सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४२९ तं च कादम्बर्या: स्नेहोक्तिपुरःसरम्, गम्भीरं च सतापं च, सपरिहासं च, साभ्यर्थनं च साभिमानं च, सावलेहं च, सप्रसादं च, सनिर्वेदं च, सानुरागं च, सकोपं च, सनि- विशेषं च, सावष्टम्भं च, सात्मार्पणं च, सोत्प्रासं च, सोपालम्भं च, सानुक्रोशं च, सस्पृहुं घ, सावधारणं च, मधुरमपि दुःश्रवम्, सरसमपि शोषहेतुम्, कोमलमपि कठोरम्, नम्रम- प्युन्नतम्, पेशलमध्यहंकृतम्, ललितमपि प्रौढमालापमार्केण्र्योत्प्रेक्ष्योत्प्रेक्ष्य च स्तिमितपक्ष्म- तया दुर्विषहदुःखबाष्पोपलतायताक्षं तम्मुखं स्वभावधीरप्रकृतिरपि नितरां पर्याकुलोऽभवत् । अथ कादम्बरीशरीरादिवालापपदैरेव सहागत्य युगपगृहीतो हृदये मन्युना कण्ठे जीविते- न, अधरपल्लवे वेपथुना, मुखे श्वसितेन, नासाने स्फुरितेन, चक्षुषि बाष्पेण तुल्यवृत्तिर्भूत्वा वत्सलत्वं हितकारित्वं यथा सा तस्याः । किं कुर्वता देवेन । दूरीकुर्वता यजता । काम् | देवीं कादम्बरीम् | की- दृशीम् । एषानन्तरोदितावस्था यस्याः सा ताम् | चन्द्रापीड इति । चन्द्रापीडस्तु पत्रलेखयोपालम्भ गर्भ- मुपालम्भो गर्भ मध्ये यत्र क्रियायां स्यात्तथा विज्ञप्तो नितरामत्यन्तं पर्याकुलो व्याकुलोऽभवदिति कि- यासंटङ्कः । किंलक्षणः । स्वभावेन निसर्गेण धीरा स्थिरा प्रकृतिः स्वभावो यस्यैवंविधोऽपि । किं कृत्वा । का . दम्वर्या देव्यास्तभालापमाकर्ण्य श्रुत्वा | किंलक्षणमालापम् | स्नेहोक्तिः स्नेहस्य प्रीतेरुक्तिः पुरःसरा मुख्या यत्र तम् | चेयपरम् । किं कृत्वा | स्तिमिते निश्चले पक्ष्मणी नेत्ररोमराजी ग्रयोस्तयोर्भावस्तत्ता तया दुर्वि- पहमसह्यं दुःखं तेन यो बाष्पोऽस्रं तेनोपडते व्याप्ते आयते विशाले अक्षिणी यस्य तत्तन्मुखं तस्याः पत्रले- खाया मुखमुत्प्रेक्ष्योत्प्रेक्ष्य दृष्ट्वा दृष्ट्वा | आदरार्थे वीप्सा | अथो आलापं विशेषयन्नाह – गम्भीरमित्यादि । अत्र सर्वत्र चकारो वाक्यालंकारार्थः । गम्भीरं महार्थम् | संतापं तापेन सहवर्तमानम् | संपरिहास परिहासेन सह वर्तमानम् | साभ्यर्थनमभ्यर्थना प्रार्थना तया सहवर्तमानम् | साभिमानं साहंकारम् | सावलेहमवलियत आम्बाद्यत इत्यवलेहो रसस्तेन सहवर्तमानम् | अवज्ञया सहवर्तमानं वा । प्रसादोऽनुग्रहः, गुणो वा, तेन सहव- र्तमानम् । निर्वेदः स्वायमाननं तेन सहवर्तमानम् | अनुरागो भक्तिस्तेन सहवर्तमानम् । कोपः क्रोधस्तेन सहव- तैमानम् । सनिर्विशेषं नितरां विशेष उत्कृष्ट विशेष विशेषस्तेन सहवर्तमानम् | सावष्टम्भमवष्टम्भः स्तब्धता तेन सहवर्तमानम्, सात्मार्पणं सहात्मार्पणेन वर्तते यः स तम् | सोत्प्रासं सहोत्प्रासेनोत्कण्ठया वर्तमानम् | सोपा- लम्भं सहोपालम्भेन वर्तमानम् | सानुक्रोशं सहानुक्रोशेनाकर्षेण वर्तमानम् | सस्पृहं सह स्पृहया वाञ्छ्या वर्त- मानम् | सावधारणं विमर्शपूर्वकं च | विरोधाभासेन तमेव विशेषयन्नाह - मधुरमित्यादि । अत्र सर्वत्रापि शब्दो विरोधाभासालंकारद्योतनार्थः । मधुरमपि मिष्टमपि । दुःखेन श्रूयत इति दुःश्रवमिति विरोधः | आभासस्तु शृङ्गाराद्युपयुक्तार्थप दत्वलक्षण माधुर्यस्य विवक्षणात् । सह रसेन वर्तमानमपि शोषस्य हेतुर्निदानमिति विरोधः । आभासस्तु सरसमिति | शृङ्गारादिरसोपयुक्तमित्यर्थात् । कोमलं मृदुमपि कठोर मिति विरोधः | आभासस्तु को- मलमनिष्ठुराक्षरत्वमित्यर्थात् । नम्रं नमनशीलमप्युनतमुच्चैस्तरमिति विरोधः | आभासस्तु नम्र पतत्त्रकर्षमित्य- र्थात् । पेशलं सुकुमारमम्यहंकृतमिति विरोध: । आभासस्तु हृद्यमित्यर्थात् । ललितं लध्वपि प्रौढं महदिति