पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । मरुद्भिः श्रमजलशीकरतार कितावलीकचाटुकारः कपोलौ वीजयति । स्वेदसलिलशिथिलित- ग्रहणगलितोत्पलशून्येनापि करेण येवाङ्करानिव नैखकिरणाशुद्धान्दुर्विदग्धः कर्णपूरीकरोति । बल्लभतरबालबकुलसेककालकवलीकृतान्सुरागण्डूषान्सँकचग्रह मसक दृष्टो मां पाययति । भव- नाशोकताडनोद्यताम्पादप्रहारान्दुर्बुद्धि विडम्बितः शिरसा प्रतीच्छति । मन्मथमूढमानसश्च 'कथय हे पत्रलेखे, केन प्रकारेण निश्चेतनो निषिध्यते । प्रत्याख्यानमपीय संभावयति । आक्रोशमपि परिहासमाकलयति । असंभाषणमपि मानं मन्यते । दोषसंकीर्तनमपि स्पर- णोपायमवगच्छति । अवज्ञानमध्यनियन्त्रणं प्रणयमुत्प्रेक्षते | लोकापवादमपि यशो गणयति' इति । तामेवंवादिनीमाकर्ण्य प्रहर्षरस निर्भरा मनस्यकरवम् – 'अहो चन्द्रापीडमुद्दिश्य सुदूर- माकृष्टा खल्वियं मकरकेतुना | यदि च सत्यमेव कादम्बरीव्याजेन साक्षान्मनोभवचित्तवृत्तिः प्रसन्ना देवस्य, ततः सहजैः सादरं संवर्धितैः प्रत्युपकृतमस्य गुणैः, यशसा धवलिताः ककुभः ' यौवनेन रतिरससागरतरंगे: पातिता रत्नवृष्टिः, यौवनविलासैलिखितं नाम शशिनी, सौभा- ग्येन प्रकाशिता निजश्री:, लावण्येनैन्दवीभिरिव वृष्टममृतं कलाभिः । तथा च चिराल्लब्धः Meg १ ४११ यति पवनं करोति । कीदृशैरिव | हृदये योत्कलिका रणरणता सेवास्थिरत्वात्तरंगाः कल्लोलास्तेषां वातैरिव । स्वेदसलिलेन शिथिलीकृतं यदुत्पलं तत्संरक्षणार्थं न्यस्तं यत्करतलं तन्नखप्रभायां तत्कृतयवाकरकर्णपूरवुद्धिम धिकृत्याह – स्वेदेति । स दुर्विदग्धः करेण शुद्धान्न खकिरणान्पाण्डुरत्वसाम्यायवाङ्कुरानिव कर्णपूरी करोति कीदृशेन करेण | स्वेदसलिलेन शिथिलितं तस्य ग्रहणे गलितं यदुत्पलं तेन शून्येनापि । अत्रापिशब्देन कर्णपूरी- कृतोत्पलाभावेऽपि कर्णपूरकार्यं करोतीत्यर्थः । वल्लभतेति । वलभतरा ये बालबकुला लघुकेसरास्तेषां सेक- कालस्तत्र कवलीकृतान्सुरागण्डूषान्मद्यचुलुकान सकृन्निरन्तरम् | अलीनां नीलवादाह-सकचेति । सक- चग्रहं धृष्टो मां पाययति पानं कारयति । भवनाशोकेति । अशोकस्य गृहकवृक्षस्य ताडनं तन्त्रोद्यता- न्पादप्रहारांश्चरणाभिघातान्दुर्बुद्ध्या विडम्वितः शिरसोत्तमाङ्गेन प्रतीच्छति वाञ्छति । अत्र तदध्यासवशाद- शोकस्यापि तद्रूपत्वेन चिन्तनमित्यर्थः | विरहेण मूढतां प्रदर्शयन्नाह - मन्मथेति । मन्मथेन मूढं मानसं यस्यैवंविधः । स्वव्यामोहं तत्रैवारोपयन्नाह — निश्चेतन इति । त्वं कथय केन प्रकारेण निषिष्यते प्रतिषिद्धो- इप्युत्कटरागवशाद्धृद्येव तिष्ठति । प्रत्याख्यानेति । प्रत्याख्यानं निराकरणमीर्ष्यामसूयां संभावयति संभावनां करोति । आक्रोशमपि निष्ठुरोक्तिमपि | परिहासं हास्यमात्रमाकलयति चिन्तयति । असंभाषणमप्यजल्पन- मपि मानं मन्यते जानाति । दोषसंकीर्तनमपि स्मरणोपायत्वेनावगच्छति जानाति । अवज्ञानमप्य वगणनमपि स्नेहस्य चाटूनि नियन्त्रणानि तद्रहितमनियन्त्रणं प्रणयं स्नेहमुत्प्रेक्षते | लोकापवादमपि यशो गणयत्याकलयति । इदं च सर्व तद्विषयकोत्कटाव्यासवशाज्ज्ञेयम् । इत्येवंवादिनीं तामाकर्ण्य प्रकृष्टो यो हर्षस्तलक्षणो यो