पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३० कादम्बरी | कादम्बर्या: क्षरद्वाष्पविक्षेपपर्याकुलाक्षरमुचैः प्रत्युवाच – 'पत्रलेखे, किं करोमि । अनेन दु:- शिक्षितेन ज्ञानाभिमानिना पण्डितमन्येन दुर्विदग्धेन दुर्बुद्धिनालीकधीरेण स्वयंकृतं मिथ्या- विकल्पशतसहस्रभरितेनाश्रद्दधानेन मूढहृदयेन यद्यदेवानेक प्रकारं शृङ्गारनृत्ताचार्येण भगवता मनोभवेनान्तर्गत विकारावेदनाय मामुद्दिश्य बाला बलात्कार्यते, तत्तदेवादृष्टपूर्ववाद्धि दिव्य- कन्यकानां रूपानुरूपलीलासंभावनया च तावतो मैनोरथानध्यात्मन उपर्यसंभावना च सर्वं सहज मेवैतदस्या इति विकल्पसंशयदोलाधिरूढं मां ग्राहयतैवमीदृशस्य देव्या दुःखस्य तव चोपालम्भस्त्र हेतुतां नीतोऽस्मि । मन्ये च ममापेि मनोव्यामोहकारी कोऽपि शाप एवायम् । अन्यथाप्रबुद्धबुद्धेरपि येषु न संदेह उपपद्यते, तेपि स्फुटेषु मदनचिह्नेषु कथं मे वीर्व्यामु ह्येत । तिष्ठन्त्वेव तावदतिसूक्ष्मतया दुर्विभाववृत्तीनि तानि स्मितावलोकितकथितविहृत लीलाल- जायितानि, यान्यन्यथापि संभवन्ति । चिरानुभूतात्मकण्ठसंसर्गसुभगं हार मिममकृतपुण्यस्य । श्वसितेन निःश्वासेन मुख आनने । स्फुरितेन स्फुरणेन नासाग्रे नासिकान्ते | बाप्पेण रोदनेन चक्षुषि | जाता. वैकवचनम् । किमुवाचेत्याह-पत्रलेखे इति । हे पत्रलेखे, अहं किं करोमि । किंचित्कर्तुं न समर्थ इत्यर्थः । शृङ्गारथ नृत्तं च तयोरुज्ज्वलहक्चालनाद्य आचार्य उपदेष्टा तेन | शृङ्गारस्य नृत्याचार्येण रङ्गाचार्येणेति वा | भगो माहात्म्यमस्यास्तीति भगवांस्तेन । 'भगोऽर्कज्ञानमाहात्म्यवैराग्यादिषु' इति वैजयन्ती | मनोभवेन कामेन यद्यदनेकप्रकारं मन्युजीवितवेपशुश्वसितपरितापादिकं बाला योपितो मामुद्दिश्य मदुद्देशेन बलाढा कार्यते निष्पाद्यते । किमर्थमित्याह – अन्तरिति । अन्तर्गतो यो विकारस्तस्यावेदनं ज्ञापनं तस्मै | तादर्थ्य चतुर्थी | तत्तदनेन प्रत्यक्षेण मूढमज्ञानावृतं यद्धृदयं चित्तं तेन स्वयं कृतमात्मना विहितम् । न तु मयेत्यर्थः । इतो मूढहृदयं विशेषयनाह- दुःशिक्षितेनेत्यादि । दुर्दुष्टं शिक्षितमभ्यसितं यस्य तत्तथा तेन | ज्ञानेन ज्ञानविषयेऽभिमानोऽहंकारो विद्यते यस्य तत्तथा तेन । पण्डितमात्मानं मन्यते यत्तत्तथा तेन | दुर्दुष्टं विदग्धत्वं छेकत्वं यस्य तत्तथा तेन । दुर्दुष्टा बुद्धिः प्रतिभा यस्य तत्तथा तेन | अलीक्रेन मिथ्याभिमानेन धीरं साहसगुणोपेतं तेन मिथ्याविकल्पानामलीकमनोरथानां शतसहस्राणि लक्षास्तैर्भरितमाकीर्ण तेन । न श्रद्दधातीति शास्त्रोक्तं नावधारयतीत्यश्रद्दधानं तेन । कया | अदृष्टपूर्ववादनवलोकितपूर्वत्वाद्दिव्या मनोहरा याः कन्यकास्तासां रूपं सौ- न्दर्थं तस्यानुरूपा योग्या या लीला विलासस्तस्याः संभावनोत्कटकोटिकः संदेहस्तया । पुनः कया। आत्मनः स्वस्यो- पर्येषा मामिच्छत्येतादृशस्य मनोरथान प्यसंभावनया च । किं कुर्वता मूढहृदयेन | मामेवं ग्राहयता । ग्राहयति- द्विकर्मकः । एवं किम् । अस्याः कादम्वर्या एतत्परितापादिकं सर्वं सहजमेव स्वाभाविकमेव | किंलक्षणं माम् । विकल्पसंशययोर्दोलामधिरूढमाश्रितं तथा । तेनैवेति शेषः । मूढहृदयेनैवेदृशस्य पूर्ववर्णितस्य देव्या काद- म्वर्या दुःखस्य तवोपालम्भस्य च हेतुतां नीतः प्रापितोऽस्मि | सर्वं यदसम्यक्तन्मूढहृदयेनैव कृतम् | न मयेति भावः । विचारणान्तरं प्रदर्शयन्नाह - मन्य इति । अहमिति मन्ये संभावयामि । इतीति किम् । ममायं को- ऽप्यनिर्वचनीयो मनसश्चित्तस्य व्यामोहं वैचित्त्यं करोतीत्येवंशीलः शाप एव विरुद्धाशीर्वचनव । उक्तवैपरीत्ये आह -- अन्यथेति । शापाभावेऽप्रबुद्धाजाग्रद्रता वद्धः ति स्यैवंवि स्य मर्खयापीत्यर्थः । येष स्फ- ।