उत्तरभागः । णिकुट्टिमतलेषु दृश्यते | नलिनीव शशिकरस्पर्शेन म्लायति । इसीव सरसमृणालिकाहार- व्यतिकरेण जीवति । शरदिव कुमुदकुंवलयसंपर्कमनोहरगन्धवहा सकुसुमबाणा च विजू म्भते । चन्द्रमूर्तिरिव कमलप्रकरस्खलितपादपल्लवा संचरन्ती निशां नयति । कुमुदिनीव रजनिकर किरणकृतजागरा दिवसमलीकनिद्रयातिवायति । मुररिपुजलशयनलीलेव मन्दो- च्छ्रसितशेषा निमीलितलोचना किमपि चिन्तयति । मलयनिम्नगेव सरसह रिचन्दन किसल- यलाञ्छितेषु शिलात लेष्वभिपतति । कुन्दकलिकेव तुषारसिक्तपल्लववर्तिनी वनानिलेनाया- स्यते । भुजंगीवासह्य संतापालिङ्गितचन्दैना शिर्खिकुलकोलाहलेन ताम्यति । हरिणीव केसरि- काननं परिहरति । कुसुमघटितशिलीमुखमनोहरान्मदनचापादिव प्रमदवनात्रस्यति । जान- कीव पीतरक्तेभ्यो रजनिचरेभ्य ईव चम्पकाशोकेभ्यो बिभेति । उपेव स्वप्नसमागमेनापि । ४४७ । 1 चलते । एतेनोभयोः साधर्म्यमाविष्कृतमिति भावः । प्रतीति । स्फटिकोपलश्च सलिलं च मणिदर्पणश्च मणि- कुमितलानि च तेषु प्रतिच्छायेव प्रतिबिम्बमिव दृश्यते । जनैरिति शेपः । नलिनीति । शशिकराश्चन्द्र- करास्तेषां स्पर्धेः संयोगविशेषस्तेन नलिनीव म्लायति म्लानिं प्राप्नोति । नलिन्याः सूर्यविकासित्वेन, अस्याश्च विरहव्याकुलितचित्तत्वेन च शशिकरस्पर्शादेव म्लानिरिति भावः । हंसीवेति । सरसा रसोपयुक्ता या मृणालिन्यः कमलिन्यस्तासां हारा मुक्ताप्रालम्बास्तेषां व्यतिकरेण संवन्धेन हंसीव वरटेव जीवति प्राणि- ति । हंसीपक्षे मृणालिकाया आहारो भोजनं तेन प्राणवृत्तिं करोतीत्यर्थः । शरदिवेति । कुमुदं वेतकमलं सूर्यविकासि कुवलयं चन्द्रविकासि, एतेषां संपर्क: संवन्धस्तस्माद्यो मनोहरगन्धस्तं वहतीति वहा । सकुसुमबाणा चेति । सह कुसुमेन पुष्पेण वर्तमाना वाणा वृक्षविशेषा यस्या यस्यां वा । एवंविधा सती शरदिव घनात्यय इव सा विजृम्भते । इतस्ततः प्रसरतीत्यर्थः । चन्द्रमूर्तिरिति । कमलानां नलिनानां प्रकरः समूहस्तस्मिन्स्खलिताः स्खलनां प्राप्ताः पादा अजयः किरणा वा त एव पहवा यस्याः सैवंविधा चन्द्रमूर्तिरिव संचरन्ती व्रजन्ती निशां नयति । रात्रिं गमयतीत्यर्थः । कुमुदिनीति | रजनिकरस्तस्य किर- णैरंशुभिः कृतो विहितो जागरो जागरणं यस्याः सैवंविधा कुमुदिनीव कैरविणीवालीकनिद्रया दिवसमति- वाहयति । गमयतीत्यर्थः । अन्नालीकनिद्रत्वं नेत्रकुमुदिन्योर्निद्राभावेन संकोचमात्रापेक्षया मन्तव्यम् । सुररिपुरिति । मुररिपुः कृष्णस्तस्य जलशयनलीलेव मन्दं मन्दमुच्छ्रसितमेव शेपो यस्याः सा कादम्बरी किमप्यनिर्वचनीयस्वरूपं चिन्तयति ध्यायति । जलशयनलीलापक्षे मन्दं मन्दमुच्छ्वासित उच्छ्वासं प्राप्तः । संजातोच्छ्वास इति यावत् । शेषः शेषनागो यस्यां सा तथेत्यर्थः । मलयेति । मलयनिम्नगेव दक्षिणाचल- ,
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४४
दिखावट