पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । करया, विकसितर्कर अमञ्जरीरजो विच्छु रितत टैस्तटत रुबद्ध पेंटच्चरकर्पटध्वज चिह्नैरिष्टिकारिध- तशुष्कपल्लव विष्टरानुमितपथिकविश्रामैर्विश्रान्तकार्पटि कस्फोटितधूलिधूसर किसलयलाञ्छितो- पकण्ठैः पत्नसंकरासुरभीकृताशिशिरपङ्किलविवर्णास्वादु जलैव्रततिप्रन्थिप्रथितपर्णपुटतॄणपूली- चिंह्वानुमेयैर्जरत्कान्तारकूपैर सुलभसलिलतयानभिलपितोद्देशया, मधुविन्दुस्यन्दि सिन्दुवारव- नराजिरजोधूसरिततीरा मिश्च कुँवकलता जालकैर्जटिलीकृत सैकताभिरध्वगोत्खात वालुकाकूप- कोपलभ्यमानकलुषस्वल्पसलिलाभिः शुष्कगिरिनदिकाभिर्विषमीकृतान्तरालया, कुक्कुटकुल- कौलेय कर टितानुमीयमानगुल्मगहनप्रमटिकया, शून्यया दिवसमटव्या गत्वा पेरिणतरवि- बिम्बे बिम्बारुणातपविसरे वासरे निःशाखीकृतकदम्बशाल्मलीपलाशबहुलैः शिखरशेपैक- पल्लवविडम्बितातपत्रैः पादपैरूर्वस्थितप्ररोह स्थूलस्थाणुमूलग्रन्थिजटिलैश्च हरितालकपिलपक्क - ११ ३९३ COD - ख़ादानन्तरं त्यक्तान्यामलकीफलानि तेषां निकरः समूहो यस्यां सा तथा । जरमिति | जरन्तो जीर्णा ये कान्तारकूपास्तैः कृत्वा न सुलभं सलिलं जलं यस्यां तस्या भावस्तत्ता तयानभिलषितो नेप्सितः । पान्थेनेति शेषः | उद्देशः प्रदेशो यस्याः सा तया । अथ कान्तारकूपान्विशिनष्टि - विकसितेति । विकसिता विनिद्रा ये करज्जा नक्तमालास्तेषां मञ्जर्यस्तासां रजोभिः परागैर्विच्छुरितानि धूसरितानि तटानि कूपोपकण्ठा येषां तैः । तटेति । तटतरुषु कूपोपकण्ठसमुद्भववृक्षेषु बद्धाः पटच्चरैश्चौरैः कर्पटध्वजः स एव कूपाभिव्यञ्जकं चिह्नं येषां तैः । इष्टिकेति । इष्टिका सुस्थिता येषु, शुष्क पल्लवविष्टराः संस्तारकास्तैरनुमिताः पथिकानां विश्रामा येषु तैः । विश्रान्तेति | विश्रान्ताः स्थिताः ये कार्पटिकास्तैर्विस्फोटिता दूरीकृता या धूली रजस्तया धूसराणि मलि- नानि किसलयानि पलवास्तैर्लाञ्छितश्चिह्नित उपकण्ठो येषां तैः । पत्रेति । पत्र संकरैः पर्णसमूहैरसुरभीकृतान्यत एवाशिशिराण्यशीतलानि पङ्किलानि कर्दमयुक्तानि विवर्णान्यशुभवर्णान्यस्वादूनि खादुरहितानि जलानि येषां तैः । व्रततीति । व्रततीनां वल्लीनां ग्रन्थिभिर्मथिताः पर्णपुटयुक्तास्तृणपूल्यस्ता एव चिह्नानि तैरनुमातुं योग्यैः । शुष्केति । शुष्का गिरीणां नय एव नदिकाः । स्वार्थे कः । 'केणः' इति हस्खः । ताभिर्विषमीकृतं स्थपुटीकृत- मन्तरालं मध्यं यस्याः सा तथा | अथ नदिका विशेषयन्नाह -मध्विति । मधुविन्दुस्यन्दीनि यानि सिन्दुवा- रवनानि निर्गुण्डीकाननानि तेषां राजिः पङ्क्तिस्तस्या रजः परागस्तेन धूसरितानि तीराणि तटानि यासां ताभिः । कुञ्जकेति । कुञ्जकलताः प्रसिद्धास्तासां जालकैर्जटिलीकृतानि सैकतानि जलोज्झितपुलिनानि यासां ताभिः । अध्वगैरिति । अध्वगैः पथिकैरुत्खाताः खनिता वालुकास कूपका विदारकास्तेप्रूपलभ्यमानं प्राप्यमाणं कलुषं मलिनं स्वल्पं स्तोकं सलिलं जलं यासु ताभिः | कुक्कुटेति । कुक्कुटकुलं ताम्रचूडवंशः, कौलेयकाः श्वानः तेषां रटितं शब्दितं तेनानुमीयमाना संभाव्यमाना गुल्मगहने ग्रामटिका क्षुद्रग्रामो यस्यां सा तया । अथ वासरं विशिष्टि — विम्बेति । बिम्वसंबन्धि योऽरुणो रक्त आतपः सूर्यालोकस्तस्य विसरः समूहो यस्मिन् । 'समु- दायराशिविसरत्राताः कलापो व्रजः' इति कोशः । तथैवंविधैः पादपैरटवीक्षेत्रच विरलीकृतोऽनिविडीकृतो यो