमेषैमात्रेणैव किं वा भवतीति । प्रायेण च देव्याप्य- नुभवनीय एवायमर्थः । यथा चास्य दुःखैकदानव्यसनिनो दुर्घटघटनापण्डितस्य यत्किंचन- कारिणो निष्कारणकु पितस्य हतविधेः सर्वतो विसंस्थुलं समारम्भं पश्यामि, तथा जानामि नै - तीवता स्थास्यतीति । अन्यथा क निष्प्रयोजनाँश्वमुखानुसरणेनामानुषभूमिगमनम्, क च तत्र तृषितस्याच्छोददर्शनम्, व तंत्र तीरे विश्रान्तस्यामानुषगीतध्वनेराकर्णनम्, क तज्जिज्ञासा- के लि 1 1 । मातङ्गेन । भस्मीति । भस्मीकृतमपर्यवसानमनन्तं प्राणिसहस्रं येन स तेन । अनीति | अनिर्वाप्यम- विध्मातं यच्छ्रशानं पितृवेश्म तस्याग्निरिवाग्निस्तेन । सर्वेति । सर्वदोपाणां समवूपणानामाश्रयेणाधारभूतेन । अशरीरेति । न विद्यते शरीरं यस्मिन्नेवंभूतो व्याधिरामयस्तेन | रूपेति । रूपं सौन्दर्यमपहरतीयेवं- शीलेन रूपापहारिणा । काण्डेति । काण्डेन वाणेन व्यधतीति काण्डव्याधस्तेन | मर्मेति । मर्मभेदिनावेध्य- स्थलघातकेन | अलीकेति | अलीको मिथ्या धनुर्धरो धनुष्मांस्तेन । सद्य इति । सव्यस्तत्कालं यः प्राणापहारोऽनुग्रहणं तत्र क्षमेण समर्थेन । अकालेति । अकालेनाप्रस्तावेन मृत्युना मरणेन । अनिरूपितेति । अनिरूपितेऽदर्शिते ये स्थानास्थाने योग्यायोग्यस्थले तत्र प्रदर्तिना प्रवर्तनशीलेन | परेति । परस्य योऽप- कारोऽपकृतिस्तेन कृतार्थेन कृतकृत्येन | हृदयेति । हृदये चिते वसतीत्येवंशीलेन । अपरेति । अपरस्मि- शत्रावपि प्रत्ययो विश्वासो यस्य स तेन । स्वयोनिनात्मयोनिना | किमितीति । तत्रस्थस्यैव हेमकूटस्थ- स्यैव मे मम कर्णे श्रोत्रे । जात्यैकवचनम् । किमिति केन हेतुना नावेदितं न कथितम् । अधुनेति । सांप्रतं श्रुला- प्याकण्यपि दिवसानां वासराणां क्रमः परिपाटी तेन गम्ये गन्तुं योग्येऽध्वनि मार्गेऽहं किं करोमि । न किमपि कर्तुं समर्थ इत्यर्थः । मलयेति । मलयानिलेन गलयवायुनाहतं ताडितं यत्रताकुसुमं तस्य यः पातः पतनं तस्याप्यसहं सोडुमसमर्थ देव्याः कादम्वर्याः शरीरं देहम् | लता पुष्पपातेनापि ग्लानिं प्राप्नोतीत्यर्थः । वज्रेति । वज्रं हीरकस्तस्य सारो मध्यं तद्वत्कटिनं हृदयं चेतो येपामेवंविधैरपि स्मरेपवः कंदर्पवाणा दुर्विपहा दुःखेन सोढुं शक्या इति न ज्ञायते नाववुध्यते । इतीति किम् । निमेपभात्रेणैव निमीलनमात्रेणैव किं भवति किं जायते । प्रायेणेति । प्रायेण वाहुल्येन देव्यापि कादम्बर्याप्ययमर्थो दुःखलक्षणोऽनुभवनीय एवानुभ- वविषयीकरणीय एव । तथा चेति । दुःखस्यैकम द्वितीयं दानं तत्र व्यसनमासक्तिर्विद्यते यस्य स तस्य । दुर्घटेति । दुःखेन घटितुं योग्या दुवंटा । एवंविधा या घटना पदार्थानामन्योन्यं संबन्धस्तत्र पण्डितस्य विद्यु- धस्य । यत्कच यदेव तदे करोतीत्येवंशीलस्य किंचनकारिणः निष्कारणं निर्निमित्तं कपितस्य को
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४८
दिखावट