पूर्वभागः । ४१३ । , जनोऽयं कारितः कुमारे पक्षपातं पञ्चेषुणा | यान्यस्यैतानि रूपाणि समधिकानि वा तानि मयि वर्तन्ते | हृदयाव्यतिरिक्तासीदानीं भवतीमेव पृच्छामि | उपदिश त्वं यत्र मे सांप्र- तम् । एवंविधानां वृत्तान्तानामनभिज्ञास्मि | अपि च मे गुरुजनवक्तव्यतां नीताया नितरां लज्जिताया जीवितान्मरणमेव श्रेयः पश्यति हृदयम्' इति । एवंवादिनीं भूयस्ता महमेवमवो- चम्-'अलमलमिदानीं देवि, किमनेनाकारणमरणानुबन्धेन । वरोरु, अनाराधितप्रसन्नेन कुसुमशरेण भगवता ते वरो दत्तः | का वात्र गुरुजनवक्तव्यता यदा खलु कन्यकां गुरुरिव पञ्चशरः संकल्पयति मातेवानुमोदते, पितेव ददाति, सखीवोत्कण्ठां जनयति, धात्रीव तरु- णतायां रत्युपचारं शिक्षयति । किमिवँ कथयामि ते याः स्वयं वृतवत्यः पतीन् । यदि च नैवमनर्थक एव तर्हि धर्मशास्त्रोपदिष्टः स्वयंवरविधिः । तत्प्रसीद देवि, अलममुना मरणानु- बन्धेन । शँपे ते पादपङ्कजस्पर्शेन | संदिश | प्रेषय माम् | यामि । आनयामि देवि, ते हृद- यद्वितम्' इत्येवमुक्ते मया प्रीतिद्रवाया दृष्ट्या पिबन्तीव मां निरुध्यमानैरपि मकरकेतुशर- ः। । त्प्रत्यवोचत् । किं तदित्याह - पत्र लेखेति । हे पत्रलेखे, यथा त्वं कथयसि तथायं जनः पचेषुणा कंदर्पण कुमारे पक्षपातं कारितः । तदेव स्पष्टीकरोति – यानीति | यानि त्वया कथितान्यस्य कंदर्पस्य रूपाणि तद- पेक्षया समधिकानि मयि कादम्वर्या वर्तन्त इत्यर्थः । अतिनिगूढत्वं यन्मम हृदि वर्तते तदपि भवतीमेव पृच्छा- मीत्याशयेनाह — भवतीमिति । भवतीं त्वामेव वा पृच्छामि प्रश्नं करोमि । अत्रार्थे हेतुमाह -- हृदयेति । इदानीं सांप्रतं मम हृदयात्त्वमव्यतिरिक्ताभिन्नासि । अत एव त्वां पृच्छामीत्यर्थः । ततो यदन मे मम सांप्रतं युक्तं तदुपदिश कथय । अत्र हेतुमाह - एवमिति । एवंविधानां पूर्वोद्दिष्टानां वृत्तान्तानामहमनभिज्ञास्म्यकुशला । तस्मात्त्वदीयोपदेशस्यैव प्रतीक्षा क्रियते । मम त्वेतदेव प्रतिभातमित्याह - गुरुजनेति । गुरुजनेन मातृ- पित्रादिजनेन वक्तव्यतां वचनीयतां नीतायाः प्रापिताया नितरामत्यर्थं लज्जिताया मे मम मरणमेव श्रेय इति हृदयं चेतः पश्यति । जानातीत्यर्थः । इत्येवंवादिनीं भूयस्ताम हमेवमवोचमब्रुवम् । हे देवि, अलमलं कृतं कृतम् । किमनेन व्यर्थेनाकारणमरणानुबन्धेन निष्प्रयोजनमृत्युप्रयासेन | चर इति । हे वरोरु, भगवता कुसुमशरेण ते तब वसे भर्ता दत्तः । भगवान्देव आराधित एव प्रसन्नः स्यात् । अयं तु न तथेत्याह---- अनेति । अनाराधितप्रसन्नेन | का वेति । अत्र गुरुजने का वक्तव्यता का वचनीयता | यदेति | खलु निश्चितम् । यदा गुरुरिव पञ्चशरः कंदर्पः कन्यकां संकल्पयति दानेच्छाविषयीकरोति । मातेव जनन्येवानुमोदते एतत्सुष्टु विहित मिति श्लाघते । पितेव जनकइव ददाति प्रयच्छति । सखीव वयस्येवोत्कण्ठामुत्कलिकां जनयत्यु- त्पादयति । धात्रीवोपमातेव तरुणतायां तारुण्यविषये रतिविषयको य उपचारो विभ्रमादिस्तं शिक्षयत्यभ्यासं कारयति । न च काश्चन खेच्छया पतिवरणं कुर्वन्तीत्याशयेनाह-या इति । याः पतीन्स्वयं अप नं। इ t
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४११
दिखावट