पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । केसरिकिशोरकैरशून्योद्देशाम, प्रभूतरुधिरदर्शनोद्भूतमूर्च्छा पतितेनेव प्रतिबिम्बितेनास्तता श्रेण सवित्रान्तरीकृतैः क्षेतजप्रवाहै: पिच्छिलीकृताजिराम्, अवलम्बमानदीपँधूमरक्तांशुकेन प्र- थितशिखिगलबैलयावलिना पिष्टपाण्डुरितघनघण्टामलाभारिणा त्रापुपसिंहमुखमध्यस्थित- स्थूललोहँ कण्टकं दत्तदन्तदण्डार्गलं गलत्पीतनीललोहितेदर्पणस्फुरितबुद्रुमालं कपाटपटद्वयं दधानेन गर्भगृहद्वारदेशेन दीयमानाम्, अन्तः पिण्डिकापीठँपातिभिश्च सर्वपशुजीवितैरिव श- रणमुपागतैरैलेक्तकपटैर विरहितचरणमूलाम्, पतितकृष्णचामर प्रतिबिम्बानां च शिरश्छेदल- नकेशजालकानामिव पैरैशुपट्टिप्रभृतीनां जीवविशसनशस्त्राणां प्रभाभिर्बद्धबहलान्धकारतया पौतालगृहवासिनीमियोपलक्ष्यमाणाम्, रक्तचन्दनखचित स्फुरत्फलपल्लवकलितैश्च बिल्वपत्र- नि तानि विकिरद्भिरितस्ततो विक्षिपद्भिः | अम्बिकाया: भैरव्याः परिग्रहेण स्वीकारेण दुर्दुष्टं ललितं चेष्टितं येषां तैः क्रीडद्भिः क्रीडां कुर्वद्भिः केसरिकिशोर कैर्नखरायुधचालकैरशून्य उद्देशः प्रदेशो यस्याः सा ताम् । एतेन सिंहबाहुल्यं वर्णितम् । तद्वर्णनाच महाविपिनवासित्वं व्यङ्ग्यम् । क्षतजानि रुधिराणि तेषां प्रवाहैरोपैः पिच्छिलीकृतं विजिलीकृतमजिरमङ्गणं यस्याः सा ताम् । कीदृशैः क्षतजलप्रवाहैः । प्रतीति । प्रतिविम्बितेन संक्रान्तेनास्तताम्रेणास्तसमयरक्तेन सवित्रा सूर्येणान्तरीकृतैर्व्यवधानीकृतैः । पतनसाम्येनाह– प्रभूतेति । प्रभूतं भूयिष्ठं यद्रुधिरं रक्तं तस्य दर्शनमवलोकनं तेनोद्भूता संजाता या मूर्च्छा तथा पतितेनेव सस्तनेव । गर्भे । ति । गर्भगृहमपचरकस्तस्य द्वारदेशेन प्रतीहारप्रदेशेन दीपमानां शोभमानाम् । अथ द्वारदेशं विशेषयन्नाह - अवलम्बेति । अवलम्बमाना ये दीपा गृहमणयस्तेषां धूमै रक्तानि रञ्जितान्यंशुकानि यस्मिन् । एतेन दीपक- बाहुल्यं वर्णितम् । अवलम्बमाना दीपा धूमा उत्क्षिप्य माणकृष्णागुरुसंबन्धिनो रक्तांशुकानि च यस्मिन्निति वा द्वारदेशातिशयवर्णनमेतत् । तेति । प्रथिता गुम्फिताः शिखिनो मयूरास्तेषां गलवलयानां निगरण- कण्टकानामावलयः श्रेणयो यस्मिन्स तेन । पिष्टेति । पिष्टवत्पाण्डुरिता धूसरवर्णा घना निविडा या घण्टा- स्तासां माला श्रेणिस्तां बिभर्तीलेवंशीलेन भारिणा । किं कुर्वता द्वारदेशेन । दधानेन बिभ्रता । किम् । कपा- टस्यारेः पटद्वयम् । तदेव विशिष्टि - त्रापेति । त्रापुषः श्वेतरूप्यनिर्मितो यः सिंहो हर्यक्षस्तस्य मुखम- ध्यस्थितं स्थूलं लोहकण्टकं यस्मिन् | दत्ता दन्तदण्डस्यार्गला यस्मिन् | गलदिति । गलन्तः स्रवन्तः पीत- नीललोहिता इति त्रयोपादानं विविधवर्णोपलक्षणं तेषां दर्पणेभ्यः स्फुरिता विद्योतिता बुहुदाकृतयो द्युति- पुञ्जास्तेषां माला यस्मिन् । पुनः कीदृशीम् । अन्तरिति । अलक्तकपर्यावकरसरक्तवस्त्रैरविरहितं चरणयो र्मूलं यस्याः सा ताम् | चरणमूलेऽपि रक्तवस्त्राणि शोभातिशयार्थं प्रियन्ते । तत्र हिंसितपशुजीवितानां रुधिर संवन्धवशाद्वक्तपटारुण्यसाम्येनोत्प्रेक्षते - अन्तर्मध्यवर्तिनी या पिण्डिका तस्याः पीठं तत्र पातिभिः पतन- शीलैः । आरुण्यव्यञ्जकमुक्त्वा चरणमूलसंबन्धनियामकमाह -- शरणेति । शरणमुपागतैः सर्वपशुजीवितैरि- व | रुविरस्यापि जीवितेन सहगमनादुपमानोपमेयभावः । पतितेति । पतितानि कृष्णचामराणां प्रतिबिम्वानि 1