पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । ४१२ १ | Diacmon कालो मलयानिलेन, समासादितोऽवसरश्चन्द्रोदयेन, प्राप्तमनुरूपं फलं मधुमासकुसुमस- मृद्ध्या, गतो मंदिरारसदोपो गुणताम्, दर्शितं मुखं मन्मथयुगावतारेण' इति । अथाहं प्रकाशं 'विहस्याब्रुवम्—'देवि, यद्येवमुत्सृज कोपम् । प्रसीद | नार्हसि कामापराधैर्देवं दूषयितुम् । एतानि खैलु कुसुमचापस्य चापलानि शठस्य, न देवस्य' इत्येवमुक्तवतीं मां पुन: सकुतूहला सा प्रत्यभापत — 'योऽयं कामः कोऽपि वा, कथय कानि कान्यस्य रूपाणि' इति । तामहं व्यजिज्ञपम् – 'देवि, कुतोऽस्य रूपम् । अतनुरेष हुताशनः । तथा हि | अप्रकाशयज्वाला- वलीः संतापं जनयति, अप्रकटयन्धूमपटलमश्रु पातयति, अदर्शयन्मस्मरजोनिकरं पाण्डुता- माविर्भावयति । न च तद्भूतमेतावति त्रिभुवनेऽस्य शरशरव्यतां यन्न यातं याति यास्यति वा । को वास्मान्न त्रसति । गृहीतकुसुमकार्मुको बाणैर्बलवन्तमपि विध्यति । अपि चानेना- धिष्ठितानां कामिनीनां पश्यन्तीनां चिन्ताप्रियमुखसहस्रं संकटमम्बरतलम् लिखन्तीनां दयि- ताकारानविस्तीर्ण महीमण्डलम्, गणयन्तीनां वैलभगुणानसंख्यान्, शृण्वन्तीनां प्रियतम कथामबहुभाषिणीं सरस्वतीम्, ध्यायन्तीनां प्राणसमसमागमसुखानि इसीयान्कालो हृदय- स्यापतति' इति । एतदाकर्ण्य च क्षणं विचिन्त्य प्रत्यवादीत् – 'पत्रलेखे, यथा कथयसि तथा 9 चातुर्येणैन्दवी भिश्चन्द्र संबन्धिनीभिः कलाभिरिवामृतं पीयूषं दृष्टम् | पीयूषवृष्टिः कृतेत्यर्थः । तथा मलयानिलेन मलयवायुना चिराद्वहुकालात्कालः प्रस्तावो लब्धः । तथा चन्द्रोदयेनावसरः समासादितः । तथा मधुमासः सुरभिमासस्तस्य कुसुमसमृद्ध्यानुरूपं योग्यं फलं प्राप्तम् । मदिरेति । मदिरा कापिशायनं तस्य रसदोषों गुणतां गतः । मन्मथयुगावतारेण मुखं दर्शितम् | कादम्बर्यनुकूलतायां सत्यामेतत्सर्वमनुकूलं जातमित्यर्थः । अथेति । तच्चिन्तनानन्तरं प्रकाश प्रकटं विहस्याहमब्रुवमवोचम् | हे देवि, यद्येवं तर्हि कोपमुत्सृज त्यज । प्रसीद प्रसन्ना भव | कामापराधैर्देवं दूषयितुं नार्हसि न योग्या भवसि । एतानीति । एतानि पूर्वोक्तानि खलु निश्चित्तं कुसुमचापस्य कंदर्पस्य चापलानि चेष्टितानि न शठस्य देवस्य चन्द्रापीदस्य | इत्येवमुक्तवतीं मां पुनर्भूयः सकुतूहला सकौतुका सा इति प्रत्यभाषत प्रत्यवोचत् । इतिशब्दद्योत्यमाह - योऽयमिति । को- sपि वा योऽयं कामः, कथय प्रतिपादय, कानि, कान्यस्य रूपाणि । ततोऽहं तां कादम्बरी व्यजिज्ञपं विज्ञप्तिम करवम् । कुतोऽस्य रूपम् । एषोऽतनुर्महान्दृश्यमानवहेर्विलक्षणो हुताशनः । तदेव दर्शयति — तथा हीति | ज्वालावलीः शिखाश्रेणीरप्रकाशयन्न प्रकटीकुर्वन्संतापं जनयति । अप्रकटयन्नप्रकाशयन्धूमपटलमश्रु पातय श्रुपातं करोति । अदर्शयन्नप्रकटयन्मस्मलक्षणं रजोनिकरं पाण्डुतां पाण्डुरतामाविर्भावयति प्रकटयति । एता- वति त्रिभुवने तन भूतम् । यत्तदोर्नित्याभिसंबन्धादाह - यदिति । यदस्य मदनस्य शराणां वाणानां शरव्यतां वेध्यतां न यातं न प्राप्तम् । न कोऽपि सांप्रतं शरव्यतां याति । न कोप्य यास्यति । कोऽपि नास्मांस्त्रसति । गृहीतेति । गृहीतमात्तं कुसुमानां कार्मुकं धनुर्येनैवंविधो मदनो वाणैः शरैर्बलवन्तमपि विध्यति । अपिचेति युक्त्यन्तरे । अनेनेति । अनेन कंदर्पणाधिष्ठितानामाश्रितानां कामिनीनां हृदयस्य हसीयान्हासकृत्काल आप-