उत्तरभागः | ४४५ १ न्तिभिर्विद्वेवोद्यान केतकी सूचिभिरुद्भूतवेदना भवति । एवंप्रायैश्च मदनदुश्चेष्टितायासैः परि णाममुपैति दिवसः । चन्द्रोदये चास्यास्तिमिरमयीवापैति वृतिः, कमलमयमिव दूयते हृदयम्, कुमुदमय इव विजृम्भते मकरकेतनः, चन्द्रकान्तमयमिव प्रक्षरति नयनयुगलम्, उदधिजल- मयानीव प्रेवर्धन्ते श्वसितानि, चक्रवाकमया इव विघटन्ते मनोरथाः, शीतज्वरातुरेव मणि- कुट्टिमोदरसंक्रान्तस्य तुषारकिरणमण्डलस्योपरि वेपथुलुलिततरलाङ्गुलीनिकरं करयुगलं प्रसा- रयन्ती शैशिसंतापमनक्षरं कथयति । सीत्कारेषु दशनांशुव्याजेन मन्मथशरजर्जरितहृदय- प्रविष्टानिन्दु किरणानिवोद्भिरति । वेपथुषु व्यजनीकृत कदलीदलकम्पोपदेशमिव गृह्णाति । विजृम्भिकासु कण्ठागतजीवित निर्गममार्गमिवोपदिशति । गोत्रस्खलितविलक्षस्मितेषु हृत्य - निपतितमदनशरपुष्परज इव वमति | बाष्पमोक्षेपु स्थूला नुसंतानवेणिका वाहिनी विलीयत गण्डः कपोलात्परप्रदेशस्तेन परिभूता न्यकृता गर्भपत्रकान्तिर्मध्यदलरुग्यैरेवंविधैरुद्यानस्य केतक्यस्तासां सूचयत्रिपत्रकरूपाः | 'त्रिपत्रकः सूचिरभिधीयते' इति वैजयन्तीकारः । अग्राणि वा । तैकिंव भिन्नेवो- द्भुतवेदना प्रादुर्भूतपीडा भवति जायत एव । एवमिति । एवंप्रायैरेवंप्रकारैमैदनस्य कंदर्पस्य दुश्चेष्टि- तानि दुर्विलसितानि तेषामायासैः प्रयासैः परिणामं परिपक्कताम् । अवसानमिति यावत् । दिव- सो वासर उपैति गच्छति । चन्द्रोदये चेति । च पुनरर्थे । चन्द्रोदये शशाङ्कोदयेऽस्याः काद- म्वर्या धृतिः संतोषः । ‘वृति: स्थैर्यम्' इति भूपालः | अपैति गच्छति । अतएवोत्प्रेक्षते -तिमिरमयीव तिमिरात्मकेव । तिमिरस्य चन्द्रोदये नाशात्तत्साम्यं भृतेः । कमलेति । हृदयं मानसं दूयते संकुचितं भवति । अतएवोत्प्रेक्षते - कमलमयमिव पद्मघटितमिव | कमलानामेव चन्द्रोदये संकोचसंभवादयस्य तत्तुल्यता | कुमुदेति | मकरकेतनः कंदर्पो विजृम्भते प्रफुल्लो भवति । अतएव उत्प्रेक्षते -- कुमु- दमय इय कैरवात्मक इव | चन्द्रोदये कैरवाणामेव विजृम्भणात्तत्तुल्यता | चन्द्रकान्तेति | नयनयुगलं नेत्रयुग्मं प्रक्षरति । अश्रुपातं करोतीत्यर्थः । अतएवोत्प्रेक्षते - चन्द्रकान्तश्चन्द्रमणिस्तन्मयमिव तद्घटि- तमिव । चन्द्रोदये चन्द्रोपलस्यैव प्रक्षरणादिति भावः । उदधीति । श्वसितानि श्वासाः प्रवर्धन्ते । वाद्धं गच्छन्तीयर्थः । अत एवोत्प्रेक्षते - उदधिजलं समुद्रपानीयं तन्मयानीव तत्स्वरूपाणीव | चन्द्रोदय उदधि- जलस्यैव प्रवर्धनादिति भावः । चक्रवाकेति | मनोरथा अभिलाषा विघटन्ते वियुज्यन्ते । अत एवोत्प्रे- क्षते -- -- चक्रवाका रथाङ्गाहास्तन्मया इव तहटिता इव | शीतेति । शीतज्वरेणातुरां पीडितेव | मणिकु हिमस्य रत्नवद्धभूमेरुदरं मध्यं तत्र संक्रान्तस्य प्रतिविम्वितस्य तुषारकिरणश्चन्द्रस्तस्य मण्डलं विम्बं तस्यो- पर्युपरिष्टाद्वेपथुः कम्पस्तेन लुलितः कम्पितस्तरलो मनोहरोऽङ्गुलिनिकरः करशाखासमूहो यस्मिन्नेवंभूतं करयुगलं पाणियुग्मं प्रसारयन्ती विस्तारयन्ती । अनक्षरं यथा स्यात्तथा शशिसंतापं चन्द्रसंतापं कथयति । करकम्पनेनैव तन्निवेदनादिति भावः । सीत्कारेष्विति । सीत्कारेषु सीत्कृतेषु दशना दन्तास्तेषामंशवः जर्जर शिथिलीक स्व संक्रमि ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४२
दिखावट