पूर्वभाग: १ ३९७ दामभिर्वालकमुण्डप्रालम्बैरिव कृतमण्डनाम्, शोणिततीप्रकदम्बस्त वककृतार्चनैश्च पैशूपहार- पटपटुरटितरसोल्लसितरोमा चैरिवाः क्रूरता मुद्वहन्तीम् चारुचामीकरपट्टप्रावृतेन च ललाटेन शबरसुन्दरीरचित सिन्दूर तिलकबिन्दुना दौडिमकुसुमकर्णपूरप्रभासेकलोहितायमा- नकपोलभित्तिना रुधिरताम्बूलारुणिताधरपुटेन भृकुटिकुटिलबभ्रुणा रक्तनयनेन मुखेन कुसुम्भपाटलितदुकूलकुलितया च देहलतया महाकालाभिसारिकावेषविभ्रमं विभ्रतीम्, सं- पिण्डितनीलगुग्गुलधूपधूमारुणीकृताभिश्च प्रचलन्तीभिर्गंर्भगृहदीपिकालताभिरङ्गैलीभिरिव महिषासुरशोणितलवालोहिनीभिः स्कन्धपीठकण्डूयनचलितत्रिशूलदण्डकृतापराधं वनमहि- घमिव तर्जयन्तीम्, प्रैवलकूर्चधरैश्छागैरपि वृतव्रतैरिव स्फुरदधरपुढै राखुभिरपि जपपरैरिवे कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयनैरिव ज्वलितलोहितमूर्धरत्नरश्मिभिः कृष्णसपैंरपि शिरोधृतमणिदीपकैरिवाराध्यमानाम् सर्वतः कठोरवायसगणेन च रटती स्तुतिपरेणेव , , - फलपलवास्यैः कलितैः सहितैर्बिल्वाः श्रीफलास्तेषां पत्रदामभिः | वर्तुलवसाम्यादाह - बालकेति | बालकाः शिशवस्तेषां मुण्डानां शिरसां प्रालम्वैरिव ऋजुलम्बिपुष्पदामभिरिव कृतं मण्डनं यया सा ताम् । स्वाभाविकं तु कदम्वकेसरं कपिशमत आह– शोणितेति । शोणितेन ताम्रा रक्ता ये कदम्बस्तवका नीप- गुच्छकास्तैः कृतमर्चनं पूजनं येषां तैरङ्गैर्हस्तपादादिभिः । शोणितरक्तनीपगुच्छस रोमोद्गमसादृश्यं वर्णयन्नाह- पशूपहारेति । पशूनामुपहारे बलिविधाने पटहानां दुन्दुभीनां यत्पद्रटितं स्पष्टशब्दितं तेन यो रसः । श्रोतुरिति शेषः। तेनोल्लसिता उल्लासं प्राप्ता रोमाञ्चा रोमहर्षणानि येषां तैरिव क्रूरतां रौद्रतामुद्वहन्तीं धारयन्तीम् । एतदर्थस्पष्टीकरणाय हेतूनाह — चार्विति । चारु मनोहरो यश्चामीकरपः सुवर्णपट्टस्तेन प्रावृतेनाच्छादितेन ललाटेनालीकेन । कीदृशेन । शबरेति । शवरसुन्दरीमिर्भिलवनिताभी रचिता विहिताः सिन्दूरस्य नागजस्य तिलकबिन्दवो यस्मिंस्तत्तेन | तथा मुखेन वदनेन । अथ मुखं विशिष्ट -- दाडिमेति । दाडिमः करकस्तस्य कुसुमं पुष्पं तस्य कर्णपूरं तस्य प्रभा कान्तिरतस्याः सेक: संपर्कस्तेन लोहितायमाना कपोलभित्तिर्यस्मिंस्तत्तेन । रुधिरेति । रुधिरपानलक्षणं यत्ताम्बूलं तेनारुणितोऽवरपुटो यस्मिंस्तत्तेन । भृकुटीति । भृकुटिर्बुकुटि- स्तया कुटिले वक्रे बभ्रुणी यस्मिंस्तत्तेन । रक्तेति । रक्ते लोहिते नयने नेत्रे यस्मिंस्तत्तेन | पुनः कया । देह- लतया | सरलत्वाल्छतासाभ्यम् । यद्वा एतेन सौकुमार्यातिशयो वर्णितः । कीदृश्या | कुसुम्भेन कमलोत्तरेण पा टलितं श्वेतरक्तीभूतं यद्दुकूलं क्षौमं तेन कलितया सहितया देहलतया | महाकालो रुद्रस्तस्याभिसारिकाया वेषवि. भ्रमं नेपथ्यविलासं बिभ्रतीं धारयन्तीम् । संपिण्डितेति । संपिण्डितः पुञ्जीकृतो यो नीलगुग्गुलः पलंकषस्तस्य धूपधूमस्तेनारुणीकृताभी रक्तीकृताभिः प्रचलन्तीभिर्गर्भगृहस्थापवरकस्य दीपिकालताभिर्दशेन्धनवल्लीभिः । अत एव किंचिदारक्तकृष्णतया तत्साम्यप्रदर्शनार्थमाह - अङ्गुलीति । कीदृशीभिः । महिषासुरो दैलस्तस्य शोणितं तस्य लवस्तेनालोहिनीभिर्वन महिषमरण्यरक्ताक्षं तर्जयन्तीं न्यकुर्वन्तीम् । कीदृशम् स्कन्धपीठस्य यत्क ड्यनं तेन चलितः कम्तिो यस्त्रिशूलदण्डः स एव कृतोऽपराधो येनैवंभूतम् | सजातीयकृत महिपापराधाद्व- । - A
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९५
दिखावट