पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४९ तथा मूर्च्छानिमीलितश्च तामेवानुध्यायन्निव ससंभ्रमप्रतिपन्नशरीरेण केयूरकेण संभावितता- लवृन्तया च पत्रलेखयार्नुभाव्यार्थसजया च नियत्या संज्ञां लम्भितश्चन्द्रापीड: स्वकृतपीडापरा- धेन भीतमिव लज्जित मिव विलक्षमिव निभृतस्थितं केयूरक मन्तर्वाष्पोपरुथ्यमानकण्ठः कैथमपि स्खलिताक्षरं प्रत्युवाच – 'केयूरक' येन प्रकारेणैवमेकान्तनिष्ठुरहृदयमात्मन्यनुत्पन्नरोगमेव मां संभाव्य देव्या कादस्वर्या दूरीकृत पुनर्मदागमनसंभावनया न त्वमागमनायादिष्टः, न संदिष्टं वा किंचिन्महाश्वेतया समुपहतानुवन्धया मदलेखया वा त्वन्मुखेन नोपालब्धोऽस्मि । तथा मयि पत्रलेखया सर्वमाख्यातम्, तदभिजाततया महानुभावत्वादुदारतया समानशीलतया दक्षिणतया चैकान्तपेशलतया च स्वभावस्यात्मानमात्मना न कलयति देवी कादम्बरी । चन्द्रमूर्तेरीलोकेनैव निश्चेतनस्य चन्द्रकान्ताख्यस्य पापाणखण्डस्यार्द्रभावोपगमनमेवायत्तम्, न पुनरतत्कराकर्षणम् । नितरां पक्षपातिनोऽपि च मधुकरस्याभिगमनमेवाधीनम् । मकरन्द - लाभे तु कलिकाश्रयणी जम्मैव प्रभवति । दिवससंतापक्कान्तेन चोन्मुखता कुमुदाकरेण करणीया विकासयति पुनस्तम् । ज्योत्स्नाभिरामा रजन्येव निर्भरमन्तःसरसतायां सत्या- 4 उत्तरभागः | तथेति । तेन प्रकारेण मूर्च्छानिमीलितो मौढ्येन मुद्रितश्च तामेव कादम्बरीमेवानुध्यायन्स्मरन्निव सह संभ्रमेण त्वरया प्रतिपन्नं वितं स्वीकृतं शरीरं यस्यैवंभूतेन केयूरकेण संभावितं संगृहीतं तालवृन्तं व्यजनं ययैवंभूतया पत्रलेखयानुभाव्यो योऽर्थतन्त्र सज्जया समर्थया च नियत्यादृष्टविशेषेण संज्ञां चेतनां लम्भितः प्रापितश्चन्द्रापीडः स्वयं कृता या पीडा तस्या अपराध आगस्तेन भीतमिव त्रस्तमिव, लज्जितमिव त्रपितमिव, विलक्षमिव वीक्ष्यापन्नमिव निभृतस्थितं निश्चलस्थितं केयूरकमन्तर्वाप्पेणोपरुध्यमानः कण्ठो यस्यैवंविधश्चन्द्रा- पीडः कथमपि महता कष्टेन स्खलिताक्षरं यथा स्यात्तथा प्रत्युवाच प्रोचिवान् । किमुवाचेयाह -- केयूरक इति । हे केयूरक, येन प्रकारेणैवमेकान्तेन निष्ठुरं कटिनं हृदयं चेतो यस्यैवंविधमात्मनि कादम्बरीविषयेऽनु त्पन्नरागमजनितस्नेहं मामेव संभाव्य ज्ञात्वा देव्या कादम्वर्या दूरीकृतः पुनर्द्वितीयवारं यन्मदागमनं तस्य संभा- वना तया त्वभागमनाय नादिष्टो न कथितः । तथा महाश्वेतया किंचिन्न संदिष्टं न कथितम् । कीदृशया | स मुपहृतो दूरीकृतोऽनुबन्धोऽत्याग्रहो यया सैवंविधया | मदलेखया वा त्वन्मुखेन त्वदाननेन नोपालव्धोऽस्मि नोपालम्भं प्रापितोऽस्मि । तथा मयीति | मद्विषयकं सर्व पत्रलेखयाख्यातं कथितम् । तदिति । तत्पूर्वोत्तम भिजाततया कुलीनतया महाननुभावो माहात्म्यं यस्यारतस्या भावस्तत्त्वं तस्मादुदारतया रूपानुगुणत्वेन समानं शीलं स्वभावो यस्यारतस्या भावरतत्ता तथा दक्षिणतया सरलतया | 'दक्षिणे सरलोदारौ' इत्यमरः । स्वभावस्य प्रकृतेरेकान्तेन निश्चयेन पेशलतया हृद्यतया | अत्रात्मशब्दः खरूपवाची | तेनात्मानं स्वरूपं देवी कादम्वर्यात्मना स्वेनैव न कलयति न जानाति । यादृशं भज्ञया भणितं वेश्ययावबुध्यते, न तादृशं कुलस्त्रियेति भावः । तदेव दर्शयन्पुनः प्रकारान्तरेणात्मदोपं दूरीकुर्वन्नाह – चन्द्रेति । चन्द्रमूर्तः शशाङ्कविम्बयालोके- नैव प्रकाशेनैव निश्चेतनस्य चेतना हितस्य चन्द्रकान्ताख्यस्य शशि ण्याभिधानस्य पाषाणखण्डस्य दृषच्छ- 1