पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४२३ मधुकरकुले कल कोलाहलाकुलिते कोककामिनीकरुणकूजिते विरहिजनमनोदुःखे विकचद- लारविन्दनिस्यैन्दसुगन्धमन्दगन्धवाहा नन्दितदशदिशि प्रदोषसमये, विकसितकुसुमामोदमु कुलित मानिनीमानमहोन्मोचनहस्ते कुसुमायुधे, कर्पूर विशद करनि कर निर्भरावर्जितज्योत्स्नाज- लासारवर्षिणि चन्द्रमसि, दूरविक्षिप्त दल निवहकुमुदकानना मोदवासितदिगन्तायाः कुमुदि- न्यास्तटे, चन्द्रकरस्पर्शप्रवृत्तशशिमणिशिखर निर्झरझंकारिणि क्रीडापर्वतनितम्बके, हृद्यहरि - चन्दनरसकणिकाजालकच्छलेन तत्करतलस्पर्शसुख संभव खेदजलनिवहमिव वहति तत्काल - हारिणि मुक्ताशिलापट्टशयने, कुसुमामोदसुरभित दश दिशि तुषारकणविकरहोरिण्यपि बहिरेव देहुँदाहमालका हारिणि सर्वरमणीयानां संदोहभूते हिमगृहे कुसुमस्रस्तरावलम्बिनी वीक्षिता मरास्तेषां कुलानि सजातीयवृन्दानि तेषां कलो मनोज्ञो यः कोलाहलः कलकलस्तेनाकुलिते व्याप्ते । कोक इति । कोकाञ्चक्रवाकास्तेषां कामिन्यो योषितस्तासां करुणानि दीनानि कूजितानि विरुतानि यस्मिन् | की- दृशे कूजिते । विरहीति | विरहिण्यश्च विरहिणश्चैक शेषे विरहिणस्तेषां जनः समुदायः | विरहिणश्च ते ज- नाश्चेती वा । तेषां मनसि स्वान्त उत्पादितं दुःखं येन तस्मिन् | विकचेति । विकचानि विकस्वराणि द- लानि पत्राणि येषामेवंविधानि यान्यरविन्दानि कमलानि तेषां निस्यन्दो रसो यस्मिन्नेवंभूतः सुगन्धः सुपरि- मलो मन्दो मृदुर्यो गन्धवाहो वायुस्तेनानन्दिता वासिता दश दिशो यस्मिन् | सर्वाणीति | सर्वाणि सम ग्राणि यानि रमणीयानि मनोहराणि तेषां संदोहो दोहनं तस्माद्भुते निष्पन्ने तस्मिन् | पुनः कस्मिन्सति | कु- सुमायुधे कंदर्पे सति । कीदृशे | विकसितानां विनिद्राणां कुसुमानां पुष्पाणामामोदः परिमलस्तेन करणभूतेन मुकुलित एकीभूतो यो मानिनीनां मनस्विनीनां मानग्रहोऽहंकारग्रन्थिस्तस्योन्मोचनं दूरीकरणं तस्मिन्हस्त इव हस्तस्तस्मिन् । पुनः कस्सिन्सति । चन्द्रमसि शशिनि सति । कीदृशे । कर्पूरो हिमवालुका तद्वद्विशदो निर्मलो यः करनिकरः किरणसमूहस्तेन निर्भरं यथा स्यात्तथावर्जिता मुक्ता या ज्योत्स्ना चन्द्रिका सैव जलासारोऽम्भसां कणस्तं वर्षतीत्येवंशीलस्तस्मिन् । 'आसारोऽम्भसां कणः' इत्यभिधानाज्जलपदं पुनरुक्तम् । तच्चादोषाय शाब्दपु- नरुक्तित्वात् । तदुक्तं वृद्धक विभिः— 'द्विरदबृंहितकरिकलभाश्व हेषाकरकङ्कणकरिहस्तेत्यादौ पुनरुक्तेरदोषत्वम्' । कथंभूतायाः कुमुदिन्याः । दूरं विक्षिप्तो दलनिवहः पत्रसमूहो यैरेवंविधानि यानि कुमुदकाननानि कैरववना- नि तेषामामोदः परिमलस्तेन वासिताः सुगन्धं प्रापिता दिगन्ता यया सा तस्याः । पुनः कस्मिन्सति | क्रीडार्थं पर्वतः शैलस्तस्य नितम्बके कटके सति । 'मेखला मध्यभागोऽद्वेर्नितम्बः कटकश्च सः' इति हैमः । कीदृशे नितम्बे | चन्द्रराणां स्पर्शस्तेन प्रवृत्तः प्रवृद्धो यः शशिमणि शिखर निर्झरश्चन्द्रकान्त सानुझरस्तस्य झंकारो वि द्यते यस्मिन्स तथा तस्मिन् । कीदृशे मुक्ता शिलापट्टशयने । हृद्यं मनोहरं यद्धरिचन्दनं तस्य रसस्य कणिकाः सूक्ष्माः कणास्तासां जालकानि तेषां छलं मिषं तेन । तथ्य चन्द्रापीडस्य करस्तस्य नलस्तस्य स्पर्शस्तस्मात्सुखं सातं तस्मात्संभवः समुत्पत्तिर्यस्यैवंभूतो यः स्वेदजलनिवहस्तमिव वहतीति वहनं तत्तस्मिन् । एतेन सात्त्विक - भावः सूचितः । पुनः कीदृशे शिलापट्टके | तत्कालं सद्यो हरत्याकर्षति जनानां चेत इत्येवंशीलः स तथा i