पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 पूर्वभागः | ४१५ मिति सौभाग्यगर्व:, स्वयमागच्छामीति स्त्रीचापलम्, अनन्यरक्तोऽयं परिजन इति स्वभक्ति- निवेदैनलाघवम्, प्रत्याख्यानशङ्कया न संदिशामीयैप्रबुद्धबोधनम्, अनपेक्षितानुजीवितदुः- खदारुणा स्यामित्यतिप्रणयिता, ज्ञास्यसि मरणेन प्रीतिमित्यसंभाव्यम्' इति । न । अस्य स्वसौभाग्यगर्वरूपलात् । स्वयमागच्छामि । इत्यपि न | स्त्रीचापलत्वात् । अनन्येति । अयं प्रत्य- क्षोपलम्यमानः परिजन: सेवकजनोऽनन्यरक्तस्त्वय्येवानुरक्तः । इत्यपि न । स्वयं स्वभक्तिनिवेदनस्य लाघव- त्वात् । प्रत्याख्यानेति । प्रत्याख्यानं निराकरणं तस्य शङ्कयारेकया संदिशामि न संदेशप्रेषणं करोमि । इत्यपि न । इदं हि प्रसुप्तसिंहोत्थापनवदप्रबुद्धबोधनम् | अज्ञातज्ञापन मित्यर्थः । अनेति । अनपेक्षितमसमी- हितं त्वद्मनानन्तरमनुजीवितं यस्मिन्नेतादृशं यद्दुःखं तेन दारुणा भीषणाहं स्याम् । इत्यपि न । इयं ह्यतिप्र- पयितात्युत्कटस्नेहवत्ता । ज्ञास्यसीति । मरणेन मृत्युना त्वं प्रीतिं ज्ञास्यसि । अग्रेऽवबोधो भविष्यति । इत्यपि न । इदं हि असंभाव्यम् । तद्व्यतिरेकेणापि प्रीतेर्ज्ञायमानत्वादिति ॥ इति श्रीमत्तपोगणगगनाङ्गणगगनमणिभहारलार्वभौम भट्टारश्री विजयसेन सूरीश्वराणां विजयराज्येपातशाह श्रीअकब्बरमदापितोपाध्यायपदधारकश्रीशत्रुंजयकरमो- चनाद्यनेक सुकृतका रकमहोपाध्याय श्रीभानुचन्द्रगणिविरचितायां काद- म्बरीनिरन्तरव्याख्यायां प्रथमः परिच्छेदः । 5555 समाप्तं पूर्वार्धम् des Rses Rsp5 RR5 2525?