पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४२१ पंति । स्वयमुपसर्पणलघुलाघवमेव तत्प्रतिपत्तिस्थैर्य नावलम्बते । बलात्तदानयनापराधभीता लक्षम् । अप्रतिसंधीयमानमिति यावत् | वैलक्ष्यम् | ‘लक्ष्यं वेध्ये च भावे च' इत्यभिवानाद्विविधभावभावो न पुरस्तिष्ठति । न पुरः स्थास्यतीत्यर्थः । तथा च कामविकारकीलिताया मे सहजचेष्टाविर्भावाभावात्तरल- तादीनामतिप्रावल्यादिति भावः । विकारपदं च सहज सिद्धस्नेहावलोकनन्यूनतां व्यक्ति | मनोभवपदं च कामवेदनाबाह्येन्द्रियाविषयत्वं व्यनक्ति | ज्ञानार्थप्रकृतिकवेदनापदेनाज्ञायमानदुःखध्वंसाभावं व्यनक्ति | अत्रापि भविष्यदर्थे लट् । यद्वा दर्शनफलमाह - मनोभवेति । वैलक्ष्यम दर्शनजनित कार्यपाण्डिमादि- वैलक्षण्यं तदेव पुरः । प्रथम मिति यावत् । न स्थास्यतीत्यर्थः । एतेन तस्य दुःसहतोक्ता । दुःसहत्वे हेतुगर्भ विशेषणमाह - मनोभवेति । उक्त एवार्थः । यद्वा संतापादिविकार वेदनास्थिरत्वेन निर्विण्णाह | वैलक्षण्यं संतापादिकृतं कार्यमोहादिकं न बहुकालं स्थास्यतीत्यर्थः | मध्ये स्वप्नसंकल्पसमागमेष्वाश्वासात् । अन्यथा तत्स्थैर्येऽल्पेनैव कालेन मरणसंभवात् । दुःख विमोकादिति भावः । एतदप्यकृतपुण्याया मे कुत इति निर्वेदध्वनिः । तदेव विशेषणद्वाराह – मनोभचेति । कंदर्पकृता विकाराः स्वप्नसंकल्पसमागमादयस्तत्कृता वेदना तथा समा- गमस्यास्थिरत्वेन पुनर्विरहदुःखानुसंधानं तेन विलक्षं मरणलक्षणविगमं प्राप्तमित्यर्थः । ननु गाढान्धकाराभिसर णशीलानां कामिनी चक्षुर्विषयाभावेऽपि लगिन्द्रियस्य स्पर्शः केन वा वारणीय इति मयोक्ते सैवमुत्तरितवती- त्याह -- अप्रतिपत्तीति । जडता स्पर्शजन्यः स्तम्भाख्यः सात्त्विकभावः स एव नोपसर्पति । न यास्यतीत्यर्थः । अत्रापि भविष्यदर्थे लट् । यथाकथंचित्त्वयानीतस्यापि गाढान्धकारे दर्शनायोग्यस्य त्वगिन्द्रियस्पर्शसुखानुभवे प्रथमस्पर्शजन्यजडताप्रतिबन्धेन चुम्बनायननुष्टाने स्पर्शस्य निष्फलत्वेन तत्रापि दैववैमुख्येन विरहज्वरोपशा- न्तिमलभमानायाः स्पर्शो वृथैव भविष्यतीति भावः । ननु शारीरा भावाः क्षणस्थायिनो भवन्ति, उत्पन्नापि जडता न स्थास्यतीत्यत आह - अप्रतिपत्तीति । अप्रतिपत्तिः स्पर्शो ज्ञानं साध्वसं भयं मा कदाचित्कश्चि- न्मा दर्शीति ताभ्यां जडाभावान्तरानुत्पादेन पदात्पदं दातुमसमर्था गाढान्धकारसंजात स्पर्शजायमानस्तम्भेन चुम्बनाद्यनुष्ठानेऽसामर्थ्यात्तथा क्रियमाणे दुःखानपगमादिति भावः । यद्वा जडता व्यभिचारिभावोऽपि दैवप्रा- तिकूल्यानापयास्यति । तत्र कारणमाह - अप्रतिपत्तिर्मोहः, साध्वसं भयम्, ताभ्यां जडा । स्थिरेत्यर्थः । तथा च जडतामोहभयव्यभिचारिणां शवलतयान्यापगम एव मया गन्तव्यमिति स्थिरेति भावः । यद्वा नास्ति प्रतिपत्तिर्ज्ञा- नं यस्यां साप्रतिपत्तिमूर्च्छा व्यभिचारिभावः । यावदेव त्वं तमानेष्यसि तावदेव मे मूर्च्छाभिभविष्यति । तदानय नसंभ्रमोत्थिताया मे मूर्च्छापगमानन्तरं यद्भयं बहुकालं स्थित्वा लोको ज्ञास्यतीति ताभ्यां जडा स्तब्धा । आवि- भवितुमशक्येति यावत् । जडता डलयोरैक्याज्जलता | स्वेदसात्त्विकभावो नाविर्भविष्यतीत्यर्थः । मूर्च्छाभ- याभ्यां स्थातुमसमर्थया त्वया मयैव सह कुतो नागम्यत इति मयोदिते सैवमा हेत्याह– स्वयमिति | स्वयमु- पसर्पणं तदननुमत्या स्वयं गमनं तेन लघुलाघवमेव तुच्छलाघवमेव तत्प्रतिपत्तिस्त्वयैवागन्तव्यमित्युपदेशज्ञानं तत्स्थैर्य तत्स्थिरतां नावलम्बते | नावलम्बनं करोतीत्यर्थः । अन्यत्र ज्ञानस्य त्रिक्षणावस्थायित्वेऽपि युक्त्यनु- पष्टम्भोपहितमिदं ज्ञानं क्षणमात्रमपि न तिष्ठतीति भावः । स्त्रीणां स्वयमुपसर्पणं लघुतापादकं नितरामननुमत्या कृतं नितरां राजकन्यानाम् । किंचैवमत्सुक्यातिरेकेण कृतेऽपि तेनापि मदीयां निःसारतामाकलय