पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । , नाथीकृतद्वारदेशाम्, अभिमुखप्रतिष्ठितेन च विनिहितरक्तचन्दनहस्तकतया रुधिरारुणयम- करतलास्फालितेनेव शोणितनवलोभलोलशिंवा विलिह्यमान लो हितलोचनेन लोहे महिषेणाध्या- सिताञ्जनशिलावेदिकाम्, क्वचिद्रक्तोत्पलै : शबरनिपातितानां वनमहिषाणामिव लोचनैः क- चिंदगस्तिकुडालैः केसरिणामिव करजैः क्वचित्किशुककुसुमकुडालै: शार्दूलानामिव सरुधिरै- र्नखरैः कृतपुण्यपुष्पप्रकराम्, अन्यत्राङ्कुरितामिव कुटिलहरिणविषाणकोटिकूटैः पल्लवितामिव सरसजिह्वाच्छेदशतैः कुसुमितामिव रक्तानयनसहस्रैः फलितामिव मुण्डमण्डलैः उपहारहिंसां दर्शयन्तीम् शाखान्तरालनिलीन रक्तकुक्कुटकुलैः श्वभयादकालदर्शितकुसुम स्तबकैरिव रक्ता- शोकविट पैर्विभूषिताङ्गणाम् वलिरुधिरपानतृष्णया समागतैश्च वेतालैरिव तालैर्दीयमानफल- मुण्डोपहाराम्, शङ्काज्वरकम्पितैरिव कदलिकावनैर्भयोत्कण्ट कितैरिव श्रीफलत रुखण्डै त्रासो- र्ध्वके शैरिव खेर्जूरवनैः समन्ताद्गहनीकृताम्, वनकरिकुम्भविदलित रक्तमुक्ताफलानिरु विरोरु- णानि बलिसिक्थलुब्धमुग्धककवाकुप्रस्तमुक्तानि विकिरद्भिरम्बिकापरिग्रहदुर्ललितैः क्रीडन्द्भि- 3 9 मेयसाम्यम् | अभीति | अभिमुखं संमुखम् । चण्डिकाया इति शेषः । प्रतिष्ठितेन स्थापितेन लोहमहिषेणा- ध्यासिताश्रिताञ्जनशिलावेदिका यस्याः सा ताम् । विनीति | विनिहिता दत्ता ये रक्तचन्दन हस्तकास्तेषां भावस्तत्ता तथा रुधिरेणारुणं यद्यमकरतलं युग्मपाणितलं तेनास्फालितेनेव लोचनयोर तिलौहित्यवशाधिर- भ्रमेणाह– शोणितेति । शोणितस्य रुधिरस्य नवः प्रत्यग्रो लोभस्तेन लोला या शिवा जम्बुकप्रिया तथा विलिह्यमाने आस्वाद्यमाने लोहिते लोचने नेत्रे यस्य स तेन । क्वचिदिति । कस्मिंश्चित्प्रदेशे शबरनिपाति- तानां भिलव्यापादितानां वनमहिषाणां लोचनैरिव नेत्रैरिव रक्तोत्पलैः कोकनदैः । क्वचित्केसरिणां कण्ठीरवाणां कर जैर्न खै रिवाग स्तिकुङ्म लैर्मुनिवृक्षमुकुलैः । क्वचिदिति । क्वचिच्छार्दूलानां द्वीदिनां सरुधिरैर्नखरैरिव किंशुको ब्रह्मपादपस्तस्य कुसुमकुङ्मलैः कृतो विहितः पुण्यः पवित्रः पुष्पप्रकरो यस्यां सा ताम् । अन्यत्रेति । अन्यस्मिन्स्थले कुटिलानि चक्राणि हरिणविषाणानि मृगशृङ्गाणि तेषां कोटयस्तासां कूटैः समूहैरङ्कुरितामिव प्ररोहितामिव । सरसेति । सरसा या जिह्वा रसनास्तासां छेदशतैः पल्लवितामिव किसलयितामिव रक्तेति । रक्तानि नयनसहस्राणि तैः कुसुमितामिव पुष्पितामिव । मुण्डमण्डलैः फलितामिव संजातफला- मिव । उपेति । उपहारहिंसां बलिप्रमथनं दर्शयन्तीं प्रकटयन्तीम् । चण्डिकायाः संमुखवेदिकां वर्णयित्वा- जणं वर्णयन्नाह -- शाखेति । श्वभयात्कौलेयकभीतेः शाखान्तराले शाखाचिचाले निलीनानि मध्यप्रविष्टानि यानि रक्तकुक्कुटकुलानि लोहितताम्रचूडपटलानि येष्वेवंबिवैरकाले दर्शितकुसुमस्तवकैरिव रक्ताशोकविटपै- हितके लक्षैर्विभूषितं शोभितभङ्गणमजिरं यस्याः सा ताम् । वरुपहारस्य रुधिरपानं रक्ताखादनं तस्य तृष्णया गर्धेन समागतैः तालैः | उच्चत्वसाम्येनाह – वेतालैरिति । तालफलानां मस्तकसाम्येनाह- दीयमानेति । दीयमानानि फलान्येव मुण्डानि शिरांसि तान्येवोपहारो बलिर्यस्यै सा ताम् । कदलिकावने कम्पातिशयं बिल्वखण्डे कण्टकातिशयं खर्जूरीवन ऊर्ध्वपत्रातिशयं व्यञ्जयितुमुत्प्रेक्षते – शङ्केति । शङ्का पशु-