४२४ कादम्बरी | 7 ममापि चापुनरुक्ततदर्शनस्पृहे ते एवैते लोचने, ययोरीलोकनपथमसौ यातः । तदेव चेदम- प्रतिपत्तिशून्यं हृतहृदयम्, येनान्तः प्रविष्टोऽपि न पारितो धारयितुम् । तदेव चैतच्छरीरम, येन तत्समीपे चिरमुदासीनेन स्थितम् | सएव चायं पाणिः, योड लीकगुरुजनापेक्षी नात्मानं परिग्राहितवान् । अनपेक्षितपरपीडश्चन्द्रापीडोऽपि स एव योऽत्र वारद्वयमागत्य प्रतिगतः । मय्येवोपक्षीणमार्गणया वाकिंचित्करोऽन्यत्र पञ्चशरोऽपि स एव, यस्त्वयावेदितो मे । प्रतिज्ञातं च मया महाश्वेतायाः- 'त्वयि दुःखितायां नाहमात्मनः पाणि ग्राहयिष्यामि' ईंति । तामहं पुनरव्यवदम् । सा तु ' देवि, मैवँ स्म मनसि करोः । कुमतिरियम् । अतिदा- रुणोऽयं पापकारी मकरकेतुः कदाचिददृश्यमाने प्रियजने जनितहृदयानुरागाज्जीवितमध्येप- हरति' इत्यब्रवीत् । तदपि नास्त्येव मे | मदनेन वा, दैवेन वा, विरहेण वा, यौवनेन वा, अनुरागेण वा, मदन वा, हृदयेन वा अनेन वा केनापि दत्त: संकल्पमयः कुमारो जनसंनि- यच्छीतलं तत्कथं दाहकमिति विरोधः | विरहित्वेन तत्परिहारः । अतएव विरोधाभासोऽलंकारः । ममापि च कादम्बर्या अप्यपुनरुक्ता प्रथमा तस्य चन्द्रापीडस्य दर्शनस्पृहावलोकनेच्छा ययोस्त एवैते लोचने नेत्रे । यत्तदोर्नित्याभिसंबन्धात् । ते के | ययोर्नेत्रयोरालोकनपथं विलोकमार्गमसौ चन्द्रापीडो यातः प्राप्तः। च पुनरर्थे । इदं प्रत्यक्षं तदेव हतहृदयं दैवेन हृतं ताडितं हृदयं चेतः । कीदृशाम् । अप्रतिपत्तिरज्ञानं तेन शून्यम् । तत्किम् । येन हृदयेनान्तः प्रविष्टोऽपि मध्यगतोऽपि धारयितुं ग्रहीतुं न पारितः । च पुनरर्थे । एतच्छरीरं तदेव तत्किम् | येन शरीरेण तत्समीपे चन्द्रापीडसंनिधौ चिरं बहुकालमुदासीनेन तटस्थेन स्थितम् । स एवायं पाणिर्हस्तः । स कः | योऽलीकोऽसत्यो गुरुजनो मातृपित्रादिस्तमपेक्षते इत्येवंशीलः स तथात्मानं संन परिग्राहितवान् | अनपेक्षिता परस्य अर्थान्मम पीडा येर्नैवं विधश्चन्द्रापीडोsपि स एव नान्यः । स कः | योऽत्र मरपार्श्वे वारद्वयं द्विवारमागत्यागमनं कृत्वा प्रतिगतो निवृत्तः । मध्येव मयि विषय एव । नान्यत्रेर्थः । उपक्षीणा नष्टा मार्गणा बाणा: शरा यस्य स उपक्षीणमार्गणस्तस्य भावस्तत्ता तथा । वाशब्द इवार्थे । तथा चोपक्षीणमार्गणतया इव | अन्यन्त्र चन्द्रापीडादौ न किंचिद्दुःखादिकं करोतीत्य किंचित्करः पञ्चशरोऽपि का मोऽपि स एव । स कः । यस्त्वया संख्या मे ममावेदितस्तत्स्वरूपज्ञापनपूर्वकं निवेदितः । महाश्वेताया मयेदं प्रतिज्ञातं च पुनरहं तां महाश्वेतामित्यवदमवादिषम् । इतीति किम् । तदेवाह – प्रतिज्ञात- मिति । अङ्गीकृतं च । तदेव दर्शयन्नाह -त्वयीति । त्वयि महाश्वेतायां दुःखिताया नाहं कादम्बर्यात्मनः स्वस्व पाणि करं ग्राहयिष्यामि । उद्वाहं न करिष्यामीत्यर्थः । सा तु महाश्वेतेत्यब्रवीत् । इतीति किम् | हे देवि, एवं मनसि चित्ते त्वं मा करोर्मा कार्षीः । 'गेऽटि' इयटो लोपः । तदकरणे हेतुं प्रदर्शयन्नाह - कुमतिरिति । कुत्सिता मतिः कुमतिरियं न सभ्यबुद्धिः । कथमित्याह - अतीति । अयं पापकार्यधर्मजनको मकरकेतुः कंदर्पोऽति दारुणोऽतितरां भीषणः कदाचिन्न सर्वदा दृश्यमानेऽवलोक्यमाने प्रियजने वल्लभजने जनितहृदयानुरागादुत्पा-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२१
दिखावट