पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ कादम्बरी । मा इव | शशिमणिदर्पणेषु विस्फुरितानेकप्रतिविम्बनिभेन शतधेव विदलति । कुसुमशयनेषु परिमललालसागतालिमालाकुलिता धूमायत इव | अमलकमलस्त्रस्तरेषु कि जल्करजःपुअपि- अरिता उँचलतीव । स्वेदप्रतीकारेपु विशदपूरक्षोदलीधवलिता भस्मीभवतीव । न विज्ञा- यते किं मुग्धतया, किं विलासेन, किमुम्मादेन, संगीतमृदङ्गध्वनितेषु केकाशङ्कया धारागृह- मरकतमणिमयूरमुखानि स्थगयति । दिवसावसानेषु विश्लेषभीता मृणालसूत्रैश्चित्रभित्तिवि- लिखितानि चक्रवाक मिथुनानि संघटयति । चिन्तारतारम्भेषु मणिप्रदीपानवतंसोत्पलैस्ताड - यति । उत्कण्ठालेखेपु संकल्पसमागमाभिज्ञानानि लिखति । दूतीसंप्रेषणेपु स्वप्नापराधोपाल- म्भान्संदिशति | अपि च तस्याश्चन्दनपरिमल इव दक्षिणानिलेन सह समागच्छति मोहः | चक्राह्नशाप इव निशया सहापतति प्रजागरत्रासः । प्रतिरुतानीव वलभीकपोतकूजितैः सहा- विर्भवन्ति दुःखानि । मधुकर इवोपवनकुसुमामोदेन सहोपसर्पति मरणाभिलाषः । तथा च जलकणिकेव पद्मिनीपलाशस्थिता कम्पते । प्रतिच्छायेव स्फटिकोपलसलिलमणिदर्पणम- । बेणिका प्रवाहस्तां वह॒तीत्येवंशीला सती विलीयत इव द्रवीभवतीव | शशीति | शशिमणिदर्पणेषु चन्द्रका- न्तादर्शेषु विस्फुरितानि चमकितान्यनेकप्रतिबिम्वानि तेषां निभेन मिषेण शतथा शतप्रकारेण विदलती व खण्डीभवतीव | कुसुमशयनेष्विति । कुसुमशयनेषु पुष्पशयनीयेषु परिमले लालसा लम्पटा यागतालि- माला भमरपङ्किस्तयाकुलिताकुलीकृता सती धूमायत इव धूमवदाचरतीव | अमलेति । अमलानि निर्मलानि यानि कमलानि नलिनानि तेषां स्रस्तरेषु संस्तारकेषु किञ्जकं केसरं तस्य रजःपुजः कणि- कानिकरस्तेन पिञ्जरिता पीतरक्तीकृता सती ज्वलतीवोद्भुषतीव | स्वेदेति । स्खेदो घर्मस्तस्य प्रतीकाराः प्रति- क्रियास्तेषु विशदः शुचिर्यः कर्पूरक्षोदो हिमवालुकाचूर्ण तस्य धूली रजस्तथा धवलिता शुश्रीकृता सती भस्मीम वतीव भूतिभावं भजतीव । नेति । न विज्ञायते नावबुध्यते । मयेति शेषः । किं तदित्याह – किमिति । किं मुग्वतयाप्रगल्भतया, किंवा विलासेन विभ्रमेण, किंवोन्मादेन चित्तविठवेन, संगीतार्थ यानि मृदङ्गध्वनितानि मुरजशब्दितानि तेषु केका मयूरवाण्यस्तासां शङ्कयारेकया धारागृहे यन्त्रगृहे मरकतमणिर्नालमणिस्तेन निर्मि- तानि मयूरमुखानि शिखण्डि वदनानि स्थगयत्याच्छादयति । दिवसेति । दिवसावसानेषु वासरप्रान्तेषु । वहु- दिवसापेक्षं चैतत् । अन्यथै कदिवसस्यैकमे वावसानं स्यात् । विश्लेषभीता वियोगभीता मृणालसूत्रैस्तन्तुलतन्तुभि- चित्रभित्तावालेख्योपलक्षितकुड्ये विलिखितानि चित्रितानि यानि चक्रवाक मिथुनानि द्वन्द्वचरद्वन्द्वानि संघट यति संयोजयति । चिन्तेति | चिन्तया संकल्पमात्रेण ये रतारम्भा मैथुनारम्भास्तेषु मणिप्रदीपारत्न- गृहमणीनवतंसः शेखरस्तस्योत्पलानि कुवलयानि तैस्ताउयति ताडनां करोति । उत्कण्ठेति । उत्कण्ठ- योत्कलिकया ये लेखा: पत्राणि तेषु संकल्पेन कल्पनामात्रेण ये समागमा भेलापास्तेषामभिज्ञानानि मनःप्रत्यायकचिह्नानि लिखति लिपीकरोति । दूतीति । दूलः संचारिकास्तासां संप्रेषणेषु खप्ने स्वप्नावस्थायामपराव आगरतस्योपालम्भा उपालम्भा इति लोकप्रसिद्धास्तान्संदिशति कथयति । अपि चेति In -