पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । , कृतार्थतामेति । ग्रीष्मलक्ष्मीरिवानुदिनमैतिक्षामा श्यामा भवति । सर्वथा तस्याः कंदर्पवेदन- याङ्गानि, दिवसैर्जीवितसंधारणवस्तुनि वलयरचनया गृहकमलिनीमृणालानि, उपदेशै: सखीजनवचनानि, शय्यापरिकल्पनेनो पवनकुसुमानि, अनवरतमोक्षण मदनायुधानि निःशेपं क्षीणानि । किंबहुना संप्रति तस्यास्त्वन्नामा सर्वसखीजन:, त्वत्संवद्धानि सर्वरहस्यानि, त्वत्समागमोपायान्वेपिण: सर्वसमवाया:, त्वद्वार्तोर्पलम्भनपराः सर्वप्रश्नाः, त्वद्वृत्तान्तमुखरः परिजन: त्वदालापनिर्मिताः सर्वविनोदाः, त्वदाकारमयश्चित्रकलाभ्यासः, त्वदुपालम्भगर्भा मागधीमङ्गलगीतयः, त्वदर्शनपुनरुक्ताः स्वप्नाः, त्वत्परिहासप्राया मदनज्वरदाहविप्रलापाः, त्वन्नामग्रहणैकोपायगम्यप्रबोधा मोहमहावेगाः, इत्यावेदयन्तं च केयूरकम् भवतु | संप्रति न शक्नोम्यतः परं श्रोतुम्' इत्या मीलनदत्तसंज्ञेव कादम्बरीव्यथा श्रवण वेदना संभवानुकम्पथेव चन्द्रापीमाक्रमन्ती मूर्च्छा न्यवारयत्, न तु पुनरवस्थानिवेदन परिसमाप्तिः । 9 ४४८ । वेति । खप्ने निद्रावस्थायां समागमो मेलापस्तेनापि कृतार्थतां कृतकृत्यतामेति गच्छति । केव | उपेव । यथोषा वाणसुता स्वप्नदशायां प्रद्युम्नसमागमे कृतार्था जाता तथेयमपीयर्थः । ग्रीष्मेति । ग्रीष्मलक्ष्मीरिव निदाघश्रीरिवानुदिनं प्रतिदिनमतिक्षामातिकृशा श्यामा कृष्णा भवति जायते । पक्षेऽतिक्षामा श्यामा रात्रिर्य- स्यामिति समासः । 'रजनीव मतिः श्यामा' इत्यभिधानचिन्तामणिः । सर्वथेति । सर्वप्रकारेण तस्याः कादम्वर्याः कंदर्पंवेदनया कामव्यथयाङ्गानि हरखपादादीनि । दिवसैरिति बहुवचनं बहुत्वोपलक्षकम् । बहु- भिर्वासरैर्जीवितस्य प्राणितस्य संधारणवस्तूनि प्राणाधारभूताः पदार्था निःशेषमयन्तं क्षीणानि स्तोकानि जा- तानीत्यर्थः । तदेव दर्शयन्नाह – वलयेति । दाघज्वरोपशमार्थं वलयानां कटकानां रचना निर्माणं तया गृहकमलिन्याः सदननलिन्या मृणालानि बिसानि । उपदेशैरिति । उपदेशैरुपदेश: शिक्षा तस्य प्रदानैः सखीजनस्यालीजनस्य वचनानि । शय्येति । शय्यायाः शयनीयस्य परिकल्पनेन विरचनेनोपवनकुसुमानि | अनवरतं निरन्तरं मोक्षेण मोचनेन मदनायुधानि कंदर्पशस्त्राणि । किं बहुनेति । किं बहु वक्तव्येनेत्यर्थः । संप्रतीति । संप्रतीदानीं तस्याः कादम्बर्याः | तवैव नाम विद्यते यस्य स त्वन्नामा | एवंविधः सर्वसखीजनो वयस्याजनः । त्वदिति । त्वय्येव संबद्धानि लनानि सर्वरहस्यानि सर्वगुह्यानि | त्वदितरसमागमो मेला- पस्तस्योपायः कारणं तमन्वेषयन्तीत्येवंशीला अन्वेषिणः सर्वसमवायाः समग्रजनसमूहाः | तव वार्तं कुशलं तस्योपलम्भनमुपलब्धिस्तस्मिन्परास्तत्पराः सर्वप्रश्नाः सर्वाण्यनुयोजनानि | त्वदिति । तव वृत्तान्तः प्रवृत्ति स्तत्र मुखरो वाचाल एवंविधः परिजनः परिच्छदः । त्वदिति । तव आलापः संभाषस्तेन निर्मिता रचिताः सर्वविनोदाः समग्रक्रीडाविलासाः । त्वदिति | तवाकार आकृदिस्तेन निष्पन्नस्त्वदाकारमयश्चि त्रकलाया आलेख्य विज्ञानस्याभ्यासः पुनः पुनर्वारंवारम् | त्वदिति । तवोपालम्भो गर्ने मध्ये यासां ता मागधीनां मङ्गलपाठिकानां मङ्गलगीतयः कल्याणार्थंगानानि | त्वदिति | त्वदर्शनेन त्वदवलोकनेन पुनरुक्ताः पुनर्भाषिताः स्वाप्नाः । तव परिहासप्राया उपहाससदृशा मदनज्वरदाहान्विप्रलापा विरुद्धोक्तयः । 'विप्रलापो २