पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ कादम्बरी । जैर्जरितां मित्त्वेव लज्जां लब्धान्तरैर्निष्पतद्भिरनुरागविभ्रमैराकुलीक्रियमाणा प्रियवचनश्रवण- प्रीत्या च वेदाश्लिष्टमुत्क्षिप्य रोमाञ्चजालकेन दधतीवोत्तरीयांशुकं प्रेङ्खत्कुण्डलमाणिक्यपत्र- मकरकोटिलग्नं च शशिकिरणमयं मैरणपाशमिव मकरकेतुना निहितं कण्ठे हारमुन्मोचयन्ती प्रहर्षविह्वलान्तःकरणापि कन्यकाजनसहजां लज्जा मिवार्लेम्ब्य शनैः शनैरवदत् –'जानामि ते गरीयसीं प्रीतिम् । केवलमकठोरशिरीपैपुष्पमृदुप्रकृतेः कुतः प्रागल्भ्यमेतावन्नारीजनस्य, विशेषतो बालभावभाज: कुमारीलोकस्य | साहसकारिण्यस्ता याः स्वयं संदिशन्ति, समुप सर्पन्ति वा स्वयम्, साहसं संदिर्शन्ति । वाला जिहेमि । किं वा संदिशामि । अतिप्रियो- ऽसीति पौनरुक्त्यम्, तवाहं प्रियात्मेति जडप्रश्न:, त्वयि गरीयाननुराग इति वेश्यालापः, त्वया विना न जीवामीत्यनुभवविरोधः, परिभवति मामनङ्ग इत्यात्मदोषोपालम्भः, मनोभवे- नाहं भवते दत्तेत्युपसर्पणोपाय:, वलाद्धृतोऽसि मयेति बन्धकीधाम् अवश्यमागन्तव्य- 9 निरुध्यमानैरपि संनियमाणैरपि लव्धान्तरैः प्राप्ताव का शैर्निष्पत द्भिर्वहिर्निः सरद्भिरनुराग विभ्रमैरान्तरप्रीति वि लासैराकुलीक्रियमाणा व्याकुलतां नीयमाना । कीदृशी | मकरकेतुशरैः कंदर्पबाणैर्जर्जरिता | प्रियेति । प्रियं यद्वचनं तस्य श्रवणमाकर्णनं तस्माद्या प्रीतिस्तया यः खेदस्तेनालिष्टम् | आर्द्रमित्यर्थः । एवंविधमुत्त: रीयांशुकमुपसंव्यानवस्त्रं रोमाञ्चजालकेन रोमोद्मसमूहेनोत्क्षिप्योन्नतं कृत्वा दधती धारयन्ती | किंविशि- मुत्तरीयांशुक्रम् | प्रेङ्खदिति | प्रेङ्खच्चञ्चद्यत्कुण्डलं कर्णभूषणं तस्य माणिक्यपत्रं तत्र या मकरकोटिस्तस्यां लग्नं विलनम् । पुनः किं कुर्वन्ती । कण्ठे गले हारं मुक्ताकलापमुन्मोचयन्ती । कीदृशं हारम् | शशिकिरण- मयम् । अत्युज्ज्वलत्वाच्छशिप्रभाभिर्निष्पन्नमित्यर्थः । अत एव विरहमूर्च्छाजनकत्वान्मकरकेतुना निहितं स्थापितं मरणपाशमिव । प्रहर्षेति । प्रहर्षेण प्रमोदेन विह्वलमन्तःकरणं यस्याः सा | तथा कन्यकाजनस्य सहजां सहोत्पन्नां लज्जां त्रपामालम्व्येवालम्वनीकृत्येव शनैः शनैर्मन्दं मन्दमवददवोचत् । ते तव मयि विषये गरीयसीं प्रीतिं स्नेहं जानामि । परं केवलमकठोरं सुकुमारं यच्छिरीषपुष्पं तद्वन्मृद्वी प्रकृतिर्यस्यैवंवि- घस्य नारीजनस्यैतावत्प्रागल्भ्यं कुतः स्यात् । तत्रापि बालभावभाजः कुमारीलोकस्य विशेषतस्तन स्यात् । कथं तर्हि रुक्मिण्यादेः श्रीकृष्णविषये रहःसंदेशदूतप्रेषणादि वेत्यत आह - साहसेति । साहसकारिण्यो याः स्वयं संदिशन्ति संदेशं प्रेषयन्ति । स्वयं समुपसर्पन्ति समीपे गच्छन्ति । साहसं सत्त्ववृत्तिं संदिशन्ति क- थयन्ति । मायाशक्तिवशागृहीतशरीराः । तास्त्विति । दिव्या एवेत्यर्थः । अहं तु तथा विधा न भवामीत्यत आह - बाला इति । अहं वालाप्राप्तयौवना, अतो जिहेमि त्रपापन्ना भवामि | बालत्वात्किमपि न स्फुरतीत्याह – किं वेति पक्षान्तरे । किं संदिशामि किं कथयामि | प्रियसंदेशविषयार्थस्य स्फुरणमेव प्रकटयति — अतीति । सर्वजनस्य प्रियत्वेऽनुभवसिद्धे त्वमतिप्रियोऽसीत्यनिरुण्ण इतिवत्पुनरुक्तता | तवेति । तवाहं प्रियात्मा | प्रियो वल्लभ आत्मा यस्येति बहुव्रीहिः । इत्यपि जडस्य प्रश्नः | स्वविषयकप्रियवख्यापनाज्जडत्व मित्यर्थः । तदुक्तः म् – 'स्वरूपं वा प्रियो वापि वृत्तपौरुषमेव वा । प्रकाशयन्स्वयं यस्तु स वै जडतरः स्मृतः' इति । त्वयि (